71037: समासेऽनञ्पूर्वे क्त्वो ल्यप्

Padacheda: समासे | S | 7 | 1 |

अनञ्पूर्वे | S | 7 | 1 |

क्त्वः | S | 6 | 1 |

ल्यप् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In a compound, the first member of which is an indeclinable but not नञ् ; ल्यप् is substituted for क्त्वा।

Vasu English Translation

In a compound, the first member of which is an indeclinable but not नञ् ; ल्यप् is substituted for क्त्वा। Thus प्रकृत्य, प्रह्रत्य ॥ The tva is added by (3.4.21), the compounding is by (2.2.18), and तुक् by (6.1.71). पार्स्वतः कृत्य, The tva is added by (3.4.61). and compounding is by (2.2.22). नानाकृत्य; द्विधाकृत्य The tva is added by (3.4.62). Why do we say ‘in a compound’? Observe कृत्वा हुत्वा. Here the counter example is हृत्वा, which is preceded by an Indeclinable कृत्वा, but as it is not compounded, there is no substitution. Why do we say ‘not preceded by नञ्’? Observe अकृत्वा, अहृत्वा, परमकृत्वा, उत्तमकृत्वा ॥ The word अनञ् means ‘other than नञ्’, and means words of the same class as नञ्, i. e. Indeclinables : and does not mean words which are not Indeclinables. The compounds like स्नात्वाकालक contained in the class of मयूरव्यंसक &c (2.1.72), do not take ल्यप anomalously. Or the word समासे is in the Locative with the force of specification : and means those compounds which are specifically formed with क्त्वा and not any compound in general.

Now by the rule (1.1.72), ktva would denote a form ending with ktva; and would include the case of a compound ending in ktva. But this general rule is modified by the maxim प्रत्ययग्रहणे यस्मात् स विहित स्तदादेस्तदन्तस्य ग्रहणम् “an affix denotes, whenever it is employed in grammar, a word-form which begins with that to which that affix has been added and ends with the affix itself.” But the affix ktva is never ordained after a compound. Therefore, the case of compounds ending in ktva, would not be covered by the mere employment of ktva. Then comes the imaxim कृद्ग्रहणे गति कारक पूर्वस्यापि ग्रहणं ‘a krit affix denotes whenever it is employed in grammar, a word-form which begins with that to which that krit affix has been added and which ends with the krit affix, but moreover should a gati, or a noun such as denotes a case-relation have been prefixed to that word-form, then the krit affix must denote the same word-form together with the gati or the noun which may have been prefixed to it.” By this a compound also may end in ktva. This maxim will cover cases like प्रकृत्य, पार्श्वतः कृत्य but not उच्चैः कृत्य &c because उच्चैः is neither a gati nor a karaka. Hence the employment of the word समासे in the sutra, and also of the word अनञ्पूर्वे, for नञ् is neither a Gati nor a Karaka.

In the case of प्रधाय and प्रस्थाय this maxim applies :-अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यप् बाधते “a Bahiranga substitution of ल्यप् supersedes even antaranga rule”. What are these antaranga rules superseded by the substitute ल्यप्? (1) हित्वं - the substitution of हि for धा (7.4.42). Thus हित्वा but प्रधाय and not प्रहित्वा ॥ (2) दत्वं - the substitution of दद् for दो (7.4.46) — as दत्वा, but प्रदाय and not प्रदत्वा ॥ (3) आत्वं as required by (6.4.42): as खात्वा, प्रखाय and प्रखन्य ॥ (4) इत्वं - as स्थित्वा but प्रस्थाय ॥ (5) ईत्वं by (6.4.66), as पीत्वा but प्रपाय ॥ (6) दीर्घत्वं by (6.4.15), as शान्त्वा but प्रशम्य ॥ (7) शुट् by (6.4.19), as पृष्ट्वा but आपृच्छ्य ॥ (8) ऊठ् — as द्यूत्वा ॥ (9) इट् (7.2.56) — देवित्वा but प्रदीव्य ॥

Bhashya

समासेऽनञ्ञ्पूर्वे क्त्वो ल्यप ॥ ल्यबादेश उपदेशिवद्वचनम् ( -अनादिष्टार्थम् ) ॥ ल्यबादेशे उपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायां ल्यब्भवतीति वक्तव्यम् ॥ किं प्रयोजनम् ॥ अनादिष्टार्थम् । अकृतेष्वादेशेषु ल्यब्यथा स्यात् ॥ के पुनरादेशा उपदेशिवद्वचनं प्रयोजयन्ति ? ॥ हित्वदत्त्वात्त्वेत्वेत्त्वदीर्घत्वशूडिटः । हित्वं - हित्वा । प्रधाय । हित्वम् ॥ दत्त्वं - दत्वा । प्रदाय । दत्त्वम् ॥ आत्त्वं - खात्वा । प्रखन्य । आत्त्वम् ॥ इत्वं - स्थित्वा । प्रस्थाय । इत्वम् ॥ इर्त्त्वम् - पीत्वा । प्रपाय । इर्त्त्वम् ॥ दीर्घत्वं - शान्त्वा । प्रशम्य । दीर्घत्वम् ॥ श्(1) - पृष्ट्वा । आपृच्छ्य । श्(1) ॥ऊठ् - द्यूत्वा । प्रदीव्य ।ऊठ् ॥ इट् - देवित्वा । प्रदीव्य ( इट्(2) ) ॥ किं पुनः कारणमादेशास्तावद्भवन्ति न पुर्नल्यप्, ननु(3) परत्वाल्ल्यपा भवितव्यम् ॥ सन्ति चैवाऽत्र केचित्परे आदेशाः । अपि च - ॥ बहिरङ्गलक्षणत्वात् ॥ बहिरङ्गो ल्यप्, अन्तरङ्गा आदेशाः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ स तर्ह्युपदेशिवद्भावो वक्तव्यः ? ॥ न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति - अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते इति, यदयमदो जग्धिर्ल्यप्ति कितीतिति कितीत्येव सिद्धे ल्यब्ग्रहणं करोति ॥ ॥ स्नात्वाकालकादिषु च(1) प्रतिषेधः ॥ स्नात्वाकालकादिषु च प्रतिषेधो वक्तव्यः ।स्नात्वाकालकः । पीत्वास्थिरकः । भुक्त्वासुहितक इति ॥ ॥ तदन्तनिर्देशात्सिद्धम् ॥ तदन्तनिर्देशात्सिद्धमेतत् ॥ कथम्(2) ॥ क्तान्तस्य ल्यपा भवितव्यं न चैतत्क्तान्तम् ॥ समासनिपातनाद्वा ॥ अथ वाऽश्यमत्र समासार्थं निपातनं कर्तव्यन्तेनैव यत्नेन ल्यबपि न भविष्यति । ॥ अनञ्ञो वा परस्य ॥ अथ वाऽनञ्ञः परस्य ल्यपा भवितव्यं, न चात्राऽनञ्ञं पश्यामः ॥ ननु च धातुरेवाऽनञ्ञ ॥ न धातोः परस्य भवितव्यम् ॥ किं कारणम् ? ॥ नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः ॥ नञ्ञ्युक्तमिवयुक्तं चान्यस्मिंस्तत्सदृशे(1) कार्यं विज्ञायते(2) ॥ कुत एतत् ? ॥ ( ठतथा ह्यर्थगतिः(2) ) । तथा ह्यर्थो गम्यते । तद्यथा - अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशं पुरुषमानयति, नाऽसौ लोष्टमानीय कृती भवति । एवमिहाप्यनञ्ञिति नञ्ञ्प्रतिषेधादन्यस्मादनञ्ञो(4) नञ्ञ्सदृशात्कार्यं विज्ञास्यते ॥ किं चान्यदनञ्ञ्नञ्ञ्सदृशम् ? ॥ पद मित्याह । अथ वा प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीत्येवं धातुरपि क्त्वाग्रहणेन ग्राहिष्यते ॥ ननु चेयमपि परिभाषास्ति - कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति साऽपीहोपतिष्ठते ॥ तत्र को दोषः ? ॥ इह न स्यात् - प्रकृत्य । प्रहृत्य(1) । इह(2) तर्हि स्यात् - परममकृत्वा । उत्तमकृत्वा(3) । न वा अत्रेष्यते ॥ अनिष्टं च प्राप्नोति, इष्टं च न सिध्यति ॥ गतिकारकपूर्वस्यैवेष्यते ॥ कुतो नु खल्वेतद्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः प्रत्ययग्रहणे यस्मात्स (विहित)स्तदादेर्ग्रहणं भवति कृद्ग्रहणे गतिकारकपूर्वस्येति च; इयमिह परिभाषा भवति - प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति, इयं न भवति - कृद्ग्रहणे गतिकारकपूर्वस्यापीति ? ॥ आचार्यप्रवृतिर्ज्ञापयति - ःइयमिह परिभाषा भवति प्रत्ययग्रहणम्इति, इयं न भवति - कृद्ग्रहणइति, यदयमनञ्ञिति प्रतिषेधं शास्ति ॥ कथं कृत्वा ज्ञापकम् ? ॥ अयं हि नञ्ञ्न गतिर्न च कारकम्, तत्र कः प्रसङ्गो यन्नञ्ञ्पूर्वस्य स्यात् ? । पश्यति त्वाचार्य इयमिह परिभाषा भवति - प्रत्ययग्रहण इति,ःइयं न भवति कृद्ग्रहणइति - ततोऽनञ्ञिति प्रतिषेधं शास्ति ॥ ॥ किं नञ्ञः प्रतिषेधेन न गतिर्न च कारकम् । यावता नञ्ञि पूर्वे तु ल्यब्भावो न भविष्यति ॥ 1 ॥ प्रतिषेधात्तु जानीमस्तत्पूर्वं नेह गृह्यते । प्रत्ययग्रहणे यावत्तावद्भवितुमर्हति ॥ 2 ॥ ॥

Kashika

समासेऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यबित्ययमादेशो भवति। प्रकृत्य। प्रहृत्य। पार्श्वतः — कृत्य। नानाकृत्य। द्विधाकृत्य। समास इति किम्? कृत्वा। हृत्वा। अनञ्पूर्व इति किम्? अकृत्वा। अहृत्वा। परमकृत्वा। उत्तमकृत्वा। अनञिति हि नञोऽन्यदनञ् नञ्सदृशम् अव्ययं परिगृह्यते। तेन नञ् अनव्ययं चानञ् न भवति। स्नात्वाकालक इत्यादिषु मयूरव्यंसकादिषु (२.१.७२) निपातनाद् ल्यबादेशो न भवति। अथ वा समास इति निर्धारणे सप्तमी। तेन क्त्वान्तः समास एव परिगृह्यते। स च येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिना, न तु कृद्ग्रहणे गतिकारकपूर्वस्यापि० इति। तथा चानञ्पूर्व इत्युच्यते। गतिकारकपूर्वस्यैव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति, नञ् न गतिर्न च कारकमिति। प्रधाय, प्रस्थायेत्यादिषु हिप्रभृतीनन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते एवेति ज्ञापितम् एतत् (२.४.३६)॥

Siddhanta Kaumudi

अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पर्युदसाश्रयणान्नेह । परमकृत्वा ॥

Laghu Siddhanta Kaumudi

अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम्? अकृत्वा॥

Tattvabodhini

समासेऽनञ्पूर्वे क्त्वो ल्यप् - समासेऽनञ् । नञ्भिन्नं नञ्सदृशम् । अव्ययमिति यावत् । तत्पूर्वं पूर्वपदं यस्य समासस्येति व्याचष्टे — अव्ययेति । प्रकृत्येति । प्रशब्दः क्त्वाप्रत्ययार्थगतप्रकर्षस्य द्योकः, स तुकुगतिप्रादयः॑ इति क्त्वान्तेन नित्यं समस्यते । पर्युदासेति.प्रसज्यप्रतिषेधाश्रयणे तु स्यादेवात्र ल्यबिति भावः ।

Padamanjari

पूर्वशब्दोऽवयवचनः,, अनञ्पूर्वोऽवयवो यत्र समासे सोऽनञ्पूर्वः । प्रकृत्येति । समानकर्तुकयोः पूर्वकाले इति क्त्वा, कुगातिप्रादयः इति समासः, ल्यपि सति ह्रस्वस्य तुक् । पार्श्वतःकृत्येति । आद्यादित्वात्सप्तम्यन्तातसिः, स्वाङ्गे तस्प्रत्यये कृभ्वोः इति क्त्वा, तृतीयाप्रभृतीन्यन्यतरस्याम् क्त्वा चेति समासः । नानाकृत्य, द्विधाकृत्येति । नाधार्थप्रत्ययेच्व्यर्थे इति क्त्वा, पूर्ववत्समासः । अकृत्वा, अहृत्वेति । हृत्वेत्येतत्प्रत्यदारणम्, अत्र कृत्वाशब्दो नञ्सदृशः पूर्वोऽस्ति, समुदायस्तु समासो न भवति । परमकृत्वेति । सन्महन् इत्यादिना समासः, तुमर्थाधिकाराद्भावे क्त्वा प्रत्ययः । पारम्यमपि क्रियाया एव विशेषणमिति समानाधिकरण्यम् । कथं पुनरिदं प्रत्युदारहणम्, यावता भवत्येवायमनञ्पूर्वः समासः इत्यत आह- जनञिति हीति अनञ् इति पुर्युदासोऽयम्, तत्र नञिवयुक्तन्यायेन नञ्सदृशमव्ययं परिगृह्यते, तेन नञ् अनव्ययं च परमशब्दाकिमनञ् न भवति, तामेदादनव्ययत्वाच्च । स्नात्वाकलक इत्यादिष्विति । आदिशब्देन पीत्वास्थिरक इत्येवमादेर्ग्रहथणम्, यत्रोतरपदे क्रिया नोपादीयते तत्राध्याहृतक्रियापक्षेः क्त्वाप्रत्ययः । सापेक्षत्वेऽपि निपातनात्समासः । निपातनाल्ल्यबादेशो न भवतीति । न प्राकरणिकः समास एव तत्र निपात्यते, किं तर्हि यस्य लक्षणं नास्ति तत्सर्वमिति भावः । निर्धारणे सप्तमीति । जातावेकवचनम्, वचनव्यत्यो वा । समास एव निर्धार्यत इति । निर्धारणस्य तुल्यजातीयापेक्षत्वात् । कथं पुनः समासः क्त्वान्तो भवति, यावता प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहण्, न च समासात् क्त्वा विहितः अथ कृद्ग्रहणए गतिकारकपूर्वस्यापि ग्रहणात्समासस्य क्त्वान्ता एवमपि प्रकृत्य, पार्श्वतःकृत्येत्यादावेव स्यात्, उच्चैकृत्येत्येवमादौ तु न स्यात्, अगतित्वादकारकत्वाच्च इत्याशङ्क्याह - स चेति । तत्र निर्द्दिश्यमानस्यादेशा भवन्तीति क्त्वामात्रस्यैव ल्यब्भवति । ननु प्रत्ययविषये पूर्वेण परिभाषाद्वयेन तदन्तविधिव्यवस्था, न तु येन विधिस्तदन्तस्य इत्यनेन तत्राह - तथा चेति । कथं पुनरेतज्ज्ञापकम् इत्याह - गतिकारकपूर्वस्य त्विति । कथं नास्ति प्रसङ्गः इत्याह - नञ्न गतिरिति । अदो जग्धिर्ल्यप्ति किति इत्यत्र यदुक्तम् - जग्धौ सिद्धमन्तरङ्गत्वात् इत्यादि, तत्स्मारयति - प्रधाय, प्रस्थायत्येवमादिष्विति । के पुनरन्तरङ्गा विधयः हित्वदत्वात्वेत्वेत्वदीर्घत्वशूडिटः । हित्वम् दधातेर्हिः, हित्वा, प्रधाय। दत्वम् - दो दद्धोः, दत्वा, प्रदाय । आत्वम् - जन सनखनां सन्झलोः खात्वा, प्रखाय, प्रखन्य। इत्वम् - एद्यतिस्यतिमास्थामिति किति, स्थित्वा, प्रस्थाय । ईत्वम् - घुमास्थागापाजहातिसां हलि पीत्वा, प्रपाय। दीर्घत्वम् - अनुनासिकस्य क्विझलोः क्ङिति, शान्त्वा, प्रशम्य । शू - च्छवोः शूडनुनासिके च पृष्ट्वा, आपृच्छय । उठ - द्यौउत्वा । इट् - उदितो वा, देवित्वा, प्रदीव्य, अत्रेटि सति न क्त्वा सेट् इति कित्वप्रतिषेधाद् गुणः स्यात् । पूर्वग्रहणं किमर्थम्, अनञ् इत्येवोच्यमाने बहुव्रीहिः स्यात् - अविद्यमानो नञ् यस्मिन्नसावनञिति, तथा च स्त्रैणीकृत्येत्यत्रापि प्रतिषेधः स्यात् । पूर्वग्रहणे तु सति, तस्य नियतदेशावयववचनत्वान्नायं दोषः । लित्करणं प्रचिकीर्ष्येत्यत्र प्रत्ययात्पूर्वस्य स्वरार्थम् । प्रकृत्येत्यादौ तु धातुस्वरेणेव सिद्धम् । पित्करणं तुगर्थम् ॥

Nyaas

अनञ्पूर्वे इति। न नञ्? अनञ्? अनञ्? पूर्वो यस्य सोऽनञ्पूर्वः। प्रकृत्य इत्यादि। समानकर्त्तुकयोः पूर्वकाले (3.4.21) क्त्वा, कुगतिप्रादयः (2.2.18) इति समासः, ह्रस्वस्य पिति कृति तुक् (6.1.71) इति तुक्। पार्(ातःकृत्य इति। स्वाङ्गे तस्प्रत्यये कृभ्वोः (3.4.61) इति क्त्वा, `तृतीयाप्रभृतीन्यन्यतरस्याम् (2.2.210 इति समासः। नानाकृत्य इति। नाधार्थप्रत्यये च्व्यर्थे (3.4.62) इति क्त्वा, पूर्ववत्समासः। कृत्वा, ह्मत्वा इति। एतत् प्रत्युदाहरणम्। अत्र कृत्वाशब्दोऽनञ्पूर्वोऽस्ति; किन्तु समासो न भवतीति ल्यबभावः। परमकृत्वा, उत्तमकृत्वा इति। सन्प्रहत् (2.1.60) इत्यादिना समासः। कथं पुनरनेन समासः? कथञ्चं न स्यात्? सामानाधिकरण्याभावात्? वार्तमेतत्; कर्तरि क्त्वा विहितः, स एव च परमोत्तमशब्दाभ्यां विशिष्यते, तत्? कथं सामानाधिकरण्याभावः! अथ क्रियाविशेषणत्वं तयोराश्रित्य सामानाधिकरण्यभाव उच्यते, एवमपि विशेषणं विशेष्येण बहुलम् (2.1.57) इत्यतो बहुलग्रहणानुवृत्तेरसामानाधिकरण्येऽपि समासो भवति। ननु चानञ्पूर्वावेतौ समासौ, तत्? कथमेतत्प्रत्युदाहरणमुपपद्यते? इत्याह - अनञ् इत्यादि। अनञिति नायं प्रसज्येपरतिषेधः, किं तर्हि? पर्युदासः - नञोऽन्यदनञ्। तत्र नञिवयुक्तन्यायेन (व्या।प।65) नञो यदन्यन्नञ्सदृशमव्ययं तदनञिति परिगृह्रते। तेन कारणेन नञव्ययमनव्ययञ्च परमशब्दादिकमुभयमप्येतदनञ्? न भवति, न तत्राव्ययेन नञा सादृश्यमस्ति। अत्यन्ताभेदादनव्ययत्वाच्च यथाक्रमम्। तस्माद्? यथा अकृत्वा, अहत्वेत्येतत्? प्रत्युदाहरणमुपपन्नरूपम्, एवं परमकृत्वा, उत्तमकृत्वेयपि। यदि तर्हि अनञिति नञ्सदृशमध्ययं परिगृह्रते - स्नात्वाकालकः, पीत्वास्थिरक इत्यादावपि स्यात्, अस्ति ह्यत्रापि नञ्सदृशमध्ययं पूर्वपदम्; क्त्वाप्रत्ययस्याव्ययत्वादित्याह - स्नात्वाकालकः इत्यादि। मयूरव्यंसकादिषु समाससंज्ञार्थमेते समुदायाः पठन्ते, तस्मान्निपातनाल्ल्यबादेशो न भवति। अथ वा इत्यादि। समासे इत्यधिकरणसप्तम्यां सत्यां स्नात्वाकालकादिषु ल्यबादेशप्रसङ्गो भवतीति। तथा ह्रधिकरणसप्तम्यामयमर्थो भवति - समासेऽनञ्पूर्वे यः क्त्वा वर्तते तस्य ल्यब्भवति। एवञ्च सति देशविशेषपरिग्रहाभावाद्यथा समासस्यान्ते वर्तमानस्य क्त्वो ल्यब्भवति, तथा मध्येऽपि स्यात्। तस्मान्न चेयमधिकरणसप्तमी, किं तर्हि? निर्घारणसप्तमी। तस्मश्च पक्षे समासे इति जातावेकवचनम्, यथा - कारके (1.4.23) इति। अथ वा व्यत्ययो बहुलम् (3.1.85) इति सुब्व्यत्ययेन बहुवचनस्य स्थान एकवचनं वेदितव्यम्। तेन इत्यादि। यतो निर्धारण इयं सप्तमी, तेन क्त्वान्तः समास एव गृह्रते, न समासावयवः - स्नात्वेति। निर्घारणं हि समानजातीयस्यैव भवति, यथा - कृष्णा गवां सम्पन्नक्षीरतमेत्युक्ते गौरेव निर्धार्यमाणा प्रतीयते, तथाऽत्रापि समासोऽनञ्पूर्वे इत्युक्ते समासेष्वनञ्पूर्वेषु मद्ये यः क्त्वान्तः समासः स एव निर्धायमाणः प्रतीयते। तेन समासस्यैव क्त्वान्तस्य ग्रहणमिति तस्यैव ल्यबादेशेन भवितव्यम्, न च स्नात्वाकालकादिषु क्त्वान्तः समासः। स्नात्वाकालकादयो यद्यपि समासाः, न तु क्त्वान्ता इति ल्यबादेशो न भवति। स च समासः येन विधिस्तदन्तस्य (1.1.72) इति तदन्तविधिना क्त्वान्तो गृह्रते। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणेन (व्या।प।126) वा प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) तदन्तग्रहणं न शक्यते वक्तुम्। न हि क्त्वाप्रत्ययः समासादुत्पद्यते। तत्र यदि कृद्ग्रहणपरिभाषया (व्या।प।126) तदन्तो गृह्रते, नानाकृत्येत्यत्र न स्यात्; न ह्रयं गतिकारकपूर्वः। इहैव तु स्यात् - प्रकृत्य, पार्(ातःकृत्येति। असिति ह्यत्रापि गतिः कारकश्च पूर्वोऽवयवः, येन विधिस्तदन्तस्य (1.1.72) इत्यनेन तदन्तविधौ गम्यमाने सर्वत्र भवतीति मन्यमान आह - स च इत्यादि। अत्रैवोपपत्तिमाह - तथा च इत्यादि। यस्मात्? येन विधिस्तदन्तस्य (1.1.72) इत्यनेन क्त्वान्तः समासो गृह्रते, एवञ्च कृत्वा अनञ्पूर्वे इत्युच्यते। येन विधिस्तदन्तस्य (1.1.72) इत्यनेन क्त्वान्तः समासो गृह्रते, एवञ्च कृत्वा अनञ्पूर्वे, इत्युच्यते। **येन विधिस्तदन्तस्य** (1.1.72) इत्यनेन हि सामान्येन तदन्तविधौ सति नञ्पूर्वस्यापि प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थम्? `अनञ्पूर्वे इति युक्तमुक्तम्। यदि कृद्ग्रहणपरिभा,या (व्या।प।126) क्त्वान्तः समासो गृह्रते, तदा गतिकारकपूर्वस्यैव ग्रहणं स्यात्। एवञ्च गतिकारकपूर्वस्य ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति। नञ्? न गतिर्न च कारकम् इति। अतो हेतोर्यथैव परमकृत्वेत्यत्र प्रसङ्गो नास्ति, परमशब्दस्यागतित्वादकारकत्वाच्च्; तथाऽकृत्वेत्यत्रापि, नञोऽगतित्वादकारकत्वाच्च। ततश्च प्रसङ्गाभावात्? अनञ्पूर्वे इति न वक्तव्यं स्यात्, उक्तञ्च। तदेतस्मादनञ्पूर्व इति वचनात्? येन विधिस्तदन्तस्य (1.1.71) इत्यनेन क्त्वान्तः समासो गृह्रते, न तु कृद्गहणपरिभाषयेति स्थितमेतत्।`प्रधाय इति। अत्रान्तरङ्गत्वात्? दघातेर्हिः (7.4.42) इति हिः प्राप्नोति। प्रस्थाय इति - अत्रापि द्यतिस्यतिमास्थामित्ति किति (7.4.40) इतीत्त्वम्। प्रखन्य इति। जनसनखनाम् (6.4.42) इत्यात्त्वम्। प्रणभ्य इति। अनुनासिकस्य क्विझलोः क्ङिति (6.4.15) इति दीर्घः। आपृच्छ्य इति च्छ्वोः शूडनुनासिके च (6.4.19) इति शत्वम्। प्रतिदीव्य इति। तेनैवोट्। प्रपठ इति। आर्थधातुकस्येङ् वलादेः (7.2.35) इतीट्। अन्तरङ्गत्वं पनरेषामेकपदाश्रयत्वात्। ल्यबादेशस्य तु बहिरह्गत्वम्, समर्थानेकपदाश्रयसमासापेक्षत्वात्। हिप्रभृतिषु कृतेषु प्रधायेत्यादीनि रूपाणि न सिध्यन्ति? इति यश्चोदयेत्, तं प्रत्याह - प्रधाय इत्यादि। ज्ञापितमेतत् इति। अदो जग्घिर्ल्यप्ति किति (2.4.36) इत्यत्र। अथ पूर्वग्रहणं किमर्थम्। नानञोत्येवमुच्येत? नैवं शक्यम्; अनञोत्युच्यमाने बहुव्रीहिरयं स्यात् - अविद्यमानो नञ्? यत्रासावनञिति। ततश्चेहापि न स्यात् - स्त्रैणीकृत्येति। स्त्रिया इदं स्त्रैणम्, स्त्रीपुंसाभ्यां,नञ्स्नञौ भवनात् (4.1.87) इति नञ्। तदन्तात्? अभूततद्भावे (5.4.50) इत्यादिना च्विः, अस्य च्वौ (7.4.32) इतीत्त्वम्। कुगतिप्रादयः (2.2.18) इति समासः। पूर्वग्रहणे तु सति पूर्वशब्द आदिभूतावयवमाचष्टे। तेन यत्र समासादिभूतो नञ्? तत्र न ल्यपा भवितव्यम्, तत्र स्त्रैणीकृत्येत्यत्र भवत्येव। न ह्यत्र समासादिभूतो नञवयवः, किं त्रिह? मध्यभूतः। लित्करणम् - प्रतिकीष्र्येत्यत्र लित्प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। प्रकृत्येत्येवमादावृदात्तार्थं लित्करणं नोपपद्यते, धातुस्वरेणैव पूर्वस्योदात्तत्वं सिध्यति। तस्मादनेकाझवयव एव धार्लित्त्वं प्रयोजयति॥

Prakriyasarvasvam

अनञ् पूर्वे समासे क्त्वो ल्यबादेशः स्यात् । लः स्वरार्थः । पस्तुगर्थः । स्थानिवत्त्वेन कित्त्वादगुणः । तुक् । प्रहस्य । प्रकृत्य । इङोऽधिना सह सवर्णदीर्घः । क्त्वो ल्यप् । अधी य । अत्र दीर्घत्वात् तुगभावे प्राप्ते ॥

Sutra Prayogas

  • निर्याय (किरातार्जुनीयम्): समासेऽनञ्पूर्वे क्त्वो ल्यप् इति ल्यप्।

  • प्रोज्झ्य (किरातार्जुनीयम्): समासेऽनञ्पूर्वे क्त्वो ल्यप् इति ल्यप्-प्रत्ययः।

  • अकृत्वा (शिशुपालवधम्): अनञ्पूर्वः (समासेऽनञ्पूर्वे क्त्वो ल्यप्) इति निषेधात् समासेऽपि न ल्यबादेशः।

  • समपेत्य (शिशुपालवधम्): समासेऽनञ्पूर्वे क्त्वो ल्यप् इति क्त्वाप्रत्ययस्य ल्यबादेशः।