71036: विदेः शतुर्वसुः

Padacheda: विदेः | S | 5 | 1 |

शतुः | S | 6 | 1 |

वसुः | S | 1 | 1 |

Sutrartha

विद्-धातोः परस्य शतृ-प्रत्ययस्य विकल्पेन ‘वसुँ’ आदेशः भवति ।

विद् (ज्ञाने) इति अदादिगणस्य धातुः । लटः शतृशानचावप्रथमासमानाधिकरणे (3.2.124) इत्यनेन अस्मात् धातोः शतृ-प्रत्ययः विधीयते । अस्य शतृ-प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः ‘वसुँ’ आदेशः भवति । अस्मिन् आदेशे कृते ‘विद्वस्’ इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् - विद् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → विद् + शतृ [लटः शतृशानचावप्रथमासमानाधिकरणे (3.2.124) इति लट्-इत्यस्य शतृ-आदेशः] → विद् + शप् + शतृ [कर्तरि शप् (3.1.68) इति शप्] → विद् + शतृ [अदिप्रभृतिभ्यः शपः (2.4.72) इति विकरणस्य लुक्] → विद् + वसुँ [विदेः शतुर्वसुः (7.1.36) इति वसुँ-आदेशः] → विद् + वस् [उपदेशेऽजनुनासिक इत् (1.3.2) इति उँकारस्य इत्संज्ञा, तस्य लोपः (1.3.9) इति लोपः] → विद्वस् [कृत्-तद्धित-समासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा] अनेन सूत्रेण निर्दिष्टः आदेशः विकल्पेनैव भवति, नित्यम् न । अतः अस्य आदेशस्य अनुपस्थितौ विद्-धातोः शतृप्रत्ययान्तरूपम् ‘विदत्’ इति भवति - विद् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → विद् + शतृ [लटः शतृशानचावप्रथमासमानाधिकरणे (3.2.124) इति लट्-इत्यस्य शतृ-आदेशः] → विद् + शप् + शतृ [कर्तरि शप् (3.1.68) इति शप्] → विद् + शतृ [अदिप्रभृतिभ्यः शपः (2.4.72) इति विकरणस्य लुक्] → विदत् [ शकार-ऋकारयोः इत्संज्ञा, लोपः । वर्णमेलनम् ।] अस्य रूपाणि अग्रे ‘पठत्’ शब्दवत् भवन्ति । ज्ञातव्यम् - 1. विद्वस्-शब्दः ‘वसुँ’ प्रत्ययान्तशब्दः अस्ति, अतः अयम् ‘उगित्’ अस्ति । अतः अस्य शब्दस्य प्रक्रियायाम् उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इत्यनेन नुमागमः विधीयते । यथा - विद्वस् + औ [प्रथमाद्विवचनस्य प्रत्ययः] विद्वन् स् + औ [उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इति नुमागमः] → विद्वा न् स् औ [सान्तमहतः संयोगस्य (6.4.10) इति नकारस्य उपधावर्णस्य दीर्घः] → विद्वांसौ [नश्चापदान्तस्य झलि (8.3.24) इति अपदान्तनकारस्य अनुस्वारः] 2. धातुपाठे वस्तुतः ‘विद्’ इति पञ्च धातवः सन्ति । एतेषु केवलं अदादिगणस्य विद् (ज्ञाने) अस्य विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति ।

Sutrartha (English)

The शतृ प्रत्यय attached to the verb विद् (ज्ञाने) is optionally converted to ‘वसुँ’.

Vasu English Summary

वसु is substituted for the Present Participle affix शतृ after the root विद् ‘to know’.

Vasu English Translation

वसु is substituted for the Present Participle affix शतृ after the root विद् ‘to know’. Thus विद्वस् (nominative singular विद्वान्), विद्वांसौ, विद्वांसः ॥ The words formed with affixes having an indicatory उ or ऋ (उगित्) add a म् in their strong cases (7.1.70), and form their feminine with unaccented ई ॥ शतृ is an affix having an indicatory ऋ, therefore its substitute would also be considered as having an indicatory ऋ, the उ of वसु therefore is not absolutely necessary for the purposes of उगित् operations. वसु is so written, in order that in the sutra वसो संप्रसारणं (6.4.131), both क्वसु and वसु should be included. Nor can we object that in the above mentioned sutra, वसु with one indicatory letter being taken, cannot include an affix like क्वसु having two indicatory letters, – on the maxim एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य – for if that were so, there was no necessity of उ in वसु ॥ Some read the anuvritti of the word optionally into this : and we have विदन्, विदन्तौ, विदन्तः formed with शतृ (see (5.4.38)).

Bhashya

विदेः शतुर्वसुः ॥ विदेर्वसोः कित्त्वम् ( -वसुग्रहणे लिडादेशग्रहणार्थम् ) ॥ विदेर्वसोः कित्त्वं वक्तव्यम् ॥ किं प्रयोजनम्(1) ? ॥ (ठवसुग्रहणेषु(2) लिडादेशग्रहणार्थम्) । वसुग्रहणेषु लिडादेशस्यापि ग्रहणं यथा स्यात् ॥ किं च कारणं न स्यात् ? ॥ अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणं नेत्येवं लिडादेशस्य न प्राप्नोति, सानुबन्धको हि स क्रियते ॥ किं पुनः कारणं स(1) सानुबन्धकः क्रियते ? ॥ अयमॄकारान्तानां लिटि गुणः प्रतिषेधविषय आरभ्यते स पुनः कित्करणाद्बाध्यते । आतीस्तीर्वान्(1) निपुपूर्वानिति ॥ स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्यः ? ॥ न कर्तव्यः । क्रियते न्यास एव - द्विसकारको निर्देशः । विदेः शतुर्वसुस्समासेऽनञ्ञ्पूर्वे त्त्क्वो ल्यप् ॥ ( विदेः शतुर्वसुः ) ॥

Kashika

विद ज्ञाने इत्येतस्माद् धातोरुत्तरस्य शतुर्वसुरादेशो भवति। विद्वान्,विद्वांसौ, विद्वांसः। स्थानिवद्भावादुगित्कार्ये सिद्धे वसोरुकारकरणं वसोः संप्रसारणम् (६.४.१३१) इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य इत्येतदपि न भवति। तथा सत्युकारकरणमनर्थकं स्यात्। अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति। विदन्, विदन्तौ, विदन्तः॥

Siddhanta Kaumudi

वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥

Laghu Siddhanta Kaumudi

वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥

Balamanorama

विदेः शतुर्वसुः - विदेः शतुर्वसुः । वेत्तेरिति । ‘विद ज्ञाने’ इति लुग्विकरणस्यैव ग्रहणम्, शतुः परस्मैपदत्वात्, विद्यतेर्विन्त्तेश्चात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी, तथापि तस्य ग्रहणं,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑त्युक्तेरिति भावः । वा स्यादिति ।तुह्रोस्तात॑ङ्ङित्यतस्तदनुवृत्तेरिति भावः । विदुषीति । उगित्त्वान्ङीप्, वनसोः संप्रसारणं, पूर्वरूपम्, षत्वम् ।

Tattvabodhini

विदेः शतुर्वसुः - विदेः । स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणंवसोः संप्रसारण॑मित्यत्र क्वसोरपि सामान्यग्रहणार्थम् । तत्सामर्थ्याच्चएकानुबन्धग्रहणे न द्वयनुबन्धकस्ये॑त्येतदपि न प्रवर्तते ।

Nyaas

यद्यपि विदेरिति सामान्यनिर्देशोऽयम्, तथधापि ज्ञानार्थस्य ग्रहणं विज्ञायते। तस्यैव हि शतानन्तरः सम्भवति, नान्येषां विदीनाम्। तत्र सत्ताविचारणार्थयोः शतुरसम्भव एव; आत्मनेपदित्वम्। लाभार्थस्य तूभययदित्वात्? सम्भवत्यसौ, न त्वनन्तरः; शप्रत्ययेन व्यवधानात्। ज्ञानार्थस्य तु लुग्विकरणत्वाच्छतुर्विकरणकृतं व्यवधानं नास्ति, अतस्तस्यैव ग्रहणमित्याह - विद ज्ञाने इति। विद्वान् इति। उगित्त्वान्नुम्, सान्तमहतः संयोगस्य (6.4.10) इति दीर्घः। अन्यतरस्यांग्रहणमनुवर्तते। तेन पक्षे विदन्, विदन्तौ, विदन्त इत्याद्यपि भवति। एचच गम्यमानत्वाद्वृत्तौ नोक्तम्। अथ किमर्थमुकारोऽनुबन्धः क्रियते, नुमाद्युगित्कार्यं यथा स्यादिति चेत्? न; तस्य स्थानिवद्भावेनैव सिद्धत्वादित्यत आह - स्थानिवद्भावात् इत्यादि। क्वसोऽपि इति। अपिशब्दादस्यापि। असत्युकारे सामान्यार्थे क्वसोरेव ग्रहणं स्यात्, नान्यस्य। अथ वसोः सम्प्रसारणम् (6.4.131) इति सूत्रं क्रियत एवास्यैव ग्रहणार्थम्, न क्वसोः; ननु च सत्यप्युकारकरणे सामान्यग्रहणं नोपपद्यते, एकानुबन्धकपरि(व्या।प।52) भा,यास्यैव ग्रहणं स्यात्, न क्वसोः? इत्याह - एकानुबन्धकग्रहणे इत्यादि। एतत्? परिभाषासूत्रम्। न भवति। नोपतिष्ठत इत्यर्थः। किं कारणं न भवति? इत्याह - तथा च सति इत्यादि। एवञ्च सतीत्यर्थः। यदि क्रियमाणेऽप्युकार एकानुबन्धपरिभाषोपतिष्ठते, एवं सत्युकारकरणमनर्थकं स्यात्। विनाऽपि तेन वसः सम्प्रसारणम् इत्युच्यमाने केवलस्यास्य ग्रहणं लभ्यत एव। तस्मादुकारकरणसामर्थ्यादियं परिभाषा नोपतिष्ठते॥

Sutra Prayogas

  • विद्वान् (रघुवंशम्): विदेः शतुर्वसुः इति वस्वादेशः।

  • विद्वत्सु (किरातार्जुनीयम्): विदेः शतुर्वसुः इति वैकल्पिको वस्त्रादेशः।

  • विद्वान् (किरातार्जुनीयम्): विदेः शतुर्वसुः इति वैकल्पिको वसुरादेशः।

  • विद्वानिव (भट्टिकाव्यम्): विदेः शतुर्वसुः इति दीर्घहल्यादिसंयोगान्तलोपाः ।