71025: अद्ड् डतरादिभ्यः पञ्चभ्यः¶
Padacheda: अद्ड् | S | 1 | 1 |
डतरादिभ्यः | S | 5 | 3 |
पञ्चभ्यः | S | 5 | 3 |
Sutrartha¶
नपुंसकलिङ्गवाचिभ्यः डतरप्रत्ययान्तशब्देभ्यः परस्य, डतमप्रत्ययान्तशब्देभ्यः परस्य, तथा - ‘अन्य’, ‘अन्यतर’, ‘इतर’ एतेभ्यः परस्य सुँ/अम्-प्रत्यययोः अद्ड्-आदेशः भवति ।
सर्वादिगणे पाठिताः ‘डतर-डतम-अन्य-अन्यतर-इतर’ एतेषाम् पञ्चानामुल्लेखः अस्मिन् सूत्रे ‘डतरादिभ्यः पञ्चभ्यः’ इत्यनेन कृतः अस्ति । एतेषु ‘डतर’ तथा ‘डतम’ एतौ प्रत्ययौ, अतः सर्वे डतरप्रत्ययान्तशब्दाः डतमप्रत्ययान्तशब्दाः च अनयोः शब्दयोः गृह्यन्ते । एते शब्दाः तथा ‘अन्य’, ‘अन्यतर’, ‘इतर’ - एते त्रयः शब्दाः त्रिषु लिङ्गेषु भवन्ति । नपुंसकलिङ्गे एतेषां परस्य सुँ-प्रत्ययस्य तथा च अम्-प्रत्ययस्य ‘अद्ड्’ अयमादेशः भवति । अस्मिन् आदेशे डकारः इत्संज्ञकः अस्ति, अतः केवलंम् ‘अत्’ इत्येव अवशिष्यते । यथा - अन्य + सुँ / अम् → अन्य + अद् [स्वमोर्नपुंसकात् (7.1.23) इत्यनेन सुँ/अम् प्रत्यययोः लुक्-प्राप्ते, अपवादत्वेन अतोऽम् (7.1.24) इत्यनेन तयोः अम्-आदेशे प्राप्ते, अपवादत्वेन अद्ड् डतरादिभ्यः पञ्चभ्यः (7.1.25) इति अद्ड्-आदेशः । डकारस्य इत्संज्ञा, लोपः ।] → अन्य् + अद् [टेः (6.4.143) इत्यनेन डित्-प्रत्यये परे भस्य अङ्गस्य अन्तिमस्य टि-संज्ञकस्य लोपः भवति ।]
→ अन्यद् / अन्यत् [वाऽवसाने (8.4.56) इति विकल्पेन चर्त्वम्]
एवमेव कतरत्, कतमत्, स्वल्पतमत्, अन्यतरत्, इतरत् - एतानि रूपाणि अपि सिद्ध्यन्ति । प्रश्नः - अद्ड् इत्यत्र अन्ते इत्संज्ञकः डकारः किमर्थम् स्थापितः अस्ति? उत्तरम् - यदि अस्मिन् प्रत्यये डकारः न अभविष्यत्, तर्हि टेः (6.4.143) इत्यनेन अङ्गस्य अन्तिम-अकारस्य लोपः अपि न अभविष्यत् । अस्यां स्थितौ ‘अन्य + अद्’ इत्यत्र प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे कृते ‘अन्याद्’ इति रूपं अभविष्यत् । तत् तथा मा भूत्, तथा च डित्वात् भस्य टिसंज्ञकस्य अन्तिमवर्णस्य अपि लोपः भवेत्, एतत् साधयितुम् डकारः स्थापितः अस्ति ।
Sutrartha (English)¶
The सुँ / अम् प्रत्यय occurring after the words ending in डतर and डतम प्रत्यय, and after the words ‘अन्य’, ‘अन्यतर’, ‘इतर’ gets the अद्ड् आदेश.
Vasu English Summary¶
अद्ड् is substituted for the Nominative 1st-Case and Accusative -2nd case singular endings after the Pronouns डतर etc. (i.e. the अङ्ग (stems) formed with the affixes 1. डतर and 2. डतम, and the अङ्ग (stems) 2. इतर 4. अन्य and 5. अन्यतर।
Vasu English Translation¶
अद्ड् is substituted for the Nominative 1st-Case and Accusative -2nd case singular endings after the Pronouns डतर etc. (i.e. the अङ्ग (stems) formed with the affixes 1. डतर and 2. डतम, and the अङ्ग (stems) 2. इतर 4. अन्य and 5. अन्यतर। Karika
अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु । अद्डित्त्वाड्डतरादीनां न लोपो नापि दीर्घता ॥
These are the five pronouns, which in the list of Sarvanamans are read together (See (1.1.27)):- डतर, डतम, इतर, अन्य and अन्यतर ॥ Thus कतर + अद्ड् = कतरत् (the अ of katara elided by ड्): as कतरत् तिष्ठन्ति, कतरत् पश्य ॥ So also कतमत्, इतरत्, अन्यतरत् and अन्यत् ॥ Why after these five only ? Observe नेमं तिष्ठन्ति, नेमं पश्य ॥ Why do we make the affix have an indicatory ड्? In order to prevent the lengthening of the vowel in the nominative singular : as कतर + अत् = कतरात् by (6.1.102). In the case of the accusative, अत् being the substitute of अम् will be sthanivat, and give us कतरत् by (6.1.107) even without ड् ॥ Why not make the affix merely त् and not अत्ड्; it would give कतरत् &c without the application of any rule of Sandhi? The simple त् would not give us the Vocative हे कतरत्, The final would have been elided in the Vocative, as being an aprikta. See however (6.1.69).
Karika :-If in the sutra (6.1.69), there is the anuvritti of the word ‘aprkta’, then there is fault with regard to अम् (i. e. the vocative of members in अम् will not be elided, हे कुण्डम् will be the form required and not हे कुण्ड); if however, the anuvritti of aprkta ceases, there will be anomaly with regard to pronouns कतरत् &c (i.e. we shall not have the form हे कतरत् but हे कतर) Therefore, by reading the affix अत् with an indicatory ड् i. e reading it as अद्ड्, we get out of this dilemma, and so there is not the elision of अत् in कतरत् &c in the vocative; nor is there lengthening of the vowel (कतरात्, which would have been the form had there been no ड्).
Bhashya¶
अद्ड्डतरादिभ्यः पञ्ञ्चभ्यः ॥ अद्भावे पूर्वसवर्णप्रतिषेधः ॥ अद्भावे पूर्वसवर्णस्य प्रतिषेधो वक्तव्यः कतरत्तिष्ठति । करतत्परश्य(1) ॥. सिद्धमनुनासिकोपधत्वात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ (ठअनुनासिकोपधत्वात्(2)) अनुनासिकोपधोऽच्छब्दः करिष्यते ॥ दुक्करणाद्वा ॥ अथवा दुग् डतरादीनामिति वक्ष्यामि ॥ डित्करणाद्वा । अथवा डिदच्छब्दः करिष्यते ॥ स तर्हि डकारः कर्तव्यः ? ॥ न कर्तव्यः । क्रियते न्यास एव । द्विडकारको निर्देशः, - अद्ड्डतरादिभ्य इति । (अद्ड्डतरादिभ्यः) ॥
Kashika¶
डतरादिभ्यः परयोः स्वमोरद्ड् इत्ययमादेशो भवति। कतरत् तिष्ठति। कतरत् पश्य। कतमत् तिष्ठति। कतमत् पश्य। इतरत्। अन्यतरत्। अन्यत्। पञ्चभ्य इति किम्? नेमं तिष्ठति। नेमं पश्य। डित्करणं किम्? कतरत् तिष्ठतीत्यत्र पूर्वसवर्णदीर्घो मा भूत्। इह तु कतरत् पश्येति स्थानिवद्भावादमिपूर्वत्वेन (६.१.१०७) अपि सिध्यति। एवं तर्हि तकारादेश एव कस्माद् न विधीयते? हे कतरदिति संबुद्घेर्लोपो मा भूत्।
अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु।
अद्ड्डित्त्वाड् डतरादीनां न लोपो नापि दीर्घता॥
Siddhanta Kaumudi¶
एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥
Laghu Siddhanta Kaumudi¶
एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात्॥
Balamanorama¶
अद्ड् डतरादिभ्यः पञ्चभ्यः - अद्ड्डतरादिभ्यः । ‘अद्ड्-डतरादिभ्य’ इति छेदः । दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत इति कैयटः । डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः । अत्र डक्त्रडतमौ प्रत्ययौ । अतस्तदन्तग्रहणं ।स्वमोर्नपुंसका॑दिति सूत्रमनुवर्तते तदाह — एभ्य इत्यादिना ।
Tattvabodhini¶
अद्ड् डतरादिभ्यः पञ्चभ्यः - अद्ड्डतरादिभ्यः । पञ्चभ्य इति किम्, नेमं तिष्ठति । नेमं पश्य । डतरादयोडतरडतमेतरान्यतरे॑ति सर्वादिषु पठिताः । अद्डादेशः स्यादिति । जिघृक्षितादेशस्वरूपप्रतिपादमाय ष्टुत्वं न कृतम् ।
Padamanjari¶
अद्ड्डादेशो भवतीति । वविक्षितादेशरुपप्रतिपादनाय ष्टुअत्वं न कृतम् । कथं पुनर्ज्ञायते - डिदयमादेश एइति यदि हि डिन्नस्यात् डतरादिभ्यः पञ्चभ्योऽत् इत्येव ब्रूयात् । किं पुनः कारणं सावेव दीर्घनिवृत्तिः प्रयोजनमुच्यते, न त्वमि इत्याह - इह त्विति । एवं तर्हीति । पूर्वसूत्रविहितमममनुवर्त्य डतरादिभ्य इति पञ्चम्याः षष्ठी प्रकल्प्य तस्यैवामो दकारो विधास्यत इति चोद्यार्थः । हे कतरदित्यत्र सम्बुद्धिलोपो मा भूदिति । अयं च दोष पूर्वस्मिन्नपि पक्षे समानः । ननु च सम्बुद्धिलोपे हल्ड।लब्भ्यः इत्यतोऽपृक्तग्रहणमनुवर्तयिष्यते, इह च आदेः परस्य इत्यमोऽकारस्य दकारे कृते मकारस्य संयोगान्तलोपः, तस्यासिद्धत्वान्नायमपृक्तः, एवमदादेशो नापृक्तः, यद्यपृतग्रहणमनुवर्तते, हे काण्डेत्यामोऽपि न स्यादिति दोषः । तदिदमुक्तम् - अथ निवृतमपृक्तग्रहणम्, ततो निवृते डतरादिषु दोषः - हे कतरदित्यादौ लोपः स्यादिति । अतो डित्वादद्डादेशविधानातस्य च डित्वान्न सम्बुद्धिलोपः, नापि पूर्वसवर्णदीर्घत्वमित्यर्थः । यदि पुनः पूर्वसूत्रबिहितमममनुवर्त्य तस्यैवादादेशो विधीयते शक्यं डित्वमकर्तुम् ॥
Nyaas¶
द्विडाकारोऽयं निद्र्दशः - तत्रैको डतरसम्बन्धी द्वितीयस्त्वादेशम्बन्धी। डतरादयश्चैते सर्वाद्यन्तःपातिनो गृह्यन्ते; न तु द्वयोरेकस्य डतरच् (5.3.92) इत्येवमादयः प्रत्ययाः। कुत एतत्? नेतराच्छन्दसि` (7.1.26) इति प्रतिषेधात्। प्रत्ययग्रहणे हीतरशब्दात्? प्राप्तेरेव नास्तीति प्रतिषेधोऽनर्थकः स्यात्। तेषां डतरादीनां मध्येऽन्त्यानि त्रीणि प्रातिपदिकानि; डतरडतमौ च प्रत्ययौ; तत्र प्रत्यग्रहणपरिभाषया (भो।प।सू।7) तदन्तयोग्र्रहणं भवति। कतरत् इति। किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् (5.3.92) । कतमत् इति। वा बहुनां जातिपरिप्रश्ने डतमच् (5.3.93) । कतरत्? तिष्ठतीत्यत्र इत्यादि। असति हि ङित्करणे कतरत्? तिष्ठतीत्यत्र अकः सवर्णे दीर्घः (6.1.101) इत्यनुवर्तमाने प्रथमयोः पूर्वसवर्णः (6.1.102) इति दीर्घः स्यात्, अतः स मा भूदित्येवमर्थं ङित्करणं क्रियते। अत्र हि कृते दीर्घत्वप्रसङ्गो न भवति; टिलोपेनाऽकोऽपह्मतत्वात्। किं पुनः कारणम् - प्रथमैकवचनस्यैव ङित्करणस्य दीर्घाभावः प्रयोजनमुच्यते, न तु द्वितीयैकवचनस्य? इत्यत आह - इह तु इत्यादि। अमो हि स्थाने य आदेशस्तस्य स्थानिवदादेशोऽनल्विधौ (1.1.56) इति स्थानिवद्भावादमि पूर्वत्वेनापि सिध्यति - कतरदित्येतत्, तस्मात्? तत्र ङित्करणस्य दीर्घत्वाभावः प्रयोजनमिति नोच्यते। तकारादेश एव कस्मान्न क्रियते इति। यद्यत्र दीर्घत्वं नेष्यते तदा तकारादेश एव कर्तव्यः। तत्राप्ययमर्थः - दीर्घनिवृत्त्यर्थं ङित्करणं न कर्तव्यमिति। हे कतरत् इत्यादि। यदि तकारादेश एव क्रियते तदा तस्य स्थानिवद्भावेन सम्बुद्धिभावोऽस्तीति एङ्ह्रस्वात् सम्बुद्धेः (6.1.69) इति लोपः प्राप्नोति, अतः स मा भूदित्येवमर्थं तकारादेशो न क्रियते। अपृक्तश्च इत्यादि। हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यतश्चेदपृक्तग्रहणं सम्बुद्धिलोपेऽनुवर्तते तदामो दोषः - हे कुण्डेत्यत्र। निवृत्तेऽपृक्ताधिकारे डतरादिषु दोषः - हे कतरदिति। तस्माड्डित्करणादेवाकारलोपे कृते ह्यसवाभावान्न लोपः, न च दीर्घतेति॥
Prakriyasarvasvam¶
क्लीवेभ्य एभ्यः परयोः स्वमोरद्ड् इत्यादेशः स्यात् । कतर अद्ड् । <karika>दीर्घ पूर्वसवर्णाख्यं रोद्धुं डित्वमिहाश्रितम् । सम्बुद्धौ च ह्रस्वनाशादेङ्ह्रस्वादित्यलुप्तये ॥ ५८८ ॥</karika> कतरद् । ‘वावसाने’ (८-४-५६) इति वा चत्वंम् । कतरत् । कतरद् । कतरे । कतराणि । हे कतरत्, हे कतरद् । द्वितीया प्रथमावत् । एवं कतमत्, अन्यत्, अन्यतरत्, इतरत् । एकतरानेष्टम् । एकतरम्, एकतरे इत्यादि । अजरशब्दस्य स्वमोरमि कृते वा जरस् । अजरसम्, अजरम् । अजरसी, अजरे । अजर इ । नुमि प्राप्ते परत्वाज्जरस् । अजरस् इ । पुनर्झलन्तत्वान्नुम् । अजरन्स् इ ।
Sarala¶
अद्डिति । अत्र जिघृक्षितादेशस्वरूपप्रतिपादनाय दस्य ष्टुत्वं न कृतम् ॥
Sudha¶
अद्ड् डतरादिभ्य इति । अद्ड् डतरादिभ्य इति छेदः। डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः । स्वमोर्नपुंसकात्**(7.1.23) इति सूत्रमनुवर्तते, तदाह - **एभ्य इत्यादिना ।