71026: नेतराच्छन्दसि¶
Padacheda: न | S | 0 | 0 |
इतरात् | S | 5 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
नपुंसकलिङ्गवाचिनः इतर-शब्दात् परस्य सुँ/अम्-प्रत्यययोः वेदानां विषये अद्ड्-आदेशः न भवति ।
अद्ड् डतरादिभ्यः पञ्चभ्यः (7.1.25) इत्यनेन इतर-शब्दात् परस्य सुँ / अम् -प्रत्यययोः अद्ड् आदेशः उच्यते । वेदानां विषये अयमादेशः न भवति । यथा - ‘वार्त्रघ्नम् इतरम्’ अयम् छान्दसः प्रयोगः। अत्र ‘इतर + अम्’ इत्यत्र अतोऽम् (7.1.24) इत्यनेन अम्-आदेशं कृत्वा रूपं सिद्ध्यति ।
Sutrartha (English)¶
In case of Vedas - The सुँ and अम् प्रत्यय occurring after the नपुंसकलिङ्गवाची ‘इतर’ शब्द do not get the अद्ड्-आदेशः ।
Vasu English Summary¶
In the छन्दस् (Vedas) अत् (or अद्) is not the substitute of सु and अम् Nominative 1st-Case and Accusative -2nd case endings after इतर।
Vasu English Translation¶
In the छन्दस् (Vedas) अत् (or अद्) is not the substitute of सु and अम् Nominative 1st-Case and Accusative -2nd case endings after इतर। As इतरमितरमण्डमजायत; वार्त्रघ्नमितरम् ॥ Why in the Vedas? See इतरत् काष्ठम्, इतरत् कुड्यम् ॥ Had this sutra been placed immediately after अतोऽम् (7.1.24), we could have made it simpler by saying इतराच्छन्दसि; the present position of the sutra indicates that we should divide it into two, to include other cases. In the case of एकतर, the अदड् substitution does not take place, either in the Veda or in the Common Language. As एकतरं तिष्ठति, एकतरं पश्य ॥
Bhashya¶
नेतराच्छन्दसि ॥ इतराच्छन्दसि प्रतिषेधे एकतरात्सर्वत्र ॥ इतराच्छन्दसि प्रतिषेधे एकतरात्सर्वत्रेति वक्तव्यम् । एकतरं तिष्ठति । एकतरं पश्य ॥ ॥ नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेन ॥ नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा भवन्ति विप्रतिषेधेन । नपुंसकादेशानामवकाशः - त्रपु त्रपुणी त्रपूणि। युष्मदस्मदोर्विभक्त्यादेशानामवकाशः - त्वं ब्राह्मणः, अहं ब्राह्मणः, युवां ब्राह्मणौ, यूयं ब्राह्मणाः, वयं ब्राह्मणाः । इहोभयं प्राप्नोति - त्वं ब्राह्मणकुलमहं ब्राह्मणकुलम् । युवां ब्राह्मणकुले आवां ब्राह्मणकुले । यूयं ब्राह्मणकुलानि, वयं ब्राह्मणकुलानि । युष्मदस्मदोर्विभक्त्यादेशा भवन्ति विप्रतिषेधेन ॥ अथेदानीं युष्मदस्मदेर्विभक्त्यादेशेषु कृतेषु पुनः प्रसङ्गाच्छिशीलुङनुम्विधयः कस्मान्न भवन्ति ? ॥ सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव ॥ - इति(1) ॥
Kashika¶
इतरशब्दादुत्तरयोः स्वमोश्छन्दसि विषयेऽद्डादेशो न भवति। मृ॒त॑मि॑त॒रमा॒ण्ड॑म॑वा॒पद्यत॒ (मै०सं० १.६.१२)। वार्त्रघ्नमितरम्। छन्दसीति किम्? इतरत् काष्ठम्। इतरत् कुड्यम्। अतोऽम् (७.१.२४) इत्यस्मादनन्तरमितराच्छन्दसीति वक्तव्ये नेतराच्छन्दसीति वचनं योगविभागार्थम्। एकतराद्धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते। एकतरं तिष्ठति, एकतरं पश्येति॥
Siddhanta Kaumudi¶
स्वमोरदड् न । वार्त्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् । समासेऽनञ्पूर्वे क्त्वो ल्यप् (SK3332) ॥
Padamanjari¶
अतोऽमित्यस्यानन्तरमेवेति । अमादेश एवाद्डादेशस्यापवादो भविष्यति, ततश्च न इति वक्तव्यं न भवतीति भावः ॥
Nyaas¶
पूर्वेणाद्डादेशस्य प्रसकतस्यायं प्रतिषेधः। अथ अतोऽम् (7.1.24) इत्यस्यानन्तरं ` इतराच्छन्दसि` इति कस्मान्नोक्तम्, एवं हि नेति प्रतिषेधः कर्तव्यो न भवति, अमादेशोऽद्डादेशस्यापवादो भविष्यति? इत्याह - अतोऽमित्यस्मादनन्तरम् इत्यादि। योगविभागार्थम् इति। नेत्येकयोगविभागो यथा स्यादिति। किमर्थं पुनर्योगविभाग इष्यते? इत्याह - एकतराद्धि इत्यादि। एकशब्दाद्धि सर्वत्र प्रतिषेध इष्यते, स च नेति योगविभागाल्लभ्यते। तस्माद्योगविभाग इष्यते। स च यथान्यासे सिध्यति; नान्यथेति नेतराच्छन्दसि इत्युच्यते॥
Prakriyasarvasvam¶
क्लीबादितरात् स्वमोरड्डादेशो न स्यात् । वातंन्नमितरम् ।
Vartika¶
एकतरात्प्रतिषेधो वक्तव्यः ।