71030: भ्यसो भ्यम्

Padacheda: भ्यसः | S | 6 | 1 |

भ्यम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

अभ्यम् is substituted for the Dative -4th Case ending भ्यस् after the अङ्ग (stems) युष्मद् and अस्मद्।

Vasu English Translation

अभ्यम् is substituted for the Dative -4th Case ending भ्यस् after the अङ्ग (stems) युष्मद् and अस्मद्। As युष्मभ्यम् and अस्मभ्यम् ॥ As the sutra is constructed (भ्यसो भ्यम्) it is not easy to say whether the substitute is भ्यम् or अभ्यम् ॥ If it is भ्यम्, then we have two cases, (1) eliding the final द् of yushmad and asmad, by (7.2.90); and adding भ्यम् (2) eliding अद् of yushmad and asmad*¬ by (7.2.90), and adding भ्यम् ॥ It will be shown hereafter that (7.2.90), is capable of two explanations, one by which *yushmad and asmad lose their द् only, and by another अद् ॥ Similarly with अभ्यम् we have also two cases : Thus we have four cases, as (1) yushma + bhyam, (2) yushm + bhyam, (3) yushma + abhyam, (4) yushm + abhyam. In the case of the first (yushma + bhyam) we can get the proper form, though it may be objected that yushma + bhyam should be equal to युष्मेभ्यम् by (7.3.103): this ए substitution will not take place, however, by force of the maxim अङ्गवृत्त पुनर्वृत्तावविधिर्निर्दिष्ठितस्य “when an operation which is taught in the angadhikara has taken place, and another operation of the angadhikara is subsequently applicable, this latter operation is not allowed to take place.”

The second case is an impossibility, namely, yushm + bhyam can give us no form. The third case yushma + abhyam will give us the proper form युष्म꣡भ्यम् (अ + अ = अ by (6.1.97)). Moreover the accent also will be on the middle युष्मभ्यम् by (6.1.161), the udatta अ of yushma being elided by the anudatta अ of अभ्यम्, the acute will be on the anudatta अ ॥ It should not be objected that in (6.1.161), the word अन्त of (6.1.159) is understood, and the accent will be on the final. We have shown in that sutra, that the udatta will fall on the आदि (beginning) of the anudatta term which causes the elision. The fourth alternative yushm + abhyam is free from all objections.

Bhashya

भ्यसोभ्यम् किमयं भ्यम्शब्द आहो स्विदभ्यम्शब्दः ? ॥ कुतः सन्देहः ? ॥ ॥॥ समानो(1) निर्देशः ॥ 8 ॥ किं चातः ॥ यदि तावभ्द्यम्शब्दः शेषे लोपश्चान्त्यस्य, - एवं प्राप्नोति । अथाऽभ्यम्शब्दः शेषे लोपश्च टिलोपः, उदात्तनिवृत्तिस्वरः प्राप्नोति ॥ यथेच्छसि तथास्तु ॥ अस्तु तावभ्द्यम्शब्दः शेषे लोपश्चान्त्यस्य ॥ ननु चोक्तमेत्वं प्राप्नोतीति ॥ नैषः दोषः, अङ्गवृत्ते(1) पुनर्वृत्तावविधिर्निष्ठितस्येति न भविष्यति ॥ अथ वा पुनरस्त्वभ्यम्शब्दः शेषे लोपश्च टिलोपः ॥ ननु चोक्तमुदात्तनिवृत्तिस्वरः प्राप्नोतीति ॥ नैषः दोषः - उक्तमेतत् - आदौ(1) सिद्धमिति ॥

Kashika

युष्मदस्मद्भ्यामुत्तरस्य भ्यसो भ्यमित्ययमादेशो भवति। युष्मभ्यं दीयते। अस्मभ्यं दीयते। भ्यमादेशे कृते शेषे लोपे (७.२.९०) च बहुवचने झल्येत् (७.३.१०३) इत्येत्वं प्राप्नोति। तद् अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति। केचित् पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति। येषां तु शेषे लोपष्टिलोपस्तेषामभ्यमादेश एव। उदात्तनिवृत्तिस्वरः (६.१.१६१) चादेरेव भवति॥

Siddhanta Kaumudi

भ्यसो भ्यमभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ॥

Laghu Siddhanta Kaumudi

आभ्यां परस्य। युष्मभ्यम्। अस्मभ्यम्॥

Balamanorama

भ्यसः भ्यम् - भ्यसोभ्यम् । भ्यमभ्यमिति वा छेदः । तदाद-भ्यस इति ।युष्मदस्मद्भ्यां परस्ये॑ति शेषः,युष्मदस्मद्भ्यां ङसोऽश् इत्यतस्तदनुवृत्तेः । ननु ब्यमादेशपक्षे ‘शेषे लोपः’ इत्यदो लोपे युष्मभ्यमस्मभ्यमिति मकारादकारो न श्रूयेतेत्यत आह — आद्य इति । लक्ष्यानुरोधादिहाऽन्त्यलोपपक्ष एवाश्रयणीयः । नन्वन्त्यलोपपक्षे दकारस्य लोपे सति ‘बहुवचने झल्येत्’ इत्येत्त्वं स्यादित्यत आह — तत्राङ्गवृत्तेति ।अङ्गवृत्तेः पुनर्वृत्तावविधि॑रिति परिभाषयेत्यर्थः । अङ्गेवृत्तं वर्तनं यस्य तत्-अङ्गवृत्तं, तस्मिन् कार्ये प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये अविधिः=विदिर्नास्तीत्यर्थः । प्रकृते च शेषलोपे अङ्गकार्ये प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्त्वं न भवतीति भावः । अभ्यम् त्विति । अब्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थः । तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाऽभावात्तस्मिन् परे एत्त्वं न । किन्तु पररूपे सति युष्मभ्यमस्मभ्यम् इति सिध्यति । टिलोपपक्षे तु अङ्गस्य अदन्तत्वाऽभावादपि एत्त्वं न ।

Tattvabodhini

भ्यसः भ्यम् - पक्षद्वयेऽपि साधुरिति । नन्वन्त्यलोपपक्षे पररूपं बाधित्वा सवर्णगदीर्घः स्यादकारोच्चारणसामर्थ्याजिति चेदत्राहुः, बहुवचने झल्ये॑दित्येत्त्वनिवृत्याऽकारोतच्चारणस्य चरितार्थत्वादिति । यद्यप्यङ्गवृत्तपरिभाषया एत्वं सुपरुहरं, तथापि तस्या अनित्यत्वे इदमप्यकारोच्चारणं ज्ञापकमिति तत्त्वम् ।

Padamanjari

एत्वं प्राप्नोतीति । सुपि चेति दीर्घस्याप्युपलक्षणमेतत् । अङ्गवृत इत्यादि । अस्यार्थः पूर्वमेव व्याख्यातः । केचित्पुनरित्यादि । येषां शेषेलोपोऽन्त्यस्य लोपः तेषामतो गुणे पररुपत्वमेकादेशः, स्वरश्च । एत्वनिवृत्वार्थमिति । अत्रापि दीर्घस्याप्युपलक्षणम्, एत्वनिवृत्या चाकारोच्चारणस्यार्थवत्वात्सवर्णदीर्घत्वं तेषां न एभवति । येषां त्विति । अन्त्यलोपपक्षे मतभेदः - भयमादेशः, अभ्यमादेश इति । टिलोपपक्षे त्वषश्यमभ्यमादेशः, अन्यथा रुपासिद्धे । नन्वेवं स्वरे दोषः, कथमनुदातस्य च यत्रोदातलोपः इत्यत्र कर्षात्वतो घञोन्त उदातः इत्यन्तोदातग्रहणमनुवर्तते, ततश्च भ्यमोऽन्तोदातत्वं प्राप्नोति अत्यत आह - उदात्त्निवृत्तिस्वरश्चेति । न तत्रान्तग्रहणमनुवर्तते, उच्चारणक्रमे प्रत्यासत्या चादेरेवोदातत्वं भवतीत्यर्थः ॥

Nyaas

युष्मभ्यम्, अस्मभ्यम् इति। शेषे लोपः (7.2.90) इत्यन्तलोपः। यदि भ्यमादेशोऽयम्, एवं सति तत्र विहिते शेषेलोपे च बहुवचने झल्येत् (7.3.103) इत्येत्त्वं प्राप्नोति, ततश्चानिष्टरूपमापद्येत? इत्यत आह - भ्यमादेशे कृते इत्यादि। वर्तनं वृत्तम्, अङ्गे वृत्तं यस्य तदङ्गवृत्तं कार्यम्, तस्मिन्नङ्गवृत्ते कार्ये पुनरत्तरकालमङ्गवृत्तावपरस्य कार्यस्य प्राप्तौ तस्य कार्यस्यादिधिः;=अविधानम्। निष्ठितस्येत्यनेन यत्समम्बन्धिनः कार्यस्याविधिर्भवति तदङ्गं विशिष्यते। निष्ठितम्=परिसमाप्तम्, प्रयोगार्हमङ्गम्। तत्सम्बन्धिनः कार्यस्याविधिर्भवति, नान्यसम्बन्धिन इत्यर्थः। केचित् इत्यादि। तेषामन्त्यलोपे कृते अतो गुणे (6.1.97) पररूपत्वं भवति। येषां तु इत्यादि। यैः शेषे लोपः (7.2.90) इत्यन्तलोपः क्रियते, तेषां मतभेदः - ते हि केचिद्भ्यमादेशमिच्छन्ति, केचिदभ्यमादेशम्। येषां तु शेषेलोपष्टिलोपः तेषां मतेनायमभ्यमादेश एव, न भ्यमादेशः; अन्यथा युष्मब्यमिति न सिध्येवितयभिप्रायः। यदि तर्हि शेषेलोपष्टिलोपः, एवं सति अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इत्यनेनाभ्यम्शब्दस्यान्तोदात्तत्वं स्यात्? इत्यत आह - उदात्तनिवृत्तिस्वरश्च इत्यादि। पूर्वपक्षवादिनोदात्तनिवृत्तिस्वरविधौ कर्षात्वतो घञोऽन्त उदात्तः (6.1.159) इत्यतोऽन्तग्रहणमनुवर्तत इति मन्यमानेन चोदितन्। उत्तरपक्षवादिना तु अन्तग्रहणं तत्र निवृत्तमुच्चारणक्रमप्रतयासत्त्या चादेरेवोदात्तत्वेन भवितुं युक्तम् इति। मन्यमानेन परिह्मतम्॥

Praudhamanorama

पक्षद्वयेऽपीति। न चान्त्यलोपपक्षे पररूपं बाधित्वा सवर्णदीर्घः स्यादकारोच्चारणसाममर्थ्यादिति वाच्यम्? एत्वनिवृत्त्याऽकारोच्चारणस्य चरितार्थत्वात्।

Prakriyasarvasvam

आभ्यां परस्य भ्यसोऽभ्यम् स्यात् । ‘शेषे लोपः’ (७-२-९०) पररूपम् । युष्मभ्यम् । अस्मभ्यम् । भ्यसि कृते ‘बहुवचने झल्येत्’ (७-३-१०३) इत्येत्त्वं दुस्त्यजमित्यभ्यमुक्तः ।

Sudha

भ्यसो भ्यम् । आन्यामिति । **युष्मदस्मद्भ्यां ङसोऽश्**(7.1.27) इत्यतस्तदनुवृत्तेरिति भावः । युष्मभ्यम्, अस्मभ्यम् । ‘युष्मद् भ्यस्’ अस्मद् + भ्यस् इत्यत्र **भ्यसो भ्यम्**(7.1.30) इति भ्यसः स्थाने भ्यमादेशे कृते **शेषे लोपः**(7.2.90) इति द् लोपे कृते सति ‘युष्मभ्यम्’ ‘अस्मभ्यम्’ इति ।