71038: क्त्वाऽपि छन्दसि

Padacheda: क्त्वा | S | | | 1

अपि | S | 0 | 0 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) the क्त्वा also, as well as ल्यप् is substituted for क्त्वा after an indeclinable compound, other than one preceded by the Negative नञ् ।

Vasu English Translation

In the छन्दस् (Vedas) the क्त्वा also, as well as ल्यप् is substituted for क्त्वा after an indeclinable compound, other than one preceded by the Negative नञ् । Thus कृष्णं वासो यजमानं परिधापयित्वा, प्रत्यञ्चर्मकं प्रत्यर्थयित्वा ॥ So also we have ल्यप्, as उद्धृत्य जुहोति ॥ The sutra could have been made shorter by saying merely वा छन्दसि; not doing so indicates that conditions and limitations are set aside in the Vedas in applying this affix. Therefore ल्यप् is applied even when there is no compound, as, अर्च्य तान् देवान् गतः ॥ The word छन्दसि governs the following sutras upto (7.1.50), inclusive.

Kashika

समासेऽनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति, अपिशब्दाल्ल्यबपि भवति छन्दसि विषये। कृष्णं॑ वा॑सो य॑जमानं परिधापयित्वा (काठ०सं०११.१०)। प्र॒त्यञ्च॑म॒र्कं प्॑रत्यर्पयि॒त्वा (शौ०सं० १२.२.५५)। ल्यबपि भवति — उद्धृत्य जुहुयात् (काठ०सं०६.६)। वा छन्दसीति नोक्तं सर्वोपाधिव्यभिचारार्थम्। तेनासमासे ल्यब् भवति। अर्च्य तान् देवान् गतः। छन्दोऽधिकार आज्जसेरसुक् (७.१.५०) इति यावत्॥

Siddhanta Kaumudi

यजमानं परिधापयित्वा ॥

Padamanjari

अपिशब्दाल्ल्यबपीति । स च समासेऽसमासे च भवति, अप्राप्तिविषये ल्यपः प्रापणार्थत्वादपिशब्दस्य, अन्यथा वा च्छन्दसि इत्येव वाच्यं स्यात्, तथा च छन्दोविधानमुनवदधानाः कल्पसूत्रकारा अपि प्रयुञ्जते - आज्येनाक्षिणी अज्येत्यादि ॥

Nyaas

परिधापयित्वा, प्रत्यर्ययित्वा इति। दधातेः, अर्तेश्च हेतुमण्णिच्, अर्त्तिह्यी (7.3.36) इत्यादिना पुक्? पुगन्तलघूपपधस्य (7.3.86) इति गुणः, क्त्वा, इट्? अयादेशः। उद्धृत्य इति। ह्मञ्? हरणे (धातुपाठः-899), झयो होऽन्यतरस्याम् (8.4.62) इति हकारस्य धकारः। वा छन्दसि इति। वक्तव्ये क्त्वापि छन्दसि इति। वचनमसमासेऽपि यथा स्यात् - अच्र्य तान्? देवान्? गत इति॥

Prakriyasarvasvam

ल्यब्विषये क्त्वा ल्यबपि स्यात् । यजमानं परिधापयित्वा । आदाय श्येनः इति ल्यप् ।