71033: साम आकम्

Padacheda: सामः | S | 6 | 1 |

आकम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

आकम् is substituted for the Genitive 6th-Case plural affix साम् – आमि सर्वनाम्नः सुट् (7.1.52), after the अङ्ग (stems) युष्मद् and अस्मद्।

Vasu English Translation

आकम् is substituted for the Genitive 6th-Case plural affix साम् – आमि सर्वनाम्नः सुट् (7.1.52), after the अङ्ग (stems) युष्मद् and अस्मद्। साम् is the affix आम् of the Genitive plural with the augment स ॥ Thus युष्माकम् and अस्माकम् ॥ Why is it read साम् and not आम्. when there is no स् at the time when the substitution is ordained? It is read as साम् in order to indicate that आकम् will not get the augment स्, for otherwise ‘yushma’ and asma’ having lost their ‘d’ by (7.2.90), end in अ, and so by (7.1.52), would cause the genitive affix to get the augment स; the present sutra removes that also. The substitute is exhibited with a long आ, in order to make अ + आ = आ in युष्म + आकम्, had it been short अ, then there would have been no lengthening but अ + अ = अ by (6.1.97). If you say ‘the very fact that अकम् was taught and not कम्, would prevent para-rupa and cause lengthening’; we reply, that the अ of अकम् would find its scope in preventing ए substitution. For without अ, we should have युष्म + कम् = युष्मेकम् (7.3.103).

Bhashya

साम आकम् किमर्थं सामः(2) ससकारस्य ग्रहणं क्रियते न आम आकमित्येवोच्येत(2) ? ॥ केनेदानीं ससकारस्य भविष्यति ? ॥ आमोऽयं(4) सुड्भक्त आङ्ग्रहणेन ग्राहिष्यते ॥ अत उत्तरं पठति - ॥ साङ्ग्रहणं यथागृहीतस्यादेशवचनात् ॥ साङ्ग्रहणं क्रियते ॥ (किमर्थम् ? ॥ यथागृहीतस्यादेशवचनात् । ) ठनिर्दिश्यमानस्यादेशा भवन्तीत्येवं ससकारस्य न प्राप्नोति, इष्यते च स्यादिति तच्चान्तरेण यत्नं न सिध्यतीति - साम आकम् - , एवमर्थमिदमुच्यते ॥ न वा द्विपर्यन्तानामकारवचनादामि सकाराऽभावः ॥ न वैतत्प्रयोजनमस्ति ॥ किं कारणम् ? ॥ द्विपर्यन्तानामकारवचनात् । द्विपर्यन्तानां हि त्यदादीनामत्वमुच्यते । तेनामि सकारो न भविष्यति ॥ सुट्प्रतिषेधस्त्वादेशे लोपविज्ञानात् ॥ सुट्प्रतिषेधस्तु वक्तव्यः ॥ किं कारणम् ? ॥ आदेशे लोपविज्ञानात् । यः स शेषे लोप आदेशे स विज्ञायते ॥ न वा टिलोपवचनादादेशे टाप्प्रतिषेधार्थम् ॥ न वा सुट्प्रतिषेधो वक्तव्यः ॥ किं कारणम् ? ॥ टिलोपवचनात् । आदेशे यः स शेषे लोपष्टिलोपः(1) स वक्तव्यः ॥ किं प्रयोजनम् ? ॥ टाप्प्रतिषेधार्थम् । टाप्मा भूदिति ॥ स तर्हि टिलोपो वक्तव्यः(2) ? ॥ (न वक्तव्यः(3)) ॥ न वा लिङ्गाभावाटि्टलोपवचनानर्थक्यम् ॥ 8 ॥ न वा वक्तव्यम् ॥ किं कारणम् ? ॥ लिङ्गाऽभावात् । अलिङ्गे युष्मदस्मदी ॥ किं वक्तव्यमेतत् ? ॥ न हि ॥ कथमनुच्यमानं गंस्यते ॥ न ह्यस्तिविशेषो युष्मदस्मदोः स्त्रियां पुंसि नपुंसके वा ॥ अस्ति कारणं येनैतदेवं भवति ॥ किं कारणम् ? ॥ योऽसौ विशेषवाची शब्द(स्त्रीप्रत्ययष्टाप्शब्द(3))स्तदसांनिध्यात् । अङ्ग ! हि भवांस्तमुच्चारयतु(4) गस्यंते स विशेषः ॥ ननु च नैतेनैवं भवितव्यम्, न हि शब्दनिमित्तकेन नामाऽर्थेन भवितव्यम् ॥ किं तर्हि ? ॥ अर्थनिमित्तकेन नाम शब्देन भवितव्यम् ॥ तदेतदेवं(5) दृश्यताम् - अर्थरूपमेवैतदेवंजातीयकं, येनात्र विशेषो न गम्यत इति ॥ अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यते - , योऽसौ विशेषवाची शब्दः (स्त्रीप्रत्ययष्टाप्शब्द)स्तदसांनिध्यादत्र विशेषो न गम्यत इति - , इहापि तस्य विशेषो न गम्येत-दृषत् समित् इति ॥ तस्मात्सुट्प्रतिषेधः ॥ तस्मात्सुट्प्रतिषेधो वक्तव्यः ॥ ससकारग्रहणं वा कर्तव्यम् ॥ अथ क्रियमाणेऽपि ससकारग्रहणे कस्मादेवान्न सुण्न भवति ? ॥ ससकारग्रहणसार्मथ्याद्भाविनः सुट आदेशो विज्ञायते ॥ ( साम आकम् ) ।

Kashika

साम इति षष्ठीबहुवचनमागतसुट्कं गृह्यते। तस्य युष्मदस्मद्भ्यामुत्तरस्याकमित्ययमादेशो भवति। युष्माकम्। अस्माकम्। अथ किमर्थमागतसुट्को गृह्यते, न ह्यादेशविधानकाले सुड् विद्यते? तस्यैव तु भाविनः सुटो निवृत्त्यर्थम्। आदेशे कृते हि शेषे लोपे (७.२.९०) युष्मदस्मदोरकारान्तत्वात् सुट् प्राप्नोति, स स्थानिन्यन्तर्भूतत्वाद् निवर्तते। दीर्घोच्चारणं सवर्णदीर्घार्थम्। अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति। तत्सामर्थ्यमेत्वं प्रति भविष्यतीति अकारकरणमेत्वनिवृत्त्यर्थमिति अतो गुणे (६.१.९७) पररूपत्वं स्यात्॥

Siddhanta Kaumudi

आभ्यां परस्य साम आकम् स्यात् । भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥ समस्यमाने द्व्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसङ्ख्यश्येत्स्तो युवावौ त्वमावपि ॥ 1 ॥ सुजस्ङेङस्सु परत आदेशाः स्युः सदैव ते । त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥ 2 ॥ एते परत्वाद्बाधन्ते युवावौ विषये स्वके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः ॥ 3 ॥ द्व्येकसङ्ख्यः समासार्थो बह्वर्थे युष्मदस्मदी । तयोरद्व्येकतार्थत्वान्न युवावौ त्वमौ न च ॥ 4 ॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् 2 । अतिमाम् 2 । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिङ्यसोः । अतित्वत् 2 । अतिमत् 2 । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु ॥ युवामावां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुवाम् 3 । अत्यावाम् 3 । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् 3 । अत्यावाभ्याम् 3 । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् 2 । अत्यावत् 2 । ओसि । अतियुवयोः 2 । अत्यावयोः 2 । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वेति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुष्माम् 3 । अत्यस्माम् 3 । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् 3 । अत्यस्माभ्याम् 3 । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् 2 । अत्यस्मत् 2 । ओसि । अतियुष्मयोः 2 । अत्यस्मयोः 2 । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥

Laghu Siddhanta Kaumudi

आभ्यां परस्य साम आकं स्यात्। युष्माकम्। अस्माकम्। त्वयि। मयि। युवयोः। आवयोः। युष्मासु। अस्मासु ॥

Balamanorama

साम आकम् - साम आकम् । आभ्यामिति ।युष्मदस्मद्भ्यां ङसो॑शित्यतस्तदनुवृत्तेरिति भावः । साम इति । सकारेण सहित आम्-साम्, तस्येत्यर्थः, ससुट्कस्य आम इति यावत् । ननु युष्मद् आम्, अस्मद् आमिति स्थिते अवर्णात्परत्वाऽभावात्सुटो न प्रसक्तिः । नच ‘शेषे लोपः’ इति तस्य लोपे कृते ।ञवर्णात्परत्वमस्तीति वाच्यम्, आकमादेशात्प्रागनादेशतया शेषेलोपस्यैवात्राऽप्रसक्तेः ससुट्कनिर्देशोऽनुपपन्नो व्यर्थश्चेत्यत आह — भाविन इति । भविष्यत इत्यर्थः । यदि तु ‘आम आकम्’ इत्येवोच्येत, तर्हि आम आकमादेशे कृते दकारस्य शेषेलोपे सति स्थानिवत्त्वेन आकमादेशस्य आम्त्वात्तस्य चाऽवर्णात्परत्वात्सुडागमः स्यात् । तत एत्वषत्वयोर्युष्मेषाकम्, अस्मेषाकमिति स्यादतः ससुट्कनिर्देशः । यद्यपि आकमादेशप्रवृत्तकाले सुटो न प्रसक्तिस्तथापि आकमादेशोत्तरं दकारलोपे कृते स्थानिवत्त्वेन यः सुट भविष्यति, तस्यापि स्थानषष्ठआ स्वीकरणान्निवृत्तिर्भवति । अन्यता ससुट्कनिर्देशवैयथ्र्यादिति भावः । यदि तु शेषस्य लोप एवाश्रीयते, तदा कृतेऽप्याकमादेशेऽदो लोपेऽवर्णात्परत्वाऽभावादेव सुटः प्रसक्त्यभावलात्ससुट् कनिर्देशो मास्तु । युष्माकमस्माकमिति । आकमादेशे कृतेऽदो लोपे रूपम् । दकारलोपे तु सवर्णदीर्घः । एतदर्थमेव दीर्घोच्चारणम् । अन्यता पररूपापत्तेः । न चाऽकारोच्चारणसामर्थ्यादेव पररूपनिरास इति वाच्यं,क॑मादेशे प्राप्तबहुवचने झल्ये॑दित्येत्त्वनिवृत्त्या चरितार्थत्वादित्यलम् । त्वयि मयीति । युष्मद् इ, अस्मद् इ इति स्थिते मपर्यन्तस्य त्वमादेशयोर्योऽची॑ति दस्य यत्वे पररूपे रूपमिति भावः । युवयोः #आवयोरिति । प्राग्वत् । युष्मासु अस्मास्विति । युष्मदस्मदोरनादेशे॑ इति दकारस्य आत्वे सवर्णदीर्घ इति भावः । ‘त्वमावेकवचने’ इत्यत्र ‘युवावौ द्विवचने’ इत्यत्र च एकवचनद्विवचनशब्दौ यौगिकौ, नतु प्रत्ययपराविति स्थितम् । तत्फलं श्लोकचतुष्टयेन सङ्गृह्णाति — समस्यमाने इति । तत्र प्रथमश्लोकेचे॑दित्यनन्तरम्अपी॑त्यध्याहार्यम् । यदि समस्यमाने युष्मदस्मदी द्व्येकत्ववाचिनी तदा समासार्थोऽन्यसङ्ख्यश्चेदपि युवावौ त्वमावपि स्त इत्यन्वयः । त्वां मां वा अतिक्रान्तः; अतिक्रान्तौ, अतिक्रान्ता इति, युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे-॒अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासं लभमाने युष्मदस्मदी द्वित्वैकत्वान्यतरविशिष्टार्थवाचिनी यदा तदा समासार्थः मुख्यविशेष्यभूतोऽन्यसङ्ख्यश्चेदपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि भवतः, युवावादेशविधौ द्विवचनशब्दस्य, त्वमादेशविधौ एकवचनशब्दस्य च यौगिकत्वाश्रयणात् । एकवचने प्रत्यये परतस्त्वमादेशौ, द्विवचने प्रत्यये परतो युवावादेशौ इत्यर्थाश्रयणे तु त्वां मां वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे अतियुष्मद्शब्दे अत्यस्मच्छब्दे च युष्मदस्मदोर्द्विवचने बहुवचने च प्रत्यये परे त्वमै न स्याताम् । तथा युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिः स्यादित्यर्थः । ननु युष्मद्समदोद्व्र्यर्थकत्वे युवावौ, एकार्थकत्वे तु त्वमौ इति किं सार्वत्रिकम् ।नेत्याह — सुजस्ङेङस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्धे त्वाहावित्यादि तत्तत्सूत्रप्रतीकग्रहणम् ।इती॑त्यनन्तरं ‘ये’ इत्यध्याहार्यम् ।त्वाहौ सौ॑,यूयवयौ जसि॑,तुभ्यमह्रौ ङयि॑,तवममौ ङसी॑ति सुजस्ङेङस्सु ये आदेशा विहितास्ते अतियुष्मदत्यस्मच्छब्दाभ्यामेकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थः । ननु तत्रापि द्व्यर्थकत्वे युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह-एतीति । तृतीयश्लोके पूर्वाद्र्धमेकं वाक्यम् ।एते=त्वाहादयः, स्वके=स्वीये विषये सुजसादौ, युवाबौ बाधन्ते । कुतः । परत्वात् । युवावापेक्षया एतेषां परत्वादित्यर्थः । नन्वस्त्वेवं त्वाहादिभिर्युवाबयोर्बाधः, त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह — त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्वं पूर्वविप्रतिषेधः । ‘सुप्सुपा’ इति समासः । तृतीयान्तात्तसिः । विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भावः ।प्रत्ययोत्तरण्दयोश्च॑ इति सूत्रभाष्ये तु ‘त्वमावेकवचने’ इति सूत्रे ‘शेष’ इत्यनुवत्र्यसुजस्ङेङस्भिन्नविभक्तिषु॑ इति व्याख्यातम् ।तदेवंत्वमावेकवचने॑, ‘युवावौ द्विवचने’ इत्यत्र एकद्विवचन्शब्दयोर्यौगिकत्वाश्रयणस्याऽव्याप्तिपरिहारार्रथत्वमुक्त्वाऽतिव्याप्तिपरिहारार्थत्वमाह-द्व्यकसङ्ख्य इति । चतुर्थश्लोकेऽस्मिन् ‘यदा’तदे॑त्यध्याहार्यम् । यदा युष्मान् अस्मान्वा अतिक्रान्तौ अतिक्रान्ता इति विग्रहे समासे सति द्वित्वैकत्वविशिष्टः समासार्थः=समासस्य मुख्यविशेष्यभूतः, युष्मदस्मदी तु बह्वर्थके, तदा युवावौ त्वमौ च न स्तः, तयोः युष्मदस्मदोर्द्वित्वैकत्वविशेष्टार्थकत्वाऽभावात् । युवावविधौ त्वमविधौ च युष्मदस्मदोर्द्वित्वैकत्वविशिष्टवाचित्वे सत्येव प्रवृत्तेराश्रयणात् । द्विवचने एकवचने च प्रत्यये परत इत्यर्थाश्रयणे तत्राऽतिव्याप्तिः स्यादित्यर्थः । अत्रप्रत्ययोत्तरपदयोश्चे॑ति सूत्रे भाष्येत्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहण॑मिति वार्तिकव्याख्यावसरे ‘युवावौ द्विवचने’ ‘त्वमावेकवचने’ इत्यत्र द्विवचनैकवचनशब्दयोर्यौगिकत्वाश्रयणमुपक्षिप्य युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहान् प्रदश्र्य, त्वा मां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहान् प्रदश्र्य, अतियुष्मदत्यस्मच्छब्दयो सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाहृत्य प्रदर्शितौ । सुजसङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येत एवादेशा उदाहृताः । तदिदं श्लोकचतुष्टयेन संगृहीतम् । तदिदानीं तत्प्रपञ्चनपरभाष्यानुसारेणोदाहृत्य प्रदर्शयति-त्वा मां वा अतिक्रान्त इत्यादिना । अतिक्रान्तौ अतिक्रान्ता इति च विग्रहयोरुपलक्षणमिदम् । ‘विग्रहे’ इत्यनन्तरं ‘रूपाणि वक्ष्यन्ते’ इति शेषः । सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावे भवतः । अवशिष्टप्रक्रियास्तु केवलयुष्मदस्मद्वज्ज्ञेयाः । सुजस्ङेङस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्रौ, तवममौ इत्येते एवादेशाः पूर्वप्रतिषेधात्त्वमौ बाधित्वा भवन्ति । ततश्च सुजस्ङेङस्सु केवलयुष्मदस्मद्वदेनव रूपाणीति निष्कर्षः । अतित्वाकमतिमाकमिति । ननुसामः आक॑मिति ससुट्कनिर्देशाद्यत्र आमः सुट्संभवस्तत्रैवाकम्, नचात्र सुट् संभाव्यते, इह युष्मदस्मदोरुपसर्जनत्वे सर्वनामत्वाऽभावात् । सुटः सर्वनाम्नः परस्यामो विहितत्वादिति चेत्, मैवम्-ससुट्कत्वस्य संभावनामात्रविषयत्वात् । एवंच सुट् यत्र संभविष्यति तत्र सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । यत्र तु सुट् न संभवति, तत्र केवलस्य आमः सुट् । अत्र चप्रत्ययोत्तरपदयोश्चे॑ति सूत्रेऽतित्वाकमतिमाकमिति भाष्ये तदुदाहरणं प्रमाणमित्यास्तां तावत् । तदेवमुपसर्जनयोः युष्मद्समदोरेकार्थवाचित्वं उदाहरणान्युक्त्वा द्व्यर्थवाचित्वे उदाहरति — युवामावां वा अतिक्रान्त इति । अतिक्रान्तौ अतिक्रान्ता इति विग्रहयोरुपलक्षणम् । अत्र युष्मदस्मदोद्वर्य्र्थृत्तित्वात्सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावावेव भवतः । अवसिष्टास्तु प्रक्रियाः केवलयुष्मदस्मद्वज्ज्ञेयाः । सुजस्ङेङस्सु केवलयुष्मदस्मद्वदेव रूपाणिति निष्कर्षः । अथ युष्मदस्मदोरुपसर्जनयोर्बह्वर्थवाचित्वे उदाहरणान्याह — युष्मान् अस्मान्वेति । युष्मानस्मान्वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहेष्वित्यर्थः ।द्वयेकसङ्ख्यः समासार्थः॑ इति चतुर्थश्लोकस्योदाहरणान्येतानि । अत्र युष्मस्स्मदोरेकद्व्यर्थवाचित्वाऽभावात्सुजस्ङेङस्भ्योऽन्यत्र मपर्यन्तस्य क्वापि न त्वमौ, नापि युवावौ । ‘ङे प्रथमयोः’ इत्याद्यास्तु भवन्त्येव । सुजस्ङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येते भवन्त्येव । तेषामेकद्व्यर्थविशेषणिबन्धनत्वाऽभावात् । प्राग्वदिति । केवलयुष्मस्मद्वदित्यर्थः । इत्यधिकृत्येति । ‘विधयो वक्ष्यते’ इति शेषः । अष्टमस्य प्रथमे पादे इमानि सूत्राणि पठितानि । तत्रपदस्ये॑टत्येतत्अपदान्तस्य मूर्धन्यः॑ इत्यतः प्रागधिक्रियते । ‘पदात्’ इत्येतत्तुकृत्सने च सुप्यगोत्रादौ॑ इत्यतः प्रागदिक्रियते ।अनुदात्तं सर्वमपादादौ॑ इति पदत्रयं तु आ पादसमाप्तेरधिक्रियते इति भाष्यादिषु स्पष्टम् ।

Tattvabodhini

साम आकम् - तव ममेति । नन्वत्रान्त्यलोपपक्षेऽशः स्यादेशः स्यात्, यत्वमिवृत्त्यर्थतया अआचनस्य चरितार्थत्वात् । नच स्यादेशस्यापवादोऽशिति वाच्यम्, अशादेशप्रवृत्तिकाले शेषे लोपाऽभावेन स्यादेशस्यऽप्रसक्तेः । अत्राहुः — अङ्गवृत्तपरिभाषया स्यादेशे वारणीयः । यदि तु अङ्गस्य तत्कार्यं तद्विषययिण्येव सा परिभाषा, न त्वङ्गाधिकारपरेति दुराग्रहस्तह्र्रशित्यत्रअतो गुणे॑इति पररूपेणाऽकारान्तरं प्रश्लिष्याऽकाररूप एवाऽश् भवति न तु विक्रियत इति व्याख्येयमिति । नन्वाकमादेशात्पूर्वमनादेशत्वाद्योचीति यत्वेन भाष्यं, ततश्च शेषे लोपाऽभावादवर्णान्तादिति विधायमानस्य सुडागमस्या.ञप्रसक्त्या साम इति ससुट्कनिर्देशो व्यर्थ इत्यत आह — भाविन इति । कृते हि शेषेलोप अकारान्तत्वात्प्राप्तः सुट् ससुट्कस्य स्थानित्त्वेन निर्देशसामर्थ्यान्निवर्तत इति भावः ।शेषे लोपष्टिलोपः॑इति पक्षे तु सुङ्ग्रहणं व्यर्थमेन । आकमि दीर्घोच्चारणं सवर्णदीर्घार्थम् । अन्यथा पररूपं स्यात् । न चाऽकारोच्चारणसामर्थ्यम्, एत्वनिवृत्त्या अभ्यमैव चरितार्थत्वात् । इहयुवावौ द्विवचने॒॑त्वमावेकवचने॑इति सूत्रद्वयेऽपि द्विवचनैकवनशब्दार्थपरौ, नतु प्रत्ययपराविति व्याख्यातं, तत्फलं दर्शयति — समस्यमान इत्यादिना । द्व्येकत्ववाचिनी इति ।पञ्चकं प्रातिपदिकार्थं॑इति पक्षाभिप्रायेणेदमुक्तम् । अस्मिस्तु पक्षे सङ्ख्याया अपि प्रातिपदिकार्थत्वात् । त्रिकपक्षे चुद्व्येकार्थवाचिनी॑इति पाटम् । सङ्ख्याया विभक्त्यर्थत्वेऽपि सङ्खयेयस्य प्रातिपदिकार्यत्वानपायात् । अन्यसङ्ख्यश्चेदिति । युष्मदस्मदर्थगतसङ्ख्येतरसङ्ख्यायुक्तश्चेदित्यर्थः । स्त इति । अर्थपरत्वाश्रयणसामर्थ्यादेव भूतपूर्वगतेरपि स्वीकाराद्युवावौ त्वमावपि स्तः । प्रत्ययपरत्वे तु न स्यातामित्यव्याप्तिः स्यादिति भावः । एवं चतुर्थश्लोकेऽपिन युवावौ त्वौ न चे॑त्युक्त्या प्रत्ययपरत्वेऽतिव्याप्तिध्र्वनिता । एवं चाऽव्याप्त्यतिव्याप्तिपरिहारायार्थपरत्वमाश्रितमिति फलितम् । नन्वेवं सुजस्ङेङस्स्वपि युष्मदस्मदोद्वर्य्र्थत्वे युवावौ स्यातामेकार्थंत्वे तु त्वमावित्याशङ्कायामाह — सुजस्ङेङस्सु परत इति । के ते आदेशा इत्यत त्याह -त्वाहौ यूयवयावित्यादि । अस्त्वेवं त्वाहागिभिर्युवावयोर्बाधस्त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह -त्वमावपीति ।विप्रतिषेधे पर॑मित्यत्र परशब्दस्येष्टवाचित्वादिति भावः । अतित्वामतिमामिति । त्वां मा#ं वा अतिक्रान्ताविति विग्रहः । अतियूयम् । अतिवयमिति । त्वां मां वा अतिक्रान्ता इति विग्रहः । एवमग्रेऽप्यूह्रम् । अतित्वाकम् । अतिमाकमिति । अत्रान्त्यलोपपक्षे त्वङ्गवृत्तपरिभाषया नुडागमो निवार्यः,ह्रस्वनद्यापः॑इत्यत्रह्रस्वान्ताद्विहितस्यामो नु॑डिति व्याख्यानाद्वा । नन्वेवं भिन्नविषयतया सुटो नुडपवादत्वाऽभावेनाऽवर्णान्तसर्वनामाभ्यो विहितस्यामो नुडेव परत्वात्स्यात्, नतु सुडागमः, तस्ययेषां॒॑ताषा॑मित्यादौ सावकाशत्वादिति चेदत्राहुः — ॒त्यदादेरमि सु॑डिति वक्तव्ये॒आमि सर्वनाम्नः॑इति सर्वानामग्रहणसामर्थ्याद्धलि सर्वेषैमित्यादिनिर्देशाच्च अवर्णान्तसर्वनामभ्योऽप्यामः सुडेव भवति, नतु नुट् ।शस्प्रभृतिषु॑इति च विषयसप्तसी, तेन पद्दन्नादिष्वप्यामि न नुडिति । एवं चसाम॑इतिससुट्कनुर्देशेन युष्माकमस्माकमित्यत्र सुडादमाऽभावेऽपि नुडागमो दुर्वाप इत्याशङ्काया अपि निरवकाश एवेति बोध्यम् । यत्त्ु वदन्ति — ॒साम आक॑मित्यत्र यद्यपि सुड्ग्रहणं न स्थानिविशेषणं, बाधात्, तथापि उपलक्षणं तु भवति । यस्यामः सुडग्रे भावी तस्यैवाम आकमा भवितव्यं, न चैतद्रौत्वे संभवतीत्यकम्न प्रवर्तते । तथाचअतित्वयाम्॒अतिमया॑मित्येव रूपं, न त्वतित्वाकमतिमाकमिति । तदसत् । आकमाऽपह्मतस्यामः सुडन्वयाऽभावात् ।आकमः सुड्भावी॑ति चेत्तर्हि तमेवोपलक्षयेत् । आदेशद्वारकेण परम्परासंबन्धेन स्थानिनमुपलक्षयति चेदेवं तर्हियुष्माक॑ — मित्यादौ सुट् श्रूयते ।साम॑इति निर्देशसामर्थ्यान्न श्रूयतेति चेन्न, निर्देशस्य गौणव्यावृत्त्या चरितार्थत्वेन सामर्थ्याऽभावादित्यन्यत्र विस्तरः । गुणभूतयोर्युष्मदस्मदोरेकार्थत्वे उदाहरणान्युत्क्वा सम्प्रति द्द्यर्थवाचित्वे उदाहरति — युवामावां वा अतिक्रान्त इत्यादिना । बह्वर्थयोस्तूदाहरति -युष्मानस्मान्वेति.॒॒॑॑

Nyaas

सम इति षष्ठीबहुवचनमागतसुट्कं परिगृह्रते इति। युष्मदस्मद्भ्यामुत्तरस्यान्यस्य सामशब्दस्यासम्भवात्। आगतः सम्प्राप्तः सुट्? यत्र येन वा तत्तथोक्तम्। अथ इत्यादौ वाक्य आगतसुट्कः इत्याम्प्रत्ययापेक्षया पुंल्लिङ्गत्वं वेदितव्यम्! अथ किमर्थमागतसुट्कः परिगृह्रते इति पृष्टस्य ससुट्कस्यादेशो यथा स्यादिति प्रतिवचनमाशह्क्याह - न हि इत्यादि। आमि सर्वनाम्नः सुट् (7.1.52) इत्यत्र आज्जसेरसुक् (7.1.50) इत्यत आदिति वर्तते, तेनाकारान्तात्? सर्वनाम्नः सुङ्? विधीयते। अकारान्तता च युष्मदस्मदोः शेषे लोपः (7.2.90) इत्यन्तलोपे सति भवति। शेषेलोपेनाप्याकमादेशे कृते भवितव्यम्। तस्मादादेशविधानकाले सुण्न विद्यते। ततश्च ससुट्कस्यादेशो यथा स्यादित्येतत्प्रयोजनं नोपपद्यत इत्यन्यद्वक्तवयमित्यभिप्रायेणाह - तस्यैव इत्यादि। यद्यसुट्को गृह्रते निर्दिश्यमानस्यादेशा भवन्ति (व्या।प।106) इत्यसुट्कस्यैवादेशः स्यात्। एवञ्चाभिनिवृत्ते स्थान्यादेशभावे पश्चाद्भवतः सुटः केन निवृत्तिः स्यात्? इष्यते च तस्यापि निवृत्तिः। अतस्तस्य भाविनोऽपि निवृत्तिर्यथा स्यादित्येवमर्थं समुट्को गृह्रते। ननु च युष्मदस्मद्भ्यामुत्तरस्यामः सुडेव न प्राप्नोति, अकाराद्धि सर्वनाम्नः सुङ्? विधीयते, युष्मदस्मादोश्च त्यदाद्यत्वं नास्ति, द्विपर्यन्तास्त्यदादयः इति त्यदाद्यत्वस्याभावाच्छेषेलोपस्य च टिलोपादकारान्तता न सम्भवति; अतो भाविनोऽपि सुटो निवृत्तिर्नैव प्रयोजनमुपपद्यते? एतच्चोद्यमपाकर्त्तुम्? ``शेषे लोपः` इत्यन्तलोपः` इति ह्मदि कृत्वाऽऽह - कृते हि इत्यादि। अथ क्रियमाणे समुट्कस्य ग्रहणे कथमसौ निवर्तते, शास्त्रान्तराद्धि प्रसक्तस्य शास्त्रेण निवृत्तिः क्रियते, न चादेशविधानकले सुट्प्रसङ्गोऽस्ति? इत्याह - स च स्थान्यन्तर्भूतत्वात् इत्यादि। यद्यादेशविधानकाले सुटः प्रसङ्गः सम्भवेत्? ततो भावी न निवर्तते, न चासावादेशकाले सम्भवति। तस्माद्भाविनः सुटः ससुट्कग्रहणेन स्थान्यन्तर्भूतत्वाद्यस्यामवस्थायां तस्य प्राप्तिस्तस्यां प्रसक्तः स निवर्तते; मन्यथा हि तस्य स्थान्यन्तर्भावोऽनर्थकः स्यात्। स्यादेतत् - यदि शेषे लोपः (7.2.90) इत्यन्तलोपस्ततः समुटकस्योपादानमर्थवद्भवति, यदा तु सेषेलोपष्टिलोपस्तदा नार्थः कस्मान्नाश्रीयते, तस्यानुपपत्तेः। अनुपपत्तिस्तु लक्षणाभावात्। अन्त्यलोपस्यास्यैतदेवास्ति लक्षणमिति स एवाश्रितः। यद्येवम्, युष्मद्ब्राआहृणीभ्योगच्छतीत्यन्त्यलोपे सति अजाद्यतष्टाप् (4.1.4) इति टाप्प्रसज्येत? अलिङ्गे युष्मदस्मदी इति नैषोऽस्तप्रसङ्गः। दीर्घोच्चारणम् इत्यादि। ननु चाकम्यपि अकः सवर्णदीर्घत्वे (6.1.101) न सिध्यत्येव? न; सिध्यति। अतो गणे (6.1.97) इति पररूपत्वमपवादः प्राप्नोतीति चेत्? न; अकारोच्चारणसामर्थ्यात्। यदि अतो गुणे` (6.1.97) पररूपत्वं स्यात्? तदाकारोच्चारणमनर्थकं स्यात्, कमित्येव ब्रायादित्यत आह - अकमि तु इत्यादि। तुशब्दो दीर्घोच्चारणापेक्षया समुच्चयार्थः। इतिकरणो हेतौ। यदि ह्रकारोच्चारणस्य प्रयोजनं न स्यात्, शक्यते वक्तुम् - अकारोचचारणसामर्थ्यान्न भविष्यतीति; अस्ति च तसय प्रयोजनम्, किं तत्? ब्राहुवचने झल्येत् (7.3.103) इत्येत्त्वं मा भूत्। तस्मात्? सत्यप्यकारोच्चारण एतत्त्वनिवृत्त्यर्थे अतो गुणे (6.1.97) पररूपत्वं स्यात्, न सवर्णदीर्घत्वम्। अतस्तदर्थं दीर्घोच्चारणं क्रियते॥

Praudhamanorama

भाविन इति। कृते हि शेषे लोपेऽकारान्तत्वात्प्राप्तः सुट् ससुट्कस्य स्थानित्वेन निर्देशसाममर्थ्यान्निवर्तत इति भावः। शेषे लोपष्टिलोप इति पक्षे तु सुड्ग्रहणं व्यर्थमेव। आकमि दीर्घोच्चारणं सवर्णदीर्घार्थम्। अन्यथा पररूपं स्यात्। न चाऽकारोच्चारणसामर्थ्यम्। एत्वनिवृत्त्याऽभ्यम इव चरितार्थत्वात्। इह ‘युवावौ द्विवचने’ ‘त्वमावेकवचने’ इति सूत्रद्वये द्विवचनैकवचनशब्दौ न प्रत्ययपरौ, किं त्वर्थपराविति व्याख्यातम्। तत्फलं दर्शयति— द्व्येकत्वेति। पञ्चकं प्रातिपदिकार्थ इति पक्षे सङ्ख्याया अपि प्रातिपदिकार्थत्वादितिभावः। समासार्थो— मुख्यविशेष्यम्। अन्यसङ्ख्यश्चेत्- -युष्मदस्मदर्थगतसङ्ख्येतर-सङ्ख्यश्चेदित्यर्थः। स्त इति। अर्थपरत्वाश्रयणसामर्थ्यादेव भूतपूर्वगतेरपि स्वीकारात्। प्रत्ययपरत्वे तु न स्यातामित्यव्याप्तिः स्यादित्यर्थः। एवं चतुर्थश्लोकेऽपि— युवावौ त्वमौ न चे त्युक्त्या प्रत्ययपरत्वेऽतिव्याप्तिर्ध्वनिता। एवञ्चाव्याप्त्यतिव्याप्तिपरिहारायार्थपरत्वमाश्रितमिति फलितम्। न च कृत्रिमाकृत्रिमन्यायविरोधः? वचनग्रहणसाममर्थ्यादेव तद्बाधात्। अन्यथा हि द्वित्वे एकत्वे इत्येव ब्रूयात्। द्वित्वे एकत्वे च या विभक्तिस्तस्याऽऽमिति व्याख्यानसम्भवादिति भावः। अतित्वाकमतिमाकमिति। यत्तु ‘साम आकम्’ इत्यत्र यद्यपि सुड्ग्रहणं न स्थानिविशेषणं, बाधात्; तथाऽपि उपलक्षणं भवति। तेन यस्यामः सुडग्रे भावी तस्यैव आम आकमा भवितव्यम्। न चैतद् गौणत्वे सम्भवति इत्याकम् न प्रवर्तते। न च समुदायनिर्देशे विशेषणत्वमुपलक्षणत्वं वा विहाय तृतीयः प्रवर्तते। न च सुडामोः पृथक् स्थानित्वमिह निर्दिश्यते। चशब्दस्य द्विवचनस्य च अभावात्। यदि तु स् च आम् चेति समाहारद्वन्द्वो व्याख्यायेत, योग्यताबलाच्च स्-शब्देन सुडेव गृह्येत, तथापि यदि सुड्ग्रहणमन्वाचयशिष्टं ततः समासो न स्यात्। अन्यत्र तु साहित्यविवक्षया केवलस्यामोऽप्रसक्तेरित। अत्रेदं वक्तव्यम्। यस्यामः सुडग्रे भावीत्यादि तावत् बाधितम्। आकमाऽपहृतस्य सुडन्वयाभावात्। आकमः सुड् भवतीति चेत्? तर्हि तमेवोपलक्षयेत्। आदेशद्वारकेण परम्परासम्बन्धेन स्थानिनमुपलक्षयति चेत्? हन्तैवं युष्माकमित्यादौ सुट् श्रूयेत। साम इति निर्देशसामर्थ्यान्न श्रूयते इति चेन्न। निर्देशस्य गौणव्यावृत्या चरितार्थत्वेन साममर्थ्याभावात्। यदपि समाहारद्वन्द्वं प्रक्रम्यान्वाचयशिष्टत्वे दूषणाभिधानं, तदप्यसम्भवदुक्तिकम्। साहित्यविवक्षया केवलस्याप्रसक्तिरिति परमवशिष्यते। तदपि न। प्रक्रियदशायां स्थितस्याऽऽम उत्तरकालभावित्वेनोत्प्रेक्षितस्य सुटश्चैकबुध्द्युपारेहेणैव साहित्याभ्युपगमात्। अतीताऽनागतयोरयं द्रष्टेतिवत्। तत्रोभयोरेकस्मिन् दर्शने सम्बन्ध इति चेदिहाप्येकस्मिन्नादेशे इति तुल्यम्। तथा च ‘इरयोः’ इति सूत्रे दध्रे इत्यादौ धाञो झस्य इरेचि आतो लोपे रेभावे तस्य कृसृभृप्रभृतिषु चरितार्थतया इटि कृते ‘इरयोः’ इति द्विवचननिर्देशाल्लाक्षणिकस्याऽपि रेभावः पुनः क्रियते इति स्थितमाकरे। इरयोरित्येकशेषः। साम इति तु द्वन्द्वः। सहविवक्षा तूभयत्र तुल्यैव। वस्तुतस्तु ‘साम आकम्’ इति सूत्रे केवलोऽप्याम् तन्त्रेण निर्दिष्टः। तस्याऽकमिति स्थानिवद्भावेनाम्त्वात् ससुट्कत्वाच्च ‘साम ‘ इति प्रवर्तते। गौणत्वे तु प्रथमप्रवृत्त्यैव पर्यवसानम्। अत एव शेषे लोपष्टिलोप इति पक्षेण सह फलैक्यमपि सिद्ध्यति। सर्वथाऽपि अतित्वयामतिमयामिति कैश्चिदुत्प्रेक्षितं समर्थयितुं नाभिनिवेष्टव्यम्। अतित्वाकमतिमाकमित्यादेः भाष्यकृतैवोदाहृतत्वादिति दिक्॥

Prakriyasarvasvam

आभ्यां परस्य सुड्वतः आम आकं स्यात् । भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । शेषे लोपे युष्माकम् । अस्माकम् । यत्वे त्वयि । मयि । युवयोः । आवयोः । हल्यात्वम् । युष्मासु । अस्मासु । <karika>एवमेवानयोः सिद्धिः समासेऽपि प्रधानयोः । परमाहं पापयुवां महायूयमितीदृशी ॥ ५९६ ॥</karika> <karika>अप्रधाने त्रिधा तत्र द्व्येकत्वे युष्मदस्मदोः । समासार्थेऽन्यसंख्येऽपि युवावौ स्तस्त्वमावपि ॥ ५९७ ॥</karika> <karika>तयोर्बह्वर्थतायां तु स्वरूपश्रुतिरेव हि । आत्वयत्वादिसुप्कार्यं त्रिषु मार्गेष्वपीष्यते ॥ ५९८ ॥</karika> <karika>सुजस्ङेङस्सु सर्वत्र त्वाहौ यूयवयौ तथा । तुभ्यमह्यौ तवममावित्यादेशा व्यवस्थिताः ॥ ५९९ ॥</karika> प्रियस्त्वमहं वा यस्येत्यत्र प्रियत्वम् । प्रियाहम् । दस्यात्वम् । प्रियत्वाम् । प्रियमाम् । प्रिययूयम् । प्रियवयम् । अमौटोः प्रियत्वाम् । प्रियमाम् । शसि प्रियत्वान् । प्रियमान् । प्रियत्वया । प्रियमया । प्रियत्वाभ्याम् । प्रियमाभ्याम् । प्रियत्वाभिः । प्रियमाभिः । प्रियतुभ्यम् । प्रियमह्यम् । प्रियत्वाभ्याम् । प्रियमाभ्याम् । प्रियत्वभ्यम् । प्रियमभ्यम् । प्रियत्वत् । प्रियमत् । प्रियत्वाभ्याम् । प्रियमाभ्याम् । प्रियत्वत् । प्रियमत् । प्रियतव । प्रियमम । प्रियत्वयोः । प्रियमयोः । प्रियत्वाकम् । प्रियमाकम् ।

Sudha

साम इति । ‘सकारेण सहितः आम् साम् तस्येत्यर्थः ।’ ससुट्कस्य आम इति यावत् । युष्माकम् अस्माकम् । युष्मद् + आम् अस्मद् + आम् इत्यत्र **साम आकम्**(7.1.33) इति आमि साम्त्वमारोप्य आकमादेशे विहिते युष्मद् + आकम् अस्मद् + आकम् इति जाते **शेषे लोपः**(7.2.90) इति दलोपे **अकः सवर्णे दीर्घः**(6.1.101) इति सवर्णदीर्घत्वे ‘युष्माकम्’ ‘अस्माकम्’ इति । त्वयि, मयि । युष्मद् + ङि अस्मद् + ङि इत्यत्र **त्वमावेकवचने**(7.2.97) इति युष्मदो मपर्यन्तस्य त्वादेशे अस्मदो मपर्यन्तस्य च मादेशे कृते **अतो गुणे**(6.1.97) इति पररूपत्वे च कृते त्वद् + ङि मद् + ङि इति जाते ङकारस्येसंज्ञायां लोपे च **योऽचि**(7.2.89) इति दकारस्य यकारादेशे ‘त्वयि’ ‘मयि’ इति भवतः । ओसि - युवयोः, आवयोः पूर्ववत् । युष्मासु, अस्मासु । युष्मद् + सुप् अस्मद् +सुप् इत्यत्र पकारस्येत्संज्ञायां लोपे च कृते **युष्मदस्मदोरनादेशे**(7.2.86) इति ‘द्’ इत्यस्यात्वे **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घत्वे च जाते ‘युष्मासु’ ‘अस्मासु’ इति रूपे स्तः ।