71027: युष्मदस्मद्भ्यां ङसोऽश्

Padacheda: युष्मद्-अस्मद्भ्याम् | S | 5 | 2 |

ङसः | S | 6 | 1 |

अश् | S | 1 | 1 |

Sutrartha


Vasu English Summary

अश् – अनेकाल्शित्सर्वस्य (1.1.55), is substituted for the Genitive 6th-Case ending अस् after the अङ्ग (stems) युष्मद् and अस्मद्।

Vasu English Translation

अश् – अनेकाल्शित्सर्वस्य (1.1.55), is substituted for the Genitive 6th-Case ending अस् after the अङ्ग (stems) युष्मद् and अस्मद्। Thus तव and मम ॥ The indicatory श् of अश् shows that by (1.1.55), the whole of the affix अस् is to be replaced : otherwise it would have replaced only the first letter of the affix; and the affix not being a substitute-affix, rule (7.2.89), would not be applicable to it. The तव is substituted for युस्मद्, and मम for अस्मद् by (7.2.96); and तव + अ (अश्), and मम + अ = तव and मम् by (6.1.97).

Bhashya

युष्मदस्मद्भ्यां ङसोऽश् किमर्थः शकारः ? ॥ सर्वादेशार्थः(2) । शित्सर्वस्येति सर्वादेशो यथा स्यात् ॥ नैतदस्ति प्रयोजनम् - अक्रियमाणेऽपि शकारेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्याऽकारे कृते त्रयाणामकाराणामतो गुणे पररूपत्वे सिद्धं रूपं स्यात् - तव स्वम् मम स्वम् ॥ यद्येतल्लभ्येत कृतं स्यात्तत्तु न लभ्यम् ॥ किं कारणम् ? ॥ अत्र हि तस्मादित्युत्तरस्यादेः परस्येत्यकारस्य प्रसज्येत ॥ अत उत्तरं पठति - ॥ ङस आदेशे शित्करणानर्थक्यमकारस्याकारवचनानर्थक्यात् ॥ ङस आदेशे शित्करणमनर्थकम् ॥ किं कारणम् ? ॥ अकारस्याकारवचनानर्थक्यात् । अकारस्याऽकारवचने प्रयोजनं नास्तीति कृत्वाऽन्तरेणापि शकारं सर्वादेशो भविष्यति ॥।. अर्थवत्त्वादेशे लोपार्थम् ॥ अर्थवत्त्वकारस्याऽऽकारवचनम् ॥ कोऽर्थः ? ॥ आदेशे लोपार्थम् । यः स शेषे लोपः आदेशे स विज्ञायते ॥ ननु चादेशो या विभक्तिरित्येवमेतद्विज्ञायते ॥ आदेश एषा विभक्तिः ॥ कथम् ? । सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपद्यते ॥ 1 । ॥ तस्माच्छित्करणम् ॥ तस्माच्छकारः कर्तव्यः ॥ न कर्तव्यः ॥ क्रियते न्यास एव ॥ कथम् ? ॥ प्रश्लिष्टनिर्देशोऽयम् - अ अ अ इति । सोऽनेकाल्शित्सर्वस्येति सर्वस्य भविष्यति ॥ ( युष्मदस्मद्भ्याम्) ॥

Kashika

युष्मदस्मदित्येताभ्यामुत्तरस्य ङसोऽशित्ययमादेशो भवति। तव स्वम्। मम स्वम्। शित्करणं सर्वादेशार्थम्। अन्यथा ह्यादेशव्यपदेशप्रक्ऌप्त्यर्थमादेरेव स्यात्, ततश्च योऽचि (७.२.८९) इत्येतद् न स्यात्॥

Siddhanta Kaumudi

स्पष्टम् । तव । मम । युवयोः । आवयोः ॥

Laghu Siddhanta Kaumudi

तव। मम। युवयोः। आवयोः॥

Balamanorama

युष्मदस्मद्भ्यां ङसोऽश् - युष्मदस्माद्भ्यां ङसोऽश् । स्पष्टमिति । युष्मदस्मद्भ्यां परस्य ङसोऽश् स्यादिति सुगममित्यर्थः । सित्त्वात्सर्वादेशः । तव ममेति । युष्मद् अस्, अस्मद् असितिस्थिते मपर्यन्तस्य तवममादेशयोः कृतयोरशादेशे दकारात्पूर्वयोरकारयोः पररूपेऽदो लोपः । अन्त्यलोपपक्षे दकारलोपः, त्रयाणामकाराणां पररूपमिति भावः । युवयोः आवयोरिति । युष्मद् ओस्, अस्मद् ओस् इति स्थिते मपर्यन्तस्य युवावादेशयोःयोऽची॑ति दस्य यत्वे पररूपमिति भावः ।

Tattvabodhini

युष्मदस्मद्भ्यां ङसोऽश् - युष्मादस्मद्यां ङसोऽश् । शित्त्वं सर्वादेशार्थम् । अन्यथा हिआदेः परस्ये॑तिस्यात् । न चाऽकारस्याऽकारविधाने वैयर्थ्यम्, आदेशव्यपदेशेन यत्वनिवृत्त्यर्थत्वात् । न चावयवस्यादेशे सत्यपि विभक्तेरनादेशताऽस्त्येवेति वाच्यं,सर्वे सर्वपदादेशा॑इति सिद्धान्तात् । इदमेव शित्त्वं ज्ञापयतिसर्वे सर्वपदादेशाः॑इति । अर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यर्थः । सिच्चङादयस्तु वचनसामर्थ्यादनर्थकस्यापि भवन्तीति मनोरमायां स्थितम् ।

Padamanjari

शित्करणं सर्वादेशार्थमिति । अन्यथा आदेः परस्य इत्यादेः स्यात् । ननु चाकारस्याकारवचने प्रयोजनाभावादाद्यनुसंहारे बाधिते अलोन्त्यस्य इति मकारस्याकारे सति अतो गुणे इति पररुपेणैव सिद्धमत आह - अन्यथा हीति । आदेश इति व्यपदेश आदेशव्यपदेशः, यस्यादेशस्य प्रयोजनं नास्तीति मन्यसे तसयैव स्यादित्येवशब्दार्थः । किं पुनरादेशव्यपदेशेन प्रयोजनं यत आदेरेव स्यात् तत्राह -ततश्चेति । ह्यर्थे चः एपठितः । ततो ह्यादेशव्यपदेशाद् योऽचि इति यत्वं न स्यात्, यत्वाभावः प्रयोजनमादेशव्यपदेशस्य स्यादित्यर्थः । योऽचि त्यित्र युष्मदस्मदोरनादेशे इति वर्तते । ननु चानादेशो या विभक्तिरित्येवं तत्र विज्ञास्यते, न हि तदादिविधिरस्ति यत अनादेशादाविति विज्ञायेत ततश्च सत्यष्यादेशादित्वे विभक्तेरनादेशत्वात्स्यादेव यत्वमिति व्यर्थमेवाकारस्याकारविधानम् एवं मन्यते - सर्वे सर्वपदादेशाः इति न्यायेनादिविकारद्वारेण विभाक्तेरेवादेशो विधीयत इति विभक्तिरेवादेश इति । सर्वे सर्वपदादेशाः इत्यत्र न पदशब्देन सुप्तिङ्न्तमुच्यते, किं तर्हि पद्यते गम्यतेऽनेनार्थं इति पदम्, ततश्च पचत्वित्यत्र यथा तिशब्दस्य तुशब्दो भवति, तद्वदत्रापि ङ्सोऽशेव विधीयत इति भवत्येवादेशात्वं विभक्तेः ॥

Nyaas

यदि शेषे लोपः (7.2.90) इत्यन्तलोपः, तदास्य भावे प्राप्त इदं वचनम्। अथ टिलोपः, तदा विभक्तेः श्रवणप्राप्त आदेशार्थं वचनम्। तद स्वम्, मम स्वम् इति। तदममौ ङसि (7.2.96) इति मपर्यन्तयोर्युष्मदस्मदोस्तवममादेशौ भवतः। शेषे लोपः (7.2.90) इति दकरलोपे कृते अतो गुणे (6.1.97) पररूपत्वम्। शित्करणं सर्वादेशार्थम् इति। असति शित्करणे आदेः परस्य (1.1.54) इत्याकारस्यादेशोऽकारः स्यात्। ननु चाकारस्याकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शित्करणं सर्वादेशो भविष्यति, अन्तस्य वा। तत्र द्वयोरकारयोरतो गुणे पररूपत्वेनेष्टं सिध्यति? अत आह - अन्यथा हि इत्यादि। अन्यथा यदि शित्करणं न स्यात्? तदाऽऽदेश इति योऽयं व्यपदेशस्तस्य या प्रकॢप्तिः=निष्पत्तिस्तदर्थमादेरेव स्यात्; आदेः परस्य (1.1.54) इति वचनात्। स्यादेतत् - यद्यादेशव्यपदेशप्रकॢप्तितः कश्चिदर्थः सम्पद्यते तदा स्यात्? तदर्थमादेरेव वचनम्, न च ततः कश्चिदर्थः सम्पद्यते तस्मादयुक्तमेवेति? इत्यत आह - ततश्च इत्यादि। चशब्दो हेतौ। लिङ्? सम्भावनायाम्। तत आदेशव्यपदेशप्रकॢप्तेः योऽचि (7.2.82) इति कार्यं न स्यात्। एतद्धि यत्र विभक्तावादेशो नास्ति तत्र विधीयते; अनादेशे (7.2.86) इत्यधिकारात्। तस्मात्? प्रयोजनवत्यादेशवयपदेशप्रकॢप्तिरिति तदर्थमादेरेव स्यात्, ततश्चेटं रूपं न सिध्येत्। तस्मात्? सर्वादिशार्थः शकारः कर्तव्यः॥

Praudhamanorama

शित्त्वं सर्वादेशार्थम्। अन्यथा हि ‘आदेः परस्य’ इति स्यात्। न च वैयर्थ्यम्, आदेशव्यपदेशेन यत्वनिवृत्त्यर्थत्वात्। न चावयवस्यादेशे सत्यपि विभक्तेरनादेशताऽस्त्येवेति वाच्यम्? ‘सर्वे सर्वपदादेशा’ इति सिद्धान्तात्। इदमेव शित्त्वं ‘सर्वे सर्वपदादेशा’ इति। अर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यर्थः। सिच्चङादयस्तु वचनसाममर्थ्यादनर्थकस्यापि बोध्याः। इत्थं त्ववधेयम्- अन्त्यलोपपक्षे अशः स्यादेशः प्रप्तोऽङ्गवृत्तपरिभाषया वारणीयः। यदि त्वङ्गस्य यत्कार्यं तद्विषयिण्येव सा परिभाषा, न त्वङ्गाधिकारमात्रपरेति दुराग्रहस्तर्हि अशित्यत्र ‘अतो गुणे’ इति पररूपेणाकारान्तरं प्रश्लिष्याऽकाररूप एव अश् भवति, न विक्रियते इति व्याख्येयम्। यत्तु स्यादेशस्यापवादोऽशिति; तन्न, अशादेशप्रवृत्तिकाले शेषे लोपाभावेन स्यादेशस्याप्रसक्तेः॥

Prakriyasarvasvam

आभ्यां परस्य ङसः अश् स्यात् । शित्त्वात् सर्वस्य । शेषे लोपः’ (७-२-९०) पररूपम् । तव मम । ‘योऽचि’ (७-२-८९) युवयोः । आवयोः । आमि—