71028: ङे प्रथमयोरम्

Padacheda: ङे | S | | | 6

प्रथमयोरम् | S | 6 | 2 |

Sutrartha


Vasu English Summary

अम् is substituted for the Dative -4th Case ending ए and for the endings of the Nominative 1st-Case and Accusative -2nd case in all numbers after the अङ्ग (stems) युष्मद् and अस्मद्।

Vasu English Translation

अम् is substituted for the Dative -4th Case ending ए and for the endings of the Nominative 1st-Case and Accusative -2nd case in all numbers after the अङ्ग (stems) युष्मद् and अस्मद्। The ङे the ending of the Dative is exibited anomalously in the sutra without any case ending (compare (7.1.13), ङेः) प्रथमयोः means ‘of the first and second cases’. Thus युष्मद् + ङे = तुभ्यद् + ङे (7.2.95) = तुभ्य + ङे (7.1.102) = तुभ्य + अम् (7.1.28) = तुभ्यम् (VI.I.I07) or (6.1.97); similarly मह्यम् ॥ So also युष्मद् + सु = त्वद् + सु (7.2.94) = त्व + सु (7.2.91) = त्व + सु (7.2.102) = त्व + अम (7.1.28) = त्वम् (6.1.97) or (6.1.107). Similarly अहम् ॥ So also युवाम् and आवाम् by (7.2.92) and (6.2.88); यूयम् and वयम् by (7.2.93) and (6.1.97) or (6.1.107), त्वाम् and माम् by (7.2.97) and (7.2.87); युवाम् and आवाम् as before.

Bhashya

ङे प्रथमयोरम् प्रथमयोरित्युच्यते कयोरिदं प्रथमयोर्ग्रहणं, किं विभक्त्योराहो स्वित्प्रत्यययोः ? ॥ विभक्त्योरित्याह ॥ कथं ज्ञायते ? ॥ अन्यत्रापि हि प्रथमयोर्ग्रहणे विभक्त्योर्ग्रहणं विज्ञायते न प्रत्ययोः ॥ क्वान्यत्र ? ॥ प्रथमयोः पूर्वसवर्ण इति ॥ अस्ति कारणं येन तत्र विभक्तियोर्ग्रहणं विज्ञायते ॥ किं कारणम् ? ॥ अचीति तत्र वर्तते न चाजादी प्रथमौ प्रत्ययौ स्तः । ननु चैवं विज्ञायते - अजादी यौ प्रथमावजादीनां वा यौ प्रथमाविति ॥ यत्तर्हि तस्माच्छसो नः पुंसीत्यनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तज्ज्ञापयत्याचार्यो - विभक्त्योर्ग्रहणमिति ॥ इहाप्याचार्यप्रवृत्तिर्ज्ञापयति - विभक्त्योर्ग्रहणमिति यदयं शसो नेति प्रतिषेधं शास्ति ॥ नैष प्रतिषेधो. नत्वमेतद्विधीयते ॥ सिद्धमत्र नत्वं तस्माच्छसो नः पुंसीति ॥ यत्र तेन न सिध्यति तदर्थम् ॥ क्व च तेन न सिध्यति(1) ? ॥ स्त्रियां नपुंसके च । युष्मान्ब्राह्मणकुलानि पश्य अस्मान् ब्राह्मणकुलानि पश्येति ॥ यत्तर्हि युष्मदस्मदोरनादेशे द्वितीयायां चेत्याह तज्ज्ञापयत्याचार्यो - विभक्त्योर्ग्रहणमिति ॥ ( ङे प्रथमयोरम् ) ॥

Kashika

ङे इत्यविभक्तिकोऽयं निर्देशः। ङ इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथमाद्वितीययोर्युष्मदस्मद्भ्यामुत्तरयोरमित्ययमादेशो भवति। तुभ्यं दीयते। मह्यं दीयते। प्रथमयोः — त्वम्। अहम्। युवाम्। आवाम्। यूयम्। वयम्। त्वाम्। माम्। युवाम्। आवाम्॥

Siddhanta Kaumudi

युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात् ॥

Laghu Siddhanta Kaumudi

युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः॥

Balamanorama

ङे प्रथमयोरम् - अथ युष्मदस्मच्छब्दयो प्रक्रियां दर्शयति — ङे प्रथमयोरम् ।युष्मदस्मद्भ्यां ङसोऽश् इत्यतोयुष्मदस्मद्भ्या॑मित्यनुवर्तते । परशब्दोऽध्याहर्तव्यः । ‘ङे’ इति लुप्तषष्ठीकं पृथक्पदम् । प्रथमयो॑रिति प्रतमाद्वितीयाविभक्त्योर्लाक्षणिकमिति भाष्यं । तदाह युष्मदस्मद्भ्यामित्यादिना । सोरमादेशे कृते ‘न विभक्तौ’ इति मस्य नेत्त्वम् । युष्मद् अम्, अस्मद् अम् इति स्थितम् । अधिकृत्येति ।कार्याणि वक्ष्यन्ते॑ इति शेषः ।

Tattvabodhini

ङे प्रथमयोरम् - ङे प्रथमयोरम् ।युष्मदस्मभ्द्यां ङसोऽ॑सित्यतोयुष्मदस्मभ्द्या॑मित्यनुवर्तते ।ङे॑इति पृथक्पदं लुप्तषष्ठीकम् ।प्रथमयो॑रिति द्विवचनबलेन प्रतमाशब्दः प्रथमाद्वितीयभयार्थके इत्याशयेन व्याचष्टे -युष्मदस्मद्भ्यां परस्य ङे इत्येतस्येत्यादिना ।ङेसुटो॑रिति सुवचम् ।

Nyaas

ङे इत्यविभक्तिकोऽयं निर्देशः (इति)। सुपां सुलुक् (7.1.39) इति षष्ठआ लुप्तत्वात्। प्रथमयोरिति षष्ठीद्विवचनान्तम् - प्रथमा च प्रथमा च ते प्रथमे, तयोः प्रथमयोः। षष्ठीनिर्देशस्योभयत्र तुल्यत्वात्? प्रथमयोः प्रत्यययोः स्वौकारयोग्र्रहणमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - विभक्त्योः इति। एतदेव स्पष्टीकर्तुमाह - प्रथमाद्वितीययोः इति। कथं पुनर्द्वितीया प्रथमाशब्देनोच्यते? उपदेशे प्रथमासामीप्यात्। भवति हि सामीप्यात्? ताच्छब्द्यम्, यथा - गङ्गायां घोष इति। अथ विभक्त्योरिदं ग्रहणं न प्रत्ययोः - इति कुतोऽयं निश्चयः? लिङ्गात्। तत्पुनर्लिङ्गं द्वितायायाञ्च (7.2.87) इत्यत्त्वविधानम्। तद्ध्यादेशार्थमुच्यते; अनादेशे हि युष्मदस्मदोरनादेशे नान्यथा। ननु च योऽचि (7.2.89) इति यत्वबाधनार्थम्? द्वितीयायाञ्च (7.2.87) इत्याद्वचनं स्यात्? नैतदस्ति; तदर्थे द्विवचने यकारमेव विशेषणं विदध्यात् - योऽच्यद्वितीयायाम् इति, योऽच्यनचि इति वा द्रूयात। अतो द्वितीयायामात्त्वविधानं ज्ञापकमेवैतद्विभक्तिग्रहणस्य। तभ्यम्, मह्रम् इति। मपर्यन्तयोर्युष्मदस्मदोस्तभ्यमह्रावादेशौ। शेषे लोपः (7.2.90) , अमि पूर्वः (6.1.107) । त्वम्, अहम् इति। त्वाहौ सौ (7.2.94) । युवाम्, आवाम्? इति। `युववौ द्विवचने (7.2.92) इति युवावौ, प्रथायश्च (7.2.88) इत्यादिनाऽत्त्वम्। यूयम्, वयम् इति। यूयवयौ जसि (7.2.93) । त्वाम्, माम् इति। त्वमावेकवचने` (7.2.97) , द्वितीयायाञ्च (7.2.87) इत्यात्त्वम्। अथ किमर्थममादेश उच्यते, न मकार एवोच्यते? स चैकाल्त्वादादेर्भविष्यति, तत्र परस्य संयोगान्तलोपेन सिद्धम्, शेषे लोपः (7.2.90) इति टिलोपान्न सिध्यतीति चेत्? नैष दोषः; सेषे लोपो यद्यपि टिलोपः स्यात्, तथापि त्वाहौ सौ (7.2.94) इत्येवमादीनामकारान्तत्वात्? सिद्ध्यत्येव; ते चावश्यकमकारान्ता विधेयाः, अन्तोदात्तत्वं यथा स्यात्। न च मकारादेशे सुचि च (7.3.102) इति दीर्घत्वं प्राप्नोति; अङ्गवृत्ते पुनरङ्गवृत्ताविधिर्निष्ठितस्य (व्या।प।38) इति वचनात्। एवं तर्हि वैचित्र्यार्थममादेशविधानम्। अथ वा - मकार एवादेशः, अकारस्तूच्चारणार्थः; न ह्रन्यथास्मिन्निर्देश आदावन्ते वाऽकारमकृत्वा मकार उचचारयितुं शक्यते। ङेत्सुटोः इति। वक्तव्ये ङे प्रथमयोः इति वचनं वैचित्र्यार्थम्॥

Praudhamanorama

ङे इति पृथक्पदं लुप्तषष्ठीकम्। प्रथमाशब्दः प्रथमाद्वितीययोः समुदाये गौण इति व्याचष्टे— ङे इत्यस्येत्यादिना। ङे सुटोरम् इति सुवचम्।

Prakriyasarvasvam

युष्मदस्मद्भ्यां परस्य ङेशब्दस्य प्रथमाद्वितीययोरप्यमादेशः स्यात् ।

Sudha

ङे प्रथमयोरिति । अत्र **युष्मदस्मद्भ्यां ङसोऽश्**(7.1.27) इत्यतो युष्मदस्मद्भ्यामित्यनुवर्तते ।