71020: जश्शसोः शिः

Padacheda: जश्-शसोः | S | 6 | 2 |

शिः | S | 1 | 1 |

Sutrartha

नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति ।

नपुंसकलिङ्गवाची यः शब्दः, तस्मात् परयोः प्रथमाद्वितीयाबहुवचनस्य ‘जस् / शस्’ प्रत्यययोः ‘शि’ इति आदेशः भवति । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन अयम् सर्वादेशः भवति । (‘शि’ इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः लशक्वतद्धिते (1.3.8) इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः जस्/शस्-इत्येतयोः स्थाने प्रारम्भे ‘शि’ इति आदेशः भवति, ततः स्थानिवद्भावात् ‘शि’ इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञा लोपश्च विधीयते) । अस्मिन सूत्रे प्रोक्तः ‘शि’ अयमादेशः शि सर्वनामस्थानम् (1.1.42) इति ‘सर्वनामस्थान’ संज्ञकः भवति, अतः नपुंसकलिङ्गशब्दात् जस्-शस्-प्रत्यययोः परयोः सर्वनामस्थानविशिष्टं कार्यं दृश्यते ।उदाहरणानि एतानि - 1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → फल + शि [जश्शसोः शिः (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति प्रत्ययस्य सर्वनामस्थानसंज्ञा ] → फल + इ [शकारस्य इत्संज्ञा, लोपः ] → फल नुम्+ इ [नपुंसकस्य झलचः (7.1.72) इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः] → फल न् + इ [इत्संज्ञालोपः] → फलानि [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः] 2. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → पयस् + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः (7.1.72) इति अङ्गस्य नुमागमः] → पयान्स् + इ [सान्तमहतः संयोगस्य (6.4.10) इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → पयांसि [नश्चापदान्तस्य झलि (8.3.24) इति नकारस्य अनुस्वारः] 3. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → जगत् + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः (7.1.72) इति अङ्गस्य नुमागमः] → जगन्ति 4. वारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → वारि + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → वारि + इ [शकारस्य इत्संज्ञा, लोपः । ] → वारि न् + इ [नपुंसकस्य झलचः (7.3.72) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन इकोऽचि विभक्तौ (7.1.73) इति नुमागमः] → वारी + नि [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः] → वारीणि [अट्कुप्वाङ्नुम्वयवायेऽपि (8.4.2) इति णत्वम्]

Sutrartha (English)

The जस्/शस्-प्रत्ययs that follow a नपुंसकलिङ्ग word get ‘शि’ आदेश.

Vasu English Summary

After a neutral अङ्ग (stem), इ is substituted for the endings (जस् and शस्) of Nominative 1st-Case and Accusative -2nd case.

Vasu English Translation

After a neutral अङ्ग (stem), इ is substituted for the endings (जस् and शस्) of Nominative 1st-Case and Accusative -2nd case. Thus कुण्डानि तिष्ठन्ति, कुण्डानि पश्य, दधिनी, मधूनि, त्रपूणि, जतूनि ॥ The augment न् is by (7.1.72). The word शस् in the sutra being read along with जस् denotes the Accusative Plural ending शस् and not the Taddhita affix शस् (5.4.43); as कुण्डशो ददाति, वनशः प्रविशति ॥

Bhashya

जश्शसोः शिः जसः शी ॥ किमर्थं शीभावः शिभावश्चोच्यते, न शिभाव एवोच्येत ? ॥ का रूपसिद्धिः - ते ये के ॥ आद्गुणेन सिद्धम् ॥ नैवं शक्यम् - ःइह हि त्रपुणी जतुनी, दीर्घश्रवणं न स्यात् ॥ एवं तर्हि शीभाव एवोच्येत(2) ॥ नैवं शक्यम् । इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणं(3) न प्रसज्येत । तस्माच्छीभावः शिभावश्च ॥ ( जसः शी ) ॥

Kashika

नपुंसकादङ्गादुत्तरयोर्जश्शसोः शि इत्ययमादेशो भवति। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति — कुण्डशो ददाति, वनशः प्रविशन्तीति॥

Siddhanta Kaumudi

क्लीबादनयोः शिः स्यात् ॥

Laghu Siddhanta Kaumudi

क्लीबादनयोः शिः स्यात्॥

Balamanorama

जस्शसोः शिः - बहुवचनस्य वस्नसौ । उक्तविधयोरिति । षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः ।

Tattvabodhini

जस्शसोः शिः - जश्शसोः । जसा साहचर्यादिह सुबेव शस् गृह्रते । तेनेह न -कुण्डशो ददाति ।

Padamanjari

कुण्डश इति । जातिशब्दोऽप्ययं यदार्थप्रकरणादिना जात्याधारभूतायामेकस्यां व्यक्तौ वर्तते, तदा वृत्तिविषय एकवचनो भवतीति संख्यैकवचनात् इति शस् भवति । अर्थप्रकरणाद्यभावे तु तत्र प्रत्युदाहृतम् - घट्ंअघट्ंअ ददातीति ॥

Nyaas

बहुवचनस्य वस्नसौ। उक्तविधयोरिति। षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः।

Prakriyasarvasvam

क्लीबात् परयोर्जश्शसोः शिः स्यात् । ज्ञान इ ॥

Sarala

जश्शसोः शिः । जसा साहचर्यात्सुबेव शस् गृह्यते, तेन “कुण्डशो ददाति” इत्यत्र तद्धिते शसि न श्यादेशः ॥

Sudha

जश्शसोः शिरिति । **स्वमोर्नपुंसकात्**(7.1.23) इत्यतो नपुंसकादित्यनुवर्तते, तदाह - क्लीबादिति । उक्तसञ्ज्ञमिति । सर्वनामस्थानसञ्ज्ञकमित्यर्थः ।