71021: अष्टाभ्य औश्

Padacheda: अष्टाभ्यः | S | 5 | 3 |

औश् | S | 1 | 1 |

Sutrartha

अष्टन्-शब्दस्य ‘अष्टा’ इत्येतस्मात् परस्य जस्/शस् प्रत्यययोः औश्-इति आदेशः भवति ।

‘अष्टन्’ इति संख्यावाची शब्दः । अस्य शब्दस्य ‘अष्टा’ इति आदेशे कृते अस्मात् परयोः जस्/शस्-प्रत्यययोः षड्भ्योः लुक् (7.1.22) इत्यनेन लुक्-प्राप्ते अपवादत्वेन औश्-इति आदेशः भवति । अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन अयम् सर्वादेशः जायते । परन्तु अष्टन्-शब्दस्य अष्टा इति आदेशः कुत्र भवति? अजादौ विभक्तौ परे अष्टन्-शब्दस्य आकारादेशं कर्तुम् वस्तुतः भिन्नम् सूत्रम् नास्ति, अतः एतत् सूत्रमेव इत्यस्य ज्ञापकं स्वीक्रियते यत् अष्टन्-शब्दस्य जस्/शस्-प्रत्यये परे आकारादेशः भवति । तथा च, अयमादेशः केवलं विकल्पेन स्वीक्रियते, यतः आचार्येण स्वयम् अष्टनो दीर्घात् (6.1.172) अस्मिन् सूत्रे ‘दीर्घ-आदेशकृत-अष्टन-शब्दात् परा असर्वनामस्थाना विभक्तिः उदात्ता भवति’ इति उक्तमस्ति । एतत् अस्यैव ज्ञापकम् यत् दीर्घग्रहणम् वैकल्पिकम् स्यात्, न हि नित्यम् । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - जस्/शस् प्रत्यये परे अष्टन् शब्दस्य वैकल्पिकः आकारादेशः भवति, तथा अस्मिन् आकारादेशे कृते प्रत्ययस्यापि औश्-आदेशः भवति । अष्टन् + जस् / शस् → अष्टा + जस् / शस् → अष्टा + औ [षड्भ्यो लुक् (7.1.22) इति जस्/शस्-प्रत्यययोः लुक्-प्राप्ते अपवादत्वेन अष्टाभ्य औश् (7.1.21) इति अङ्गस्य आकारादेशः तथा प्रत्ययस्य औश्-आदेशः] → अष्टौ [प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन पूर्वसवर्ण-दीर्घे प्राप्ते, नादिचि (6.1.104) इत्यनेन तस्य निषेधः भवति । अतः वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः औकारः] यदि अष्टन्-शब्दस्य आकारादेशः न भवति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - अष्टन् + जस् / शस् → अष्टन् [षड्भ्यो लुक् (7.1.22) इति जस्/शस्-प्रत्यययोः लुक्] → अष्ट [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] यस्य समस्तपदस्य उत्तरपदम् ‘अष्टन् ‘ शब्दः अस्ति तस्यापि विषये अस्य प्रसक्तिः अस्ति । यथा - परमाश्च अष्टौ च = परमाष्टौ, परमाष्ट ।

Sutrartha (English)

The जस् and शस् प्रत्ययs following the ‘अष्टा’ form of the word अष्टन् get the औश् आदेश.

Vasu English Summary

After the अङ्ग (stem) अष्टा (the form assumed by अष्टन् – अष्टन आ विभक्तौ (7.2.84)), औश् is substituted for the endings of the Nominative 1st-Case and Accusative -2nd case.

Vasu English Translation

After the अङ्ग (stem) अष्टा (the form assumed by अष्टन् – अष्टन आ विभक्तौ (7.2.84)), औश् is substituted for the endings of the Nominative 1st-Case and Accusative -2nd case. As अष्टौ तिष्ठन्ति, अष्ठौ पश्य ॥ Why have we taken the form अष्टा and not अष्ट ? Observe अष्ट तिष्ठन्ति, अष्ट पश्य ॥ This peculiar construction of the present sutra (अष्टाभ्यः instead of अष्टनः) indicates, that the आ substitution for the न् of अष्टन् is optional. This sutra is, moreover, an exception by anticipation, to the following sutra, by which the plural Nominative and Accusative endings are elided after the numerals called षष् ॥ The elision of case-endings taught by (2.4.7), is not, however, barred by this rule; the elision taught therein will take place, whether this rule applies or not. Thus अष्टपुत्रः, अष्टभार्यः ॥

The present rule applies even when अष्ट is at the end of a compound, as परमाष्टौ, उत्तमाष्टौ ॥ But in प्रियाष्टानः, औ does not come, as अष्टन् has not assumed the form अष्टा here i.e. it has not lost its न् ॥

Bhashya

अष्टाभ्य औश् औशघौ ॥ औशघाविति वक्तव्यम् ॥ किमिदमघाविति? ॥ अनुत्तरपद इति ॥ किं प्रयोजनम्? ॥ इह मा भूत् - अष्टपुत्रः अष्टभार्य इति। अस्तु लुक्तत्र ॥ अस्त्वत्रौश्त्वं,लुग्भविष्यति ॥ षड्भ्योऽप्येवं प्रसज्यते ॥ (षड्भ्योऽप्येवं प्रसज्यते) इहापि तर्हि प्राप्नोति - अष्टौ तिष्ठन्ति अष्टौ पश्येति ॥ अपवादः ॥ अपवादत्वादत्रौश्त्वं लुकं बाधिष्यते ॥ इहापि तर्हि बाधेत - अष्टपुत्रः अष्टभार्यः ॥ यस्य विषये ॥ यस्य लुको विषये औश्त्वं तस्यापवादः ॥ यो वा तस्मादनन्तरः ॥ अथ वाऽनन्तरस्य लुको बाधकं भविष्यति ॥ कुत एतत्? ॥ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ॥ अथेह कस्मान्न भवत्यौश्त्वम् - अष्ट तिष्ठन्ति अष्ट पश्येति? ॥ आत्वं यत्र तु तत्रौश्त्वम् ॥ यत्रैवात्त्वं तत्रैवौश्त्वेन भवितव्यम् ॥ कुत एतत् ? ॥ तथा ह्यस्य ग्रहः कृतः ॥ तथा ह्यस्यात्वभूतस्य ग्रहणं क्रियते - अष्टाभ्य इति ॥ ननु च नित्यमात्वम् ॥ एतदेव ज्ञापत्याचार्यो विभाषा आत्वमिति यदयमात्वभूतस्य ग्रहणं करोति - अष्टाभ्यइति । इतरथा हि अष्टन इत्येव ब्रूयात् ॥ ॥ औशघावस्तु लुक्तत्र षड्भ्योऽप्येवं प्रसज्यते । अपवादो यस्य विषये यो वा तस्मादनन्तरः ॥1 ॥ ॥ आत्वं यत्र तु तत्रौश्त्वं तथा ह्यस्य ग्रहः कृतः । स्वमोर्लुक् च त्यदादीनां कृते ह्यत्वे न लुग्भवेत् ॥2 ॥

Kashika

अष्टाभ्य इति कृताकारोऽष्टन् शब्दो गृह्यते, तस्मादुत्तरयोर्जश्शसोरौशित्ययमादेशो भवति। अष्टौ तिष्ठन्ति। अष्टौ पश्य। कृताकारस्य ग्रहणं किम्? अष्ट तिष्ठन्ति। अष्ट पश्य। एतदेव कृतात्वस्य ग्रहणं ज्ञापकम् अष्टन आ विभक्तौ**(७.२.८४)इत्यात्वविकल्पस्य। **षड्भ्यो लुक् (७.१.२२) इत्यस्यायमपवादः, नाप्राप्ते तस्मिन्निदमारभ्यते। यस्तु सुपो धातुप्रातिपदिकयोः (२.४.७१) इति, तस्मिन् प्राप्ते चाप्राप्ते चेति स न बाध्यते — अष्टपुत्रः, अष्टभार्य इति। तदन्तग्रहणमत्रेष्यते। परमाष्टौ। उत्तमाष्टौ। प्रियाष्टान इत्यत्रात्वस्याभावादौश्त्वं न भवति॥

Siddhanta Kaumudi

कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । अष्टनो दीर्घात् (SK3718) इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाऽभावे राजवत् । शसि प्रियाष्ट्नः । इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्टा इत्यादि । जश्शसोरनुमीयमानमात्त्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्नो हलादावेव वैकल्पिकमात्त्वम् । प्रियाष्टाभ्याम् 3 । प्रियाष्टाभिः । प्रियाष्टाभ्यः 2 । प्रियाष्टासु ॥ प्रियाष्ट्नो राजवत्सर्गं हाहावञ्चापरं हलि । भष्भावः । जशत्वचर्त्वे । भुत् । भुद् । बुधौ । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुद्भ्याम् । भुद्भ्याम् । भुत्सु ॥

Laghu Siddhanta Kaumudi

कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति। अष्टौ। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टाभ्यः। अष्टानाम्। अष्टासु। आत्वाभावे अष्ट, पञ्चवत्॥

Balamanorama

अष्टाभ्य औश् - अष्टाभ्य औश् । ‘जश्शसोः शिः’ इत्यतो जश्शसोरित्यनुवर्तते । अष्टाभ्य इति पञ्चमी ।तस्मादित्युत्तरस्ये॑त्युपतिष्ठते । ‘अष्टा’ इत्याकारान्तशब्दो विवक्षितः । तदाह — कृताकारादित्यादिना । नकारस्याऽऽत्वे कृते सति योऽष्टाशब्दास्तस्मादित्यर्थः । शित्त्वात्सर्वादेशः ।आदेः परस्ये॑ति तु नात्र प्रवर्तते,अनेकाल्शि॑दिति परेण तस्या बाधात् । औशादेशोऽयंषड्भ्यो लु॑गित्यस्यापिबादः । ननु जश्शसोः परतोऽष्टन्शब्दस्यात्वं नास्त्येव, ‘अष्टन आ विभक्तौ’ इति आत्वविधौ हलीत्यपकर्षस्य उक्तत्वात् । ततश्च जश्शसोरौइआधौ ‘कृताकारादष्टन’ इत्यनुपपन्नम् । तत्राह-अष्टभ्य इति वक्तव्य इत्यादि । भ्यसि अष्टभ्यः, अष्टाभ्य इति रूपद्वये सत्यपि औइआधौ लाघवादष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः । ननु ‘अष्टन आ विभक्तौ’ इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानादष्टाभ्य इत्येव निर्देष्टव्यं, प्रामाणिकगौरवस्याऽदोषत्वात् । ततश्च औइआधौ ‘अष्टाभ्य’ इति निर्देशो जश्शसोरष्टनः कथमात्वं ज्ञापयेदित्यत आह — वैकल्पिकं चेदमिति । ज्ञापकादिति ।अष्टनो दीर्घा॑दिति सूत्रे दीर्घान्तादष्टन्शब्दात्पराऽसर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थः । अष्टाभिविंकर्षयतीत्यत्र भकारादिकार उदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति शिष्टमनुदात्तम् । दीर्घादिति विशेषणादष्टभिरित्यत्र आत्वाऽभावस्थले भिस उदात्तत्वं न भवति, किंतु मध्योदात्तत्वमेव,झल्युपोत्तम॑मित्यस्य प्रवृत्तेः । षट्चतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे विद्यमानमुपोत्तममुदात्तं स्यादिति तदर्थः । यदि तु अष्टन आत्वं नित्यं स्यात्तर्हि अष्टभिरिति ह्रस्वान्तव्यावृत्तये क्रियमाणं दीर्घग्रहणमनर्थकं स्यात्, व्यावर्त्त्याऽभावात् । आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावर्त्त्यस्य सत्त्वाद्दीर्घग्रहणमर्थवत् । अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थः । अष्टाविति । अष्टन्शब्दाज्जश्शसोरौश् । शित्त्वात्सर्वादेशः । ‘अष्टाभ्य’ इति निर्देशान्नकारस्यात्वं, सवर्णदीर्घः, वृद्धिरिति भावः । परमाष्टाविति ।अष्टाभ्य औ॑शित्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थः । अष्टाभिरिति । हलादौ आत्वे सवर्णदीर्घः । अष्टानामिति । आदौ नुटि कृते सति हलादित्वादात्वम् । नच नान्तत्वप्रयुक्तषट्संज्ञकशब्दसन्निपातमुपजीव्य प्रव#ऋत्तस्य नुटस्तद्विघातकमात्वं प्रति कथं निमित्तत्वमिति वाच्यं, नहि षट्सन्निपातेन जातस्य नुट आत्वेऽपि तद्विघातकत्वं, कृतात्वेऽपि स्थानिवत्त्वेन षट्त्वसत्त्वात्शमामष्टानां दीर्घः श्यनी॑त्यादिनिर्देशेनाऽत्र सन्निपातपरिभाषाया अनित्यत्वाश्रयणाच्चेति भावः । आत्वाऽभावे इति ।अष्टनो दीर्घा॑दिति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भावः । यद्यपिअष्टनो दीर्घा॑दिति सूत्रे शसादिविभक्तिषु परतः स्वरविधायके दीर्घग्रहणं शसादिष्वेवात्वविकल्पं ज्ञापयितुं शक्नोति नतु जसि, तथापि ज्ञापकस्य सामान्यापेक्षत्वाज्जास्यप्यात्वविकल्प इति भावः । प्रिया अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्टनिघ्न एकद्विबहुवचनान्तः । तत्र विशेषमाह — गौणत्वे त्विति । अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थः । आत्वाऽभावे इति ।अष्टनो दीर्घा॑दिति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भावः । राजवदिति ।प्रायेणे॑ति शेषः । प्रियाष्टा प्रियाष्टानौ प्रियाष्टानः । प्रियाष्टानम्, प्रियाष्टानौ । शशि प्रियाष्ट इति । ‘अल्लोपोऽनः’ इत्यकारलोपः । ननु कृतेऽल्लोपे नकारस्य ष्टुत्वेन णत्वं कुतो न स्यादित्यत आह — इहेति । इहाऽल्लोपस्य स्थानिवद्भावान्न ष्टुत्वमित्यन्वयः । अल्लोपस्य स्थानिवत्त्वे सति अकारव्यवहितत्वान्न ष्टुत्वमिति बावः । ननु स्थानिनि सति यत्कार्यं तदेवादेशेऽतिदेश्यते । स्थानिनि सति यत्कार्यं न भवति तदादेशे न भवति इत्येवं कार्याऽभावस्तु नातिदिश्यते । अन्यता ‘नायक’ इत्यादौ आयाद्यभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम् । तस्मादल्लोपस्य स्थानिवत्त्वान्न ष्टुत्वमित्यनुपपन्नम् । ‘अचः परस्मिन्’ इति सूत्रं तु यद्यपि स्थानिनि सति यत्कार्यं न भवति तदादेशेऽपि न भवतीत्येवं कार्याऽभावस्यातिदेशकं तथापि न तस्यात्र प्रवृत्तिरस्ति । स्थानिभूतादच#ः पूर्वस्यैव विधौ तत्प्रवृत्तेः । इह च स्थानिभूतादचः परस्यैव ष्टुत्वप्रवृत्तेरित्यत आह — पूर्वस्मादपि विधाविति । स्थानिभूतादचः पूर्वस्मात्परस्यापि विधौ स्थानिवत्त्वाभ्युपगमादित्यर्थः । नचपूर्वत्रासिद्धीये न स्थानिव॑दिति निषेधः शङ्क्यः, ‘तस्य दोषः’ इत्यत्र णत्वग्रहणं मास्त्वि॑त्युक्तं । तद्रीत्याप्याह — बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वेति । अल्लोपोऽङ्गसंज्ञासंज्ञापेक्षत्वाद्बहिरङ्गः । ष्टुत्वं तु तदपेक्षयाल्पापेक्षत्वादन्तरङ्गम् । तस्मिन् कर्तव्ये बहिरङ्गस्याऽल्लोपस्यासिद्धत्वादकारव्यवहितत्वान्न ष्टुत्वमित्यर्थः । ननु यथोद्देशपक्षेअसिद्धं बहिरङ्ग॑मिति षाष्ठीं परिभाषां प्रति ष्टुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावेन परिभाषा अप्रवृत्तेः कथमिहाऽल्लोपस्याऽसिद्धत्वमित्यत आह — कार्यकालपक्षे इति । लक्ष्यानुरोधादिह यथोद्देशपक्षो नाश्रीयते इत्यन्यत्र विस्तरः । अथ प्रियाष्टन्शब्दस्यात्वपक्षे विशेषमाह-जश्शसोरिति ।अष्टाभ्य औ॑शिति जश्शसोरौशादेशविधौ कृतात्वनिर्देशाज्ज्ञाप्यमानमात्वमष्टन्शब्दस्य प्राधान्ये सत्येव भवति, न तूपसर्जनत्वेऽपि, ‘अष्टाभ्य’ इति बहुवचननिर्देशात् । अन्यथा ‘हाह’ इति पञ्चम्यन्तवत् ‘अष्ट औश्’ इति निर्दिशेदिति ‘ष्णान्ता षट्’ इति सूत्रे भाष्ये स्पष्टम् । ततः किमित्यत आह — तेनेति । अष्टन्शब्दस्य गौणताया जश्शसोर्विषये आत्वाऽभावेनेत्यर्थः । हलादावेवेति । ‘अष्टन आ विभक्तौ’ इत्यत्र ‘अष्टन’ इत्येकवचननिर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाऽभावादिति भावः ।गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः॑ इत्यपि नात्र प्रवर्तते, तथा सतिअष्टाभ्य औ॑रित्यत्र बहुवचनवैयथ्र्यादिति बोध्यम् । हलादावेवेत्येवकारेण जश्शसोरप्यात्वस्य पक्षेऽपि व्यावृत्तिरूर्तैवानूद्यते । औङादौ तु हलादित्वाऽभावादेव आत्वस्य न प्रसक्तिः । प्रियाष्टा इति । सौ हलि ‘अष्टन आ विभक्तौ’ इत्यात्वे रुत्वविसर्गाविति भावः । षड्भ्यो लुक् इति ‘षट्चतुभ्र्य’ इति च गौणतायां न प्रवर्तत इति च प्रागुक्तं न विस्मर्तव्यम् । तथा च अजादौ सर्वत्र राजवदेव रूपाणि, हलादिषु पक्षे सर्वं रूपम् । हलादिषु विभक्तिषु तु हाहाशब्दवदन्यच्च रूपम् । चकाराद्राजवदपि । तदित्थमत्र रूपाणि-प्रियाष्टाः-प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टानः । प्रियाष्टानम् । प्रियाष्टानौ । प्रियाष्ट्नः । प्रियाष्ट्नः प्रियाष्टाभ्याम् — प्रियाष्टभ्याम्, प्र#इयाष्टाभ्यः — प्रियाष्टभ्यः । प्रियाष्ट्नः प्रियाष्ट्नोः प्रियाष्ट्नाम् । प्रियाष्ट्नि प्रियाष्टनि, प्रियाष्ट्नोः प्रियाष्टासु — प्रियाष्टसु । वस्तुतस्तु ‘ष्णान्त षट्’ इति सूत्रे भाष्ये ‘अष्टन आ विभक्तौ’ इत्यत्रहली॑त्यपकर्षमुक्त्वाप्रियाष्टौ प्रियाष्टा इति न सिध्यति, प्रियष्टानौ प्रियष्टान इत्येव प्राप्नोती॑ति शङ्कितेयथालक्षणमप्रयुक्ते॑ इति समाहितम् ।नैव वा लक्षणमप्रयुक्ते प्रवर्तते, प्रयुक्तानामेवान्वाख्यानात् इति कैयटः । एवं च एषामनभिधानमेवोचितम् । अत एवअष्टाभ्य औ॑शिति सूत्रे भाष्येअष्टन आत्वमिह वैकल्पिकं यदयमात्वभूतस्य ग्रहणं करोति-अष्टाभ्य इति । अन्यथा अष्टन इत्येव ब्राऊयात् इत्युक्तम् । प्रियाष्टन्शब्दस्य लोके प्रयोगसत्त्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मात्प्रियाष्टन्शब्दप्रयोगविचारः सर्वोऽप्यभित्तिचित्रायित इति शब्देन्दुशेखरे प्रपञ्चितम् । इति नान्ताः । अथ धान्ताः ।बुध अवगमने॑कर्तरि क्विप् । बुध् इति धकारान्तः शब्दः । ततः सुबुत्पत्तिः । सौ विशेषमाह — भष्भाव इति । हल्भ्यादिना सुलोपे सति प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा, पदान्तत्वाद्वा ‘एकाचो बशः’ इति बकारस्य भष=भकार इत्यर्थः । झश्त्व चर्त्वे इति । ‘वाऽवसाने’ इति चर्त्वविकल्प इति भावः । भ्यामादौ ‘स्वादिषु’ इति पदत्वाद्भष्, जश्त्वम् । भुद्भ्याम् । भुद्भिः । भुद्भ्यः । भुत्सु इति धान्ताः ।

Tattvabodhini

अष्टाभ्य औश् - अष्टाभ्य औश् । शित्त्वात्सर्वादेशः । ननुअनेकाल्शित्सर्वस्ये॑ति सूत्रे शिद्ग्रहणं प्रत्याख्यायानेकाल्त्वादेव सर्वादेश इति सुवचम् । न च शस्येत्संज्ञायामन्काल्त्वं नास्तीति वाच्यं, शकरोच्चारणसामर्थ्यादत्र भूतपूर्वगत्याश्रयणात् । न चैवम्अर्वश्रस्त्रसा॑विति त्रादेसस्यापि सर्वादेशता स्यादिति वाच्यम्, ऋकारस्योगित्कार्यार्थत्वेन तत्र सामर्थ्योपक्षयात् । न चैवमशित्यादौ शकारः श्रवणार्थ एव स्यादिति शङ्क्यम्, अनुशतिकादिषुऐहलौकिक॑मिति निर्देशेन शकारस्येत्संज्ञाभ्युपगमाजितिदिक् । कृताकारादिति । ननुहली॑त्यपकृष्यत इत्युक्तं तत्कथं कृताकारतेत्यत आह — अष्टभ्य इतीति ।अष्टाभ्य॑इति कृतात्वस्येदमनुकारणम्, न तु लक्षणवशसंपन्नमात्वं, तथाहि सति वक्ष्यमाणज्ञापकेन तस्य वैकल्पिकतया लाघवार्थम्अष्टभ्य औ॑शित्येव ब्राऊशित्येव ब्राऊयादिति भावः । इदमिति । श्रुतमनुमितं चेत्यर्थः । अष्टनो दीर्घादिति । दीर्घान्तादष्टनः परा असर्वनामस्थानविभक्तिरुदात्ता स्यात् । अष्टभिः । दार्घात्किम्ष्टमिः । मध्योदात्तमिदम् ।षटत्रिचतुर्भ्यो हलादिः॑इति बाधित्वाझल्युपोत्तम॑मित्यस्य प्रवृत्तेः ।षट्त्रिचतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्या॑दिति तदर्थः । ननुप्रियाष्ट्ने॑त्यादौ विभक्तेरुदात्तत्वनिवारणायट दीर्घग्रहणमिहावश्यकमिति कथमस्यात्वविकल्पज्ञापकतेति चेदत्राहुः — ॒अष्टनो दीर्घा॑दित्य त्रान्तोदात्तदित्युवर्त्त्यान्तोदात्तदष्टनः परेत्यादिव्याख्यानादष्टभिरित्यादौ विभ्केतदात्तत्वं सिद्द्यति । घृतादित्वेनाऽष्टनोऽन्तोदात्तत्वात् ।प्रियष्ट्न॑इत्यादिबहुव्रीहौ तु पूर्वपदप्रकृतिस्वराभ्युपगमेनाष्टनोऽन्तोदात्तत्वाऽभावाद्विभक्त्युदात्तत्वं न प्रवर्तते इति दीर्धग्रहणं व्यर्थं सदुक्तार्थे ज्ञापकमेवेति । अष्टानामिति ।नुटः पश्चादेव संनिपातपरिभाषाया अनित्यत्वादात्वं, नतु ततः प्रा॑गिति तु मनोरमायां स्थितम् । अत्र नव्याः — संनिपातपरिभाषयाऽऽत्वाभावेऽप्यत्र न क्षतिः ,॒नोफ्धाया॑इति दीर्घे नलोपेपञ्चनां॒॑सप्ताना॑मितिवद्रूपसिद्धेः । न च॒अष्टनो दीर्घा॑दिति विभक्त्युदात्तत्वमात्वविधेः प्रयोजनमिति वाच्यं,षट्त्रिचतुर्भ्यो हलादि॑रित्यनेनैव तत्सिद्धेरिति । पूर्वस्मादपीति । न चात्रपूर्वत्रासिद्धीये न स्थानिवत्इति निषेधः शङ्क्यः,तस्य दोषः संयोगादिलोपलत्वणत्वेषु॑, इत्युक्तत्वादिति दिक् । प्राधान्य एवेति । औशत्वं हि लुङ्नुटाविब प्राधान्य एव भवति न तु गौणात्वे,अष्टाभ्य॑इति बहुवचननिर्देशात् । अन्यथा हि कृताऽऽत्वानुकरणेऽपि एकवचनेनैव निर्दिशेत् -॒अष्टा औ॑शितिअष्ट॑इति वा । एतच्चष्णान्ता ष॑डिति सूत्रे भाष्यकैयटयोः स्पष्टम् । तथा चौश्व्तविधौ कृतात्वनिर्देशबलेनानुमीयमानमात्वं प्राधान्य एवोचितमिति भावः ।प्रियष्टा॑ -इति प्रथमैकवचनम् । उक्तार्थं सङ्गृह्णाति — — — प्रियाष्ट्नो राजवदिति । इति नान्ताः । भुदिति । बुध्यतेः क्विप् । इति धान्ताः ।

Padamanjari

कृताकारोऽष्टन्शब्दो गृह्यत इति । कृताकारस्यानुकरणमष्टाशब्दः, न तु विभक्तौ लक्षणवशादात्वं कृतमित्यर्थः । कृताकारस्य ग्रहणं किमिति । आत्ववतोऽनुकरणं किमित्याश्रितमित्यर्थः । यदाऽऽत्वं भवति तदैव यथा स्यादित्युतरम् । अष्टेति । कथं पुनरत्रात्वाभावः, यावता न हि तद्विधौ विकल्पः सन्निहितः इत्यत आह - एतदेवेति । इह अष्टनः इति वक्तव्यम् - यथा अष्टन आ विभक्तौ इत्यत्र, एवं सिद्धे अष्टाभ्यः इति निर्द्देशात्कृतात्वास्यानुकरथणमिति तावन्निश्चितम् तसेय चैतत्प्रयोजनम् - यदात्वं भवति तदैव यथा स्यादिति । यदि च नित्यननु च अष्टनो दीर्घात् इति दीर्घग्रहणेनायमार्थो ज्ञापितः, तद्वा ज्ञापकमिदं वा, को नवत्र विशेषः इहेयतावद्वक्तव्यम् - षड्भ्यो लुक् इत्यस्यायमपवाद इति । अस्यैवेत्यवधारणं द्रष्टव्यम् । कारणमाह - नाप्राप्ते चेति । स हि समास एव प्राप्नोति, न तु वाक्ये । अष्टपुत्र इति । अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनाद्वाक्यावस्थायामेव प्राप्तोऽप्यौश् न क्रियते, औश एव वा स्थानिवद्भा बाल्लुक् । तदन्तग्रहणमत्रेष्यत इति । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । यद्येवम्, यत्राष्टशब्दार्थ उपसर्जनं तत्रापि प्राप्नोति अत आह - प्रिया,टान इत्यत्रेति । यथा पुनरत्रात्वं न भवति, तथा तद्विधावेव एवक्ष्यते ॥

Nyaas

कृताकारोऽष्टन्शब्दो गृह्रते इति। यत्रात्वं तत्रौश्त्वं यथा स्यादित्यभिप्रायः। अष्टौ तिष्ठन्ति इति। आत्वे कृत औश्त्वम्। अष्ट तिष्ठन्ति इति। अत्रात्वाभावादौश्त्वं न भवति। कथं पुनरत्रात्वाभावः, यावता न तत्रात्वविधौ विकल्पस्य प्रतिपादकं किञ्चिदन्यतरस्यांग्रहणादिकमसति? इत्याह - एतदेव इत्यादि। कृतात्वनिर्देशस्थैतदेव प्रयोजनम् - यत्रात्वं तत्रैवौशत्वं यथा स्यात्, अन्यत्र मा भूदिति। यदि च नित्यमात्वं स्यात्? तदा कृतात्वस्य निर्देशोऽनर्थकः स्यात्; व्यवर्त्त्याभावात्? अष्टनः इत्येवं ब्राऊयात्। तदेवं लघुनिर्देशे सम्भवति सति यत्? कृतात्वस्य निर्देशो गरीयान्? क्रियते, तज्ज्ञापयति - विकल्पेनात्वं भवतीति। यद्यपि चायमर्थः अष्टनो दीर्घात् (6.1.172) इत्यत्रापि ज्ञापितः, तथापि विस्मरणशीलानामनुग्रहाय पुनरिह ज्ञाप्यते। अथाष्टपुत्रः, अष्टभार्य इत्यत्र कस्मान्न भवति, सुपो धातुप्रातिपदिकयोः (2.4.71) इति लुका बाधितत्वादिति चेत्? न; इहापि तर्हि न स्यात् - अष्टौ तिष्टन्ति, अष्टौ पश्येति। षङ्भ्यो लुक्? (7.1.22) इति लुका बाधितत्वात्। अथौश्भावस्य लुगपवादत्वादत्र लुक्रं बाधित्वा स एव भवति। पूर्वत्रापि तर्हि स एव स्तात्, अत एव हेतोः? इत्याह - `षङ्भ्यो लुगित्यस्यापवादोऽयम् इति। अत्रैवोपपत्तिमाह - नाप्राप्ते इत्यादि। षङ्भ्यो लुक् (7.1.22) इत्यसमासे प्राप्नोति - अष्टौ तिष्ठन्तीत्यादौ, समासे च - अष्टपुत्र इत्यादौ। तस्मान्नाप्राप्ते अष्टभार्यः - इत्यत्र सुब्लुकैव भवितव्यमित्यौशत्वं न भवति। तदन्तग्रहणम् इत्यादि। किं पुनरिष्यमाणमपि लभ्यते? अङ्गाधिकारे तस्य तदुत्तरपदस्य च (पु।प।वृ।85) इति वचनात्। अथ वा - अष्टाभ्य इत्यर्थप्रधाननिर्देशोऽयं बहुवचननिर्द्देशादवसीयते। शब्दप्रधाने हि निर्देशे अष्टनः ब्राऊयात्। अर्थाच्च शब्दद्वारेणैव जश्शसोः परत्वं विज्ञायत इति केवलाच्चाष्टनो भवति। तदन्ताच्चातदन्तेऽपि हि शब्दद्वेरेणार्थात्? परौ जश्शसौ भवत इति। यदि तदन्तग्रहणमत्रेष्यते, प्रियाष्टन इत्यत्रापि प्राप्नोति? अत आह - प्रियाष्टनः इत्यादि। प्रिया अष्टौ येषामिति बहुव्रीहिः। ननु च विकल्पेनात्वम्। तत्र यदात्वं न भवति तदा मा भूदौश्त्वम्; यदात्वं तदा स्यादेव; व्यवस्थितविभाषयात्रात्वं न भविष्यतीत्यदोषः॥

Praudhamanorama

कृताकारादिति। ननु हलीत्यपकृष्यत इत्युक्तम्, तत्कथं कृताकारतेत्यत आह- अष्टभ्य इति। कृतात्वस्येदमनुकरणं, न तु लक्षणवशसम्पन्नमात्वम्। तथा हि सति वक्ष्यमाणज्ञापकेन तस्य वैकल्पिकतया लाघवार्थमष्टभ्य इत्येव ब्रूयादिति भावः। इदमिति। श्रुतमनुमितं चेत्यर्थः। अष्टनो दीर्घादिति। दीर्घान्तादष्टनः परा असर्वनामस्थानविभक्तिरुदात्ता स्यात्। अष्टाभिः। दीर्घात् किम्? अष्टभिः। मध्योदात्तमिदम्। ‘षट्त्रिचतुर्भ्यो हलादि’रिति बाधित्वा ‘झल्युपोत्तम’मित्यस्य प्रवृत्तेः। ‘षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यादिति तस्यार्थः। एवं स्थिते ह्रस्वव्यावृत्त्यर्थं क्रियमाणमात्वस्य नित्यत्वे व्यर्थं स्यादित्यर्थः। पूर्वस्मादपीति। एवञ्च प्रियाष्ट्ण इति हरदत्तेनोदाहृतं ष्टुत्वं न भवतीति भावः। न च ‘पूर्वत्रासिद्धीये न स्थानिवत्’ इति निषेधः, तस्य दोष इति सापवादत्वात्। ननु ‘ रषाभ्याम्’ इति प्रतिपदोक्तं णत्वं तत्र ग्रहीष्यामः, न तु ष्टुत्वविधिलभ्यमिति चेत्? मैवम्। भाष्यमते तदयोगात्। तथा हि—‘रषाभ्याम्’ इति सूत्रे ‘अपदान्तस्य मूर्धन्यः’ इति सूत्रमनुवर्त्य णग्रहणं; ‘पदान्तस्य’ इति निषेधसूत्रं च भाष्ये प्रत्याख्यातम्। न च मूर्धन्यशब्देन ष्टुत्वशब्देन वा निर्वर्त्यमाने णकारे वैषम्यं सुवचम्; यथोत्तरं मुनीनां प्रामाण्यमिति स्थानिवद्भाव एवोचितः। शब्दकौस्तुभे ‘तस्य दोषः’ इत्यत्र णत्वग्रहणं मास्त्वति निष्कर्षः कृतस्तद्रीत्याप्याह— कार्यकाल पक्ष इति। न च यथोद्देशमाश्रित्य ष्टुत्वमस्त्विति वाच्यम्। फलभेदे प्रत्याख्यानासम्भवेन कार्यकालपक्षस्यैवेह न्याय्यत्वादिति भावः। अत एव पञ्चमीसमासस्य प्रत्याख्यानोपष्टम्भेनापि ष्टुत्वं प्रत्याशा न कार्या। फलैक्याय कार्यकालपक्षस्यैव न्याय्यत्वेनासिद्धत्वस्य दुर्वारत्वात्। ‘निष्ठायां सेटि’ इति सेड्ग्रहणाज्ज्ञापकात् पूर्वस्माद्विधौ स्थानिवद्भावस्याऽनित्यतया नेह प्रवृत्तिरिति तु अनित्यत्वपुरस्कारोऽनुचित एवेत्यास्तां तावत्। जश्शसोरिति। औश्त्वं हि लुग्नुटाविव गौणत्वे न भवति। अष्टाभ्य इति बहुवचननिर्देशात्। अन्यथा हि कृताऽऽत्वानुकरणेऽपि एकवचनेनैव निर्दिशेत्- अष्टा औशिति, अष्ट इति वा। एतच्च ‘ष्णान्ता षट्’ इति सूत्रे भाष्यकैयटयोः स्पष्टम्। तथा च औश्त्वविधौ कृतात्वनिर्देशबलेनानुमीयमानमात्वमपि प्राधान्ये एवोचितम्। तथा च जसि प्रियाष्टान इत्येव स्यान्न तु प्रियाष्टा इत्याशङ्क्योक्तं भाष्ये ‘यथालक्षणमप्रयुक्ते’ इति। न भवत्येवात्रात्वमित्यर्थ इति कैयटः। वामनोऽपि ‘अष्टाभ्य औश्’ इति सूत्रे तदन्तग्रहणात्परमाष्टावित्युक्त्वा प्रियाष्टान इत्यत्राऽऽत्वस्याभावादौश्त्वं न भवतीत्याह। हरदत्तस्तु—तत्रैव ‘प्रियाष्टान इत्यत्र’ इति वृत्तिग्रन्थमुपादाय यथा पुनर्गौणतायामात्वं न भवति तथा तद्विधावेव वक्ष्यत इति प्रतिज्ञाय ‘अष्टन आ विभक्तौ’ इति सूत्रे एकवचननिर्देशादुपसर्जनेऽप्यात्वम्, भविषये आतो लोपः प्रियाष्टः पश्येत्यादि वदन् पूर्वप्रतिज्ञातार्थविपरीतं भाष्यवृत्त्यादिविरुद्धं कथमभिहितवानिति स एव प्रष्टव्यः। हलादावेवेति। यद्यपि हलीत्यस्यापकर्षणमकृत्वाऽपि व्याख्यानं भाष्ये प्रतीयते। तथाऽपि तस्याऽपरितोषग्रस्तत्वं प्रपञ्चितमन्यत्रेति भावः। प्रियाष्टा इति प्रथमैकवचनम्। उक्तं संगृह्णाति प्रियाष्ट्न इति॥ नान्ताः ॥ भुदिति। बुध्यतेः क्विप्॥ धान्ताः ॥

Prakriyasarvasvam

कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टौ । अष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । षट्त्वान्नुट् । अष्टानाम् । अष्टासु । आत्वं वेष्टम् । तेन अष्ट, अष्ट, इति पञ्चवत् । उपसर्जनत्वे प्रियपञ्चवत् । तत्रात्वं वेति रामहरौ । प्रियाष्टाः । प्रियाष्टौ । जश्शसोरौश्त्वात् प्रियाष्टौ । उपसर्जनत्वादामि न नुट् । प्रियाष्टाम् । शेषं हाहावत् । भान्तः अतिककुप्, अतिककुभावित्यादि । धान्तः । बुधेः क्विप् । बुध् स् । सुलोपः । भष्भावजश्त्वचर्त्वानि । भुत्, भुद् । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुत्सु । युज् स् । ‘युजेरसमासे’ (७-१-७१) इति नुम् । सुलोपे संयोगान्तलोपे च ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति नस्य कुत्वम् । युङ् । अनुस्वारपरसवर्णौ । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युजा । युग्भ्याम् । युक्षु । समासे तु न नुम् । कृष्णयुज् क्विबन्तः । क्विन्प्रत्ययवतो धातोरन्यत्रापि पदत्वे कुत्वोक्तेः कुः । चत्त्वम् । कृष्णयुक् । कृष्णयुजौ । समाध्यर्थ- युजेर्नुंन्नेष्टः । युक् समाधिमान् । युजौ । युजः । विश्वसृज् । स्रगिति सृजेः क्विन्प्रत्ययवत्त्वाद् कुत्वम् । विश्वसृक् । कुत्वं नेति च वृत्तौ । व्रश्चादिषः । जश्त्वचर्त्त्वे । विश्वसृट् विश्वसृजौ । विश्वसृग्भ्याम् । विश्वसृड्भ्याम् । व्रश्चादिषत्वे राट् । राजौ । राड्भ्याम् । द्वौ भ्राजती, तत्र राजत्यनन्तरपठितस्यैव व्रश्चादिषः । अन्यस्य चोः कुः । विभ्राट्, विभ्राक् । विभ्राड्भ्यां, विभ्राग्भ्याम् । ‘परौ व्रजेः षः पदान्ते’ इत्यादिसूत्रात्, क्विब्दीर्घौ, पदान्तेषु षत्वं च । परिव्राट् । परिव्राजौ । परिव्राड्भ्याम् । ऊर्ज् ।

Sudha

अष्टाभ्य औशिति । अत्र **जश्शसोः शिः**(7.1.20) इत्यतो जश्शसोरित्यनुवर्तते । अष्टभ्य इति वक्तव्ये इति । भ्यसि अष्टभ्यः, अष्टाभ्यः इति रूपद्वये सत्यपि औशविधौ लाघवात् अष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः। अष्टौ । अष्टन् + जस् इत्यत्र **अष्टन आ विभक्तौ**(7.2.84) इत्यनेनाकारान्तादेशे विहिते ‘अष्ट आ जस्’ इति जाते **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घत्वे **अष्टाभ्य औश्**(7.1.21) इति जस औशि विहिते शस्येत्सञ्ज्ञायां लोपे च विहिते **वृद्धिरेचि**(6.1.88) इति वृद्धौ ‘अष्टौ’ इति रूपम् । एवमेव शसि अष्टो । अष्टाभिः । अष्टन् + भिस् अत्र **अष्टन आ विभक्तौ**(7.2.84) इति आत्वे सवर्णदीर्घत्वे च कृते ‘अष्टाभिः’ इति । अष्टाभ्यः । हलादौ आत्वे सवर्णदीर्घः । अष्टानाम् । आदौ नुटि कृते सति हलादित्वादात्वम् । पञ्चवदिति । अष्ट । अष्ट । अष्टभिः । अष्टभ्यः । अष्टानाम् । अष्टसु ।