71034: आत औ णलः

Padacheda: आतः | S | 5 | 1 |

औ | S | | | 1

णलः | S | 6 | 1 |

Sutrartha


Vasu English Summary

औ is substituted for णल् , the affix of the 1st and 3rd person singular of the लिट् (Perfect Tense), after the roots ending in long आ।

Vasu English Translation

औ is substituted for णल् , the affix of the 1st and 3rd person singular of the लिट् (Perfect Tense), after the roots ending in long आ। Thus पपौ, तस्थौ, जग्लौ, मम्लौ, from पा, स्था, ग्लै (ग्ला) and म्लै (म्ला) ॥ The form पपौ is thus evolved, पा + णल् = पा + अ ॥ Here three operations simultaneously present themselves for application, namely; 1. Reduplication, 2. Lengthening; by the single substitution of one long vowel आ, for आ + अ; and 3. The substitution of औ for आ by the present sutra. In what order should these operations be then performed? First the affix अ should be replaced by औ, then the single substitution of औ for आ + औ ; and then treating it as sthanivat, and then reduplication. For if the single substitution of आ for आ + अ had taken place first, then there would be no scope for औ substitution, therefore the औ substitution, should take place first. Thus we have पा + औ = पौ; this vriddhi-ekadesa, is treated as sthanivat by (1.1.59), and it causes reduplication. The vriddhi-ekadesa should first take place (i. e. आ + औ = औ) and then the reduplication, because the former rule is subsequent to the latter.

Bhashya

आत औ णलः इह पपौ तस्थाविति त्रीणि कार्याणि युगपत्प्राप्नुवन्ति - द्विर्वचनमेकादेश औत्वमिति। तद्यदि सर्वत औत्वं लभ्येत कृतं स्यात्। अथापि द्विर्वचनं लभ्येत एवमपि कृतं स्यात् । तत्तु न लभ्यम्॥ किं कारणम्?॥ अत्र हि परत्वादेकादेशो द्विर्वचनं बाधते॥ परत्वादौत्वम्॥ नित्य एकादेश औत्वं बाधेत॥ कं पुनर्भवानौत्वस्यावकाशं मत्वाह - नित्य एकादेश इति, - अनवकाशमौत्वमेकादेशं बाधिष्यते। औत्वे कृते द्विर्वचनमेकादेश इति; यद्यपि परत्वादेकादेशः स्थानिवद्भावाद्विर्वचनं भविष्यति॥ (आत औ)॥

Kashika

आकारान्तादङ्गादुत्तरस्य णल औकारादेशो भवति। पपौ। तस्थौ। जग्लौ। मम्लौ। अत्रौत्वमेकादेशः स्थानिवद्भावो द्विर्वचनमित्यनेन क्रमेण कार्याणि क्रियन्ते। एकादेशादनवकाशत्वादौत्वम् द्विर्वचनादपि परत्वादेकादेश इति॥

Siddhanta Kaumudi

आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ॥

Laghu Siddhanta Kaumudi

आदन्ताद्धातोर्णल औकारादेशः स्यात्। पपौ॥

Balamanorama

आत औ णलः - तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते — आत औ । ‘औ’ इति लुप्तप्रथमाकम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरीणम्यते । ‘आत’ इति तद्विशेषणम् । तदन्तविधिः । तदाह — आदन्ताद्धातोरिति । णल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथा च णल औत्वे वृद्धौ रूपमाह — दधाविति ।

Tattvabodhini

आत औ णलः - आत औ णलः । इह अङ्गस्येत्यनुवर्तते । धातोरिति तु फलितार्थकथनम् । आदन्तादङ्गादित्यर्थः ।

Padamanjari

पपावित्यादौ पा - अ इति स्थिते युगपत् त्रीणि कार्यणि प्राप्नुवन्ति द्विर्वचनम्, सवर्णदीर्घत्वमेकादेशः, औत्वमिति, तत्र येन क्रमेणैतानि कर्तव्यानि, तद्दर्शयति - अत्रेति । लित्स्वरं तु नोपन्यस्याति, सर्वथान्तोदातत्वसिद्धेः । उक्तक्रमे हेतुमाह - एकादेशादिति । यदि पूर्वमेकादेशः स्याव्द्यपवर्गाभावादौत्वं न स्यादित्यनवकाशं तत् । परत्वादेकादेश इति । अत्र वृद्धिरेकादेशः, तस्य स्थानिवद्भावाद् द्विर्वचनम्, स्थानिवद्भावस्तु द्विर्वचनेऽचि इति । तत्र ह्यचीति न स्थानिवद्भावस्य निमितनिर्द्देशः किं तर्हि अजादेशस्य - द्विर्वचननिमितेऽचि योऽजादेश इति । तेन सम्प्रत्यच्परत्वाभावेऽपि स्थानिवद्भावो भवत्येव । ओकारौकारयोर्लाघवे विशेषाभावात्प्रयोगसमवाय्यौकार एव विहितः । अपर आह - आङ्प्रश्लिष्टाकार ओकारः, तस्योच्चारणे प्रयत्नलाघवं भवति विश्लिष्टाकार औकारस्तस्योच्चारणे प्रयत्नगौरवं भवति, तद्विधानं दरिद्रात्यर्थम्ददरिद्रौ, अत्र दरिद्रातेरार्द्धधातुके लोपो वक्तव्यः इत्याकारलोपेऽप्यौकारस्य श्रवणम् भवति । यद्यपि सिद्धश्च प्रत्ययविधौ इति वचनाल्लिटि विवक्षित एवाकार लोपे सत्यौत्वस्याप्रसङ्गः, यद्यपि च सास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामि सति णल एवासम्भवः, तथाप्यौत्वविधानसामर्थ्याद् द्वयमप्येतन्न भवति ॥

Nyaas

तस्यौ इति। शर्पूर्वाः खयः (7.4.61) इति खयः शेषः। जग्लौ इति। कहोश्चुः (7.4.62) इति चुत्वम्। इह पा इत्यादिभ्यो णलि परत्रवस्थिते युगपत्? त्रीणि कार्याणि प्राप्नुवन्ति - द्विवचनम्, एकादेशः, औत्वञ्च। तेषाञ्च तथा प्राप्तानां युगपत्प्रवृत्तिः सम्भवतीति सामर्थ्यात्? प्राप्तः क्रम आश्रीयते। तत्र येन क्रमेण तानि कर्तव्यानि, तं दर्शयितुमाह - अत्र इत्यादि। अत्रेत्यनेन पपवित्यादीन्युदहरणानि प्रत्ययमुश्यन्ते। यदि द्विर्वचनादेकादेशः पूर्वं क्रियते तदा वृद्धिरेचि (6.1.88) इति वृद्धावेकादेशे कृते निमित्तनिमित्तिनोविंशेषाभावाल्लिटि परतः पूर्वस्योचयमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम् - स्थानिवद्भावो द्विर्वचनमिति। केन पुनरत्र स्थानिवद्भावः? द्विर्वचनेऽचि (1.1.59) इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽपि परतः पूर्वस्योच्यमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम् - स्थानिवद्भावो द्विर्वचनमिति। केन पुनरतर स्थानिवद्भावः? द्विर्वचनेऽचि (1.1.59) इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽचि परतः पूर्वसय स्थानिवद्भाव उच्यते, न चात्र द्विर्वचननिमित्तं परमचं पश्यामः। अत्र क्चिदाहुः - अचीत्युपलक्षणम्, अचि य आदेशो दृष्टः स द्विर्वचने कर्तव्ये स्थानिवद्भवतीतीमं सूत्रार्थमाश्रित्यैतदुक्तम्। इह सम्प्रत्यनच्परत्वेऽप्येकादेशकरणकालेऽचः परस्य निमित्तभावेनश्रयणादच्ययमादेशः कृतः। तस्माद्भवितव्यं स्थानिवद्भावेन। अन्ये त्वाहु - एकादेशः पूर्वविधौ स्थानिवद्भवतीति वक्तव्यम् इत्यनयेष्टआ स्थानिवद्भावः। द्विर्वचनेऽचि (1.1.59) इति योगाविभागाद्वा स्थानिवद्भावः इत्यपरे। कथं पुनरयमेषां कार्याणां क्रम उपलभ्यते? इत्यत आह - एकादेशात् इत्यादि। पा+अ इति स्थितेऽकः सवर्णे दीर्घत्वं (6.1.97) प्राप्नोति, औत्वञ्च। तत्रैकादेशः - दण्डाग्रमित्यादौ सावकाशः, औत्वं तु न क्वचित्? सावकाशम्; अतस्तावदनवकाशत्वात्? प्रागौत्वं क्रियते, ततर कृते वृद्धिः प्रापनोति, द्ववचनञ्च, तत्र परत्वाद्वृद्धिर्भवति। द्विवचनं हि - पपाचेत्यादौ सावकाशम्, वृद्धेस्त्ववकाशः - खट्वैडकेत्यादौ। अतो वृद्धौ कृतायां पश्चाद्भवति द्विर्वचनं स्थानिवद्भावेन!`णलः` इति। णकारोच्चारणं प्रत्ययग्रहणं यथा स्यात्। णलो णकारोच्चारणे हि णल्प्रत्ययोऽस्तीति तस्य ग्रहणं भवति। तस्मश्चासत्यल इत्युच्यमाने सत्यल्प्रत्ययस्याभावात्? प्रत्याहारग्रहणं विज्ञायेत। लकारोच्चारणं श्याद्व्यध (3.1.141) इत्यादिना विहितस्य णप्रत्ययस्य ग्रहणं मा भूदित्येवमर्थम्। अथ एकवचनस्य (7.1.32) इत्यनुवर्तते? तथा सति मुखसुखार्थम्॥

Prakriyasarvasvam

आदन्ताद्धातोर्णल औ स्यात् । ‘वृद्धिरेचि’ । दधौ । धा अतुः२ आल्लोपे कृते द्विरुक्तिश्चङ्खत् । दधतुः । दधुः । भारद्वाजनियमात् वेट्३ । इट्याल्लोपः । दधाथ दधिथ दधथुः दध, दधौ । दधिव । कर्मणि दधे दधाते दधिरे । दधिषे । दधिध्वे । दधे । दधिवहे । आशिषि ।

Sutra Prayogas

  • आयोधने (भट्टिकाव्यम्): जल आत औ णलः इति णल्।