71039: सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः¶
Padacheda: सुपाम् | S | 6 | 3 |
सु-लुक्-पूर्वसवर्ण-आ-आत्-शे-या-डा-ड्या-याजालः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
The following irregularly endings are substituted for the various case endings in the छन्दस् (Vedas) 1. स् of the Nominative 1st-Case singular for अस् of the plural 2. the लुक् elision of the case-endings 3. the single substitution of the homogeneous long vowel of the अङ्ग (stem) 4. आ 5. आत् 6. ए (शे) for the ending of the Nominative 1st-Case plural 7. या 8. आ (डा) with the elision of the last vowel and the consonant, if any, that follows it in the अङ्ग (stem) 9. या (ड्या) with a similar shortening of the अङ्ग (stem) 10. या (याच्) and आ (accent of ल).
Vasu English Translation¶
The following irregularly endings are substituted for the various case endings in the छन्दस् (Vedas) 1. स् of the Nominative 1st-Case singular for अस् of the plural 2. the लुक् elision of the case-endings 3. the single substitution of the homogeneous long vowel of the अङ्ग (stem) 4. आ 5. आत् 6. ए (शे) for the ending of the Nominative 1st-Case plural 7. या 8. आ (डा) with the elision of the last vowel and the consonant, if any, that follows it in the अङ्ग (stem) 9. या (ड्या) with a similar shortening of the अङ्ग (stem) 10. या (याच्) and आ (accent of ल). Thus (1) अनृक्षरा ऋजवः सन्तु पन्थाः (for पन्थानः) Rig Veda X. 85.23.
Vart:- It should be stated that case-endings replace case-endings promiscuously, as, धुरि दक्षिणायाः (for दक्षिणायाम् Rig I.164.9).
Vart:- One personal ending replaces another personal ending in the Vedas चपालं ये अश्वयूपाय तक्षति (for तक्षन्ति) Rig I.162.6.
लुक्-elision:- As आद्रे चर्मन्, लोहिते चर्मन् for चर्मणि; हविर्धाने यत् सुन्वन्ति, तत् सामिधेनोरन्वाह (यद् for यस्मिन् and तद् for तस्मिन्) ॥
Lengthening :- धीती, मती, सुष्टुती for धीत्या, मत्या and सुष्टुत्या ॥
आ - उभा यन्तारौ (for उभौ) ॥
आत् — न ताद् ब्राह्मणाद् निन्दामि for तान् ब्राह्मणान् ॥
शे - न युष्मे (for यूयम्) वाजबन्धवः, Rig VIII.68.19. अस्मे (for वयं) इन्द्राबृहस्पती; Rig IV. 49.4, the यूय and वय substitution has not taken place as a Vedic usage.
या - उरुया, धृष्णुया for उरुणा and धृष्णुणा ॥
डा-नाभा (for नाभी) यिष्याः Rig I.143.4
ड्या - अनुष्ठ्या च्यावयतात् for अनुष्ठुभा Aitareya Brahmana II.6.15.
वाच् - साधुया꣡ for साधु, there was required the elision of सु ॥
आल् - वस꣡न्ता यजेत for वसन्ते ॥
Vart:- The following substitutes should also be enumerated, (a) इया, (b) डियाच् with elision of the final vowel and the consonant, if any, that follows it, and (c) long ई ॥ As (a) उर्विया परिधानम्, for उरुणा, so also दार्विया for दारुणा ॥ (b) सुक्षेत्रिया for सुक्षेत्रिणा, and सुगात्रिया for सुगात्रिणा ॥ (c) इति न शुष्कं सरसी शयानम् for सरसि ॥
Vart:- So also (a) आङ्, (b) अयाच् and (c) अयार् : as प्रयाहवा for प्रयाहुना, (b) स्वप्नया सच सेवनम् for स्वप्नेन, (c) सिन्धुमिव नावया for नावा ॥
The word आच्छे in the sutra is compounded of three words आ + आत् + शे, the word आत् = आ + आत् ॥
Kashika¶
छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या याच् आल् इत्येत आदेशा भवन्ति। सु — अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्थाः॒ (ऋ० १०.८५.२३)। पन्थान इति प्राप्ते॥ सुपां सुपो भवन्तीति वक्तव्यम्॥ धु॒रि दक्षि॑णायाः (ऋ०१.१६४.९)। दक्षिणायामिति प्राप्ते ॥ तिङां तिङो भवन्तीति वक्तव्यम्॥ च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति (ऋ०१.१६२.६)। तक्षन्तीति प्राप्ते। लुक् — आ॒र्देर् चर्म॒न् (तै०सं० ७.५.९.३)। लोहिते चर्मन् (काठ०सं० २४.२)। चर्मणीति प्राप्ते। हविर्धाने यत् सुन्वन्ति तत् सामिधेनीरन्वाह। यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीरिति प्राप्ते। पूर्वसवर्णः — धी॒ती (ऋ० १.१६४.८)। म॒ती (ऋ० १.८२.२)। सुष्टु॒ती (ऋ० २.३२.४)। धीत्या मत्या सुष्टुत्येति प्राप्ते। आ — द्वा य॒न्तारा॑ (तै०सं०४.६.९.३)। द्वौ यन्तारौ इति प्राप्ते। आत् — न ताद् ब्राह्मणाद् निन्दामि । न तान् ब्राह्मणानिति प्राप्ते। शे — न यु॒ष्मे वा॑जबन्धवः (ऋ०८.६८.१९)। अ॒स्मे इ॑न्द्राबृहस्पती (ऋ० ४.४९.४)। यूयं वयमिति प्राप्ते। यूयादेशो वयादेशश्च छान्दसत्वाद् न भवति। या — उ॒रु॒या॑ (मै०सं०२.७.८)। धृष्णु॒या (ऋ० १.२३.११)। उरुणा धृष्णुनेति प्राप्ते। डा — नाभा॑ पृथि॒व्याम्(शौ०सं०७.६२.१) । नाभौ पृथिव्यामिति प्राप्ते। ड्या — अनुष्ट्या च्यावयतात्। अनुष्टुभेति प्राप्ते। याच् — साधु॒या (ऋ० १०.६६.१२)। साध्विति सोर्लुकि प्राप्ते। आल् — व॒स॑न्ता॒ यजेत (मै०सं० २.१.४)। वसन्त इति प्राप्ते ॥ इयाडियाजीकाराणामुपसंख्यानम्॥ इया — उर्वि॒या परि॑ ख्यन्(ऋ० १०.१०.२)। दार्विया परिज्मन्। उरुणा, दारुणेति प्राप्ते। डियाच् — सु॒क्षे॒त्रि॒या (ऋ०१.९७.२), सुगात्रिया। सुक्षेत्रिणा सुगात्रिणेति प्राप्ते। ईकारः — दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् (ऋ०७.१०.३.२)। सरसि शयानमिति प्राप्ते॥ आङयाजयारामुपसंख्यानम्॥ आङ् — प्र बा॒हवा॑ (ऋ० २.३.८.२)। प्रबाहुनेति प्राप्ते। अयाच् — स्वप्न॒या स॑चसे॒ जन॑म् (शौ० सं० ५.७.८)। स्वप्नेनेति प्राप्ते। अयार् — सिन्धु॑मिव ना॒वया (ऋ० १.९७.८)। नावेति प्राप्ते॥
Siddhanta Kaumudi¶
ऋजवः सन्तु पन्थाः पन्थान (ऋ॒जवः॑ सन्तु॒ पन्थाः॑ पन्थान) इति प्राप्ते सुः । परमे व्योमन् (पर॒मे व्यो॑मन्) । व्योमनि इति प्राप्ते ङेर्लुक् । धीती मती सुष्टुती (धी॒ती म॒ती सु॑ष्टु॒ती) । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घ । या सुरथा रथीतमोभा देवा दिविस्पृशा (या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑) । अश्विना (अ॒श्विना॒) । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताह्ब्रह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा (या दे॒व वि॒द्म ता त्वा॑) । यमिति प्राप्ते न युष्मे वाजबन्धवः (न यु॒ष्मे वा॑जबन्धवः) । अस्मे इन्द्राबृहस्पती (अ॒स्मे इ॑न्द्राबृहस्पती) । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा॑ पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा व्यवस्थावदङ् । आङो ड्या । साधुया (साधु॒या) । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल् ।<!ईयाडियाजीकाराणामुपसंख्यानम् !> (वार्तिकम्) ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया (सु॒क्षे॒त्रि॒या) । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् (दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम्) । ङेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ।<!आङ्याजयारामुपसंख्यानम् !> (वार्तिकम्) ॥ प्र बाहवा सिसृतम् (प्र बा॒हवा॑ सिसृतम्) । बाहुनेति प्राप्ते आङादेशः । घेर्ङिति-(SK245) इति गुणः । स्वप्नया । स्वप्नेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया (स नः॒ सिन्धु॑मिव ना॒वया॑) । नावेति प्राप्ते अयार् । रित्स्वरः ॥
Padamanjari¶
सुशब्द आदेश उच्यमाने अन्ये सुपो न प्राप्नुवन्ति, तस्मात् सुग्रहणमपनीय सुड्ग्रहणं कर्तव्यमित्याह - सुपां सुप इति । तिङं तिङ् इति । एतच्च व्यात्ययो बहुलम् इति सिद्धम् । सुपां सुप इत्ययमपि तस्यैव प्रपञ्चः । तक्ष्ण्वन्तीति प्राप्त तु युक्तः पाठः । आद्रे चर्मन्निति । ननु च पूर्वसवर्णेनाप्येतत्सिद्धम्, कथम् चर्मन् - इ इति स्थिते इकारस्य पूर्वसवर्णो नकारः, तत्र परतः स्वादिषु इति पदसंज्ञायां सत्यां पूर्वस्य नकारस्य लोपः, तत्रायमप्यर्थः - न ङसिम्बुद्ध्योः इत्यत्र ङ्ग्रिहणं न कर्तव्यं भवति, अप्रातिपदिकत्वादेव विभक्तिनकारस्य लोपाप्रसङ्गात्, पूर्वस्य तु नकारस्येष्ट एव लोपः नैतदस्ति अत्र हि पूर्वसवर्णो भवन्नान्तर्यतो निरनुनासिकस्य निरनुनासिको दकार एव स्यात् । अस्तु, संयोगान्तलोपो भविष्यति नात्र संयोगान्तलोपः प्राप्नोति, स्वादिषु इति पदसंज्ञायां सत्यां पूर्वनकारस्य लोपे सति असंयोगान्तत्वात् । नलोपो हि संयोगान्तलोपे सिद्धः । एवं तर्हि न ङसिम्बुद्ध्योः इत्यत्र ङ्ग्रिहणं करिष्यते, तत्र नलोपाभावे संयोगान्तलोपः तदेवमस्यान्यथासिद्धत्वादुदाहरणान्तरमाह - हविर्द्धाने यत्सुन्वन्तीति । यत् - इ इति स्थिते अत्र यदि पूर्वसवर्णो दकारः स्यात्यदाद्यत्वे सति स्थानिवद्भावात्स्मिन्भावः प्राप्नोति । तस्मादत्र लुगेव कर्तव्यः । अनेकाल्षु च भ्यामादिषु अन्त्यस्य पूर्वसवर्णे पूर्वभाग्य श्रवणाप्रसङ्गः, तस्मातत्रापि लुगेव कर्तव्यः । धीतीत्यादि । धीति -मति - सुष्टुअतिशब्देभ्यस्तृतीयेकवचनस्य पूर्वसवर्ण इकारः, कवर्णदीर्घत्वम् । न तादू ब्राह्मणादिति । तच्छब्दाद् ब्राह्मणशब्दाच्च शस्, तस्यादादेशः, न विभक्तौ तुस्माः इति इत्संज्ञाप्रतिषेधः । या देव विप्नतात् त्वा महान्तम् इति बह्वचाः । यूयं वयमिति प्राप्त इति । प्रमादपाठोऽयम्, तथा हि - न युष्मे बाजबन्धवः इत्यत्र मन्त्रे ऋक्षाश्वमेधनाम्नो राज्ञोर्दानं स्तूयते, व्यत्ययेन द्वयोर्बहुवचनम्, बाजमित्यन्ननाम, अन्नप्रदानेन सर्वेषां बन्धवस्तेषां सम्बोधनं हे बाजबन्धवः । युष्माअ युषमासु अधीत्यस्यानेन सम्बन्धः, सच सप्तम्यर्थातनुवादी । निनित्सुश्च निन्दनशीलोऽपि मर्त्यौ युष्मासु अवद्यं न धारयति नावधारयति, अवद्याभावादित्यर्थः । अस्मे इन्द्राबृहस्पती थैत्यत्रापि रयिं धतमिति क्रिया, दधातिश्च दानार्थः । तस्माद्यौष्मासु अस्मःयमिति युक्तः पाठः । यूयादेश इत्याद्यपि न पठितव्यम् । अनुष्टमेति प्राप्त इति । अध्रिगुप्रैषै तु ता अनुष्ट।लेव्यवायतादिति अनुपूर्वातिष्ठतेः आतश्चोपसर्गे इत्यङ्, अनुष्ठानमनुष्ठा, तयाऽनुष्ठ।ल । प्रबाहवेति । धेर्ङितीति गुणः । ननु इङ्त्वे विद्याद्वर्णनिर्द्देशमात्रं वर्णे यत्स्यातच्च विद्यातदादौ इत्युक्तम् सत्यम् ङ्त्किरणसामर्थ्यातु गुणः । प्रबहुनेति प्राप्त इति । बाहुनेति तु युक्तः पाठः प्रशब्दस्याख्यातेन सम्बन्धनात् । अयाचोऽकारः सुपि चेति दीर्घनिवृत्यर्थः ॥
Nyaas¶
पन्थाः इति। पथिन्नित्येतस्माज्जस्, तस्य सुः, पथिमथ्यृभुक्षामात् (7.1.85) इत्यात्त्वम्, इतोऽत्सर्वनामस्थाने (7.1.86) इतीकारस्यात्त्वम्, थो न्थः (7.1.87) इति न्थादेशः। सुपाम् इत्यादिना सुपां स्थाने सुप आदेशा भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रादपिशब्दोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन सुपामन्येऽपि सुपो भवन्ति। धुरि दक्षिणायाः इति। सप्तम्येकवचनस्य स्थान पञ्चम्येकवचनम्, षष्ठएकवचनं वा। तिङाम् इत्यादि। तिङाञ्च तिङो भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वपदेव वक्तव्यम्। आद्र्रे चर्मन् इति। सप्तम्येकवचनस्य चर्मन्शब्दाल्लुक्। यत् इति। अत्रापि यच्छब्दात्, तच्छब्दाच्च। धीती इत्यादि। धीति-मति-सुष्टुतिशब्देभ्यः परसय तृतीयैकवचनस्य पूर्वसवर्ण इकारः, उभयोरकः सवर्णे (6.1.97) दीर्घत्वम्। `उभा इति। उभशब्दात्प्रथमाद्विवचनस्याकारः। प्रथमयोः पूर्वसवर्णः (6.1.102) इत्येकादेशः। न ताद्? ब्राआहृणाद्? निन्दामि इति। तच्छब्दाद्? ब्राआहृणशब्दाच्च द्वितीयैकवचनस्यात्। निशब्दे परतः यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इति तकारस्य नकारादेशः। युष्मे, अस्मे इति। युष्मदस्मच्छब्दाभ्यां परस्य च जसः शे (1.1.13) इत्ययमादेशः। शकारः सर्वादेशार्थः। अथेह यूयषयौ जसि (7.2.93) इति यूयवयादेशौ कस्मान्न भवतः? इत्याह-यूयादेशः इत्यादि। उरुया, धृष्णुया इति। उरुधृष्णुशब्दाभ्यां परस्य तृतीयैकवचनस्य यादेशः। नाभा इति। नाभिशब्दात्? सप्तम्ये कवचन्सय डादेशः डकारष्टिलोपार्थः। अनुष्टआ इति। अनुष्टुप्शब्दात्? तृतीयैकवचनस्य डआदेशः। साधुया इति। साधुशब्दात्? परस्य प्रथमैकवचनस्य याजादेशः। चकारोऽन्तोदात्तार्थः। सोर्लुकि प्राप्ते इति। याजित्ययमादेशो विधीयत इति शेषः। लुक्प्राप्तिस्तु `स्वमोर्नपुंसकात् (7.1.23) इत्यनेन। वसन्ता इति। वकन्तशब्दात्? परस्य सप्तम्येकवचनस्यालित्ययमादेशः। लित्करणं लित्प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। उपसंख्यानम् इति। प्रतिपादनमस्यार्थः। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं त्वपिशब्दमाश्रित्य कर्तव्यम्। उर्विया, दार्विया` इति। उरुदारुशब्दाभ्यां परस्य तृतीयैकवचनस्येयादेशः। सुक्षेत्रिया इति। सुक्षेत्रिन्नित्यादेर्मत्वर्थीयेनिप्रत्ययान्तात्? परस्य तृतीयैकवचनस्य ङियाजादेशः। डकारष्टिलोपार्थः। चकारोऽन्तोदात्तार्थः। सरसी इति। सरःशब्दात्? सप्तम्येकवचनस्य ईकारः। प्रबाहवा इति। प्रबाहुशब्दात्? तृतीयैकवचनस्याङादेशः, घेङिति (7.3.111) इति गुणः, अवादेशः। ननु च ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ॥ (म।भा।3।247)इत्युक्तम्, न चेहादौ ङकारः, तत्? कथं गुणः? ङित्करणसामर्थ्याद्भविष्यतीत्यदोषः। स्वप्नया इति। स्वप्नशब्दात्? परस्य तृतीयैकवचनस्यायाच्, अतो गुणे (6.1.97) पररूपत्वम्। चकारः स्वरार्थः। नावया इति। मौशब्दात्? परस्य तृतीयैकवचनस्यायारादेशः। रेफः उपोत्तमं रिति (6.1.217) इत्युपोत्तमाकारस्योदात्तत्वार्थः॥
Prakriyasarvasvam¶
सुपां स्थाने यथादर्शनमेते स्युः । अन्यसुप्स्थानेऽपि सु—ऋजवः सन्तु पन्थाः । लुक्—स्व ऋतस्य धामन् । ङि लुकि न ङि सम्बुद्धयोः’ (८-२-८) इति न लोपाभावः । पूर्वसवर्णः कया मती । मत्येत्यर्थः । आ आत् शे इति छेदः । आ—उभा देवा नृचक्षसा । आत्—या देव विद्म ता त्वा । शेः शित्वात् सर्वस्य । युष्म ए । अतो गुणेन युष्मे । वाजबन्धवः । अस्मे इन्द्राबृहस्पती । युष्मासु अस्मभ्यमिति चार्थः । या—धृष्णुया । डा—नाभा पृथिव्याः । ड्या—अनुष्टुभेभ्य (थंः? बै) अनुष्टुया वाचयित्वा याच्—अन्वेमि साधुया । चित्वादन्तोदात्तः— आल्—वसन्ते इति प्राप्ते वसन्ता यजेत । लित्वात् प्रत्ययात्पूर्वस्योदात्तत्वम् । ‘इयाडियाजी३’ काराणामुपसंख्यानम्’ (वा. ७-१-३९) । इया-उरुणेत्यर्थे उर्विया परिज्मन् । हियाच्-सुक्षेत्रिया । सुक्षेत्रिणेत्यर्थः । ङेरीकारः । सरसी शयानम् । ‘आङचाजयारां चोपसंख्यानम्’ (वा. ७-१-३९) । आङि धेष्ठिति (७-३-१११) गुणः । प्रवाहवासि सुतम् । अयाच्-स्वप्नया सच¹स्व । अयार्-अब्दया चिन्मुहुः । ‘उपोत्तमं रिति’ (६-१-२१७) इति स्वरः । सिन्धुमिव नावया । सुपां सुबन्तरं तिङां तिङन्तरं च वाच्यम्’ (वा. ७-१-३९) धुरि दक्षिणयाः । दक्षिणायामित्यर्थः । अश्वयूपाय तक्षति । तक्षन्तीत्यर्थः ।
Vartika¶
इयाडियाजीकाराणामुपसंख्यानम् ।