71035: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्

Padacheda: तु-ह्योः | S | 6 | 2 |

तातङ् | S | 1 | 1 |

आशिषि | S | 7 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha

आशीषि विषये लोट्-लकारस्य तु/हि प्रत्यययोः विकल्पेन तातङ्-आदेशः भवति ।

‘आशीः’ इत्युक्ते ‘अप्राप्तस्य इच्छा’. आशिषि लिङ्लोटौ (3.3.173) अनेन सूत्रेण लिङ्-लकारस्य लोट्-लकारस्य च ‘आशिषि’ अर्थे अपि प्रयोगः भवति । अस्मिन् अर्थे लोट्-लकारस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य ‘तु’ प्रत्ययस्य तथा च मध्यमपुरुषैकवचनस्य ‘हि’ प्रत्ययस्य विकल्पेन ‘तातङ्’ आदेशः भवति । अस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, अकारश्च उच्चारणार्थः अस्ति । उदाहरणानि एतानि - 1) भ्वादिगणस्य पठ्-धातोः लोट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया - पठ् + लोट् [आशिषि लिङ्लोटौ (3.3.173) इति लोट्] → पठ् + तिप् [तिप्तस्.. (3.4.78) इत्यनेन परस्मैपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → पठ् + शप् + ति [कर्तरि शप् (3.1.68) इति शप् ] → पठ् + अ + तु [एरुः (3.4.86) इति इकारस्य एकारः] → पठ् + अ + तातङ् [तुह्योस्तातङाशिष्यन्यतरस्याम् इत्यनेन तु-इत्यस्य वैकल्पिकः ‘तातङ्’ आदेशः ।] → पठतात् । तातङ्-आदेशस्य अभावे ‘तु’ इत्यस्मिन् परे ‘पठतु’ इति रूपं अपि जायते । 2. स्वादिगणस्य आप्-धातोः लोट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया - आप् + लोट् [आशिषि लिङ्लोटौ (3.3.173) इति लोट्] → आप् + तिप् [तिप्तस्.. (3.4.78) इत्यनेन परस्मैपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → आप् + श्नु + ति [स्वादिभ्यः श्नुः (3.1.73) इति शप् ] → आप् + नु + तु [एरुः (3.4.86) इति इकारस्य एकारः] → आप् + नु + तातङ् [तुह्योस्तातङाशिष्यन्यतरस्याम् इत्यनेन तु-इत्यस्य वैकल्पिकः ‘तातङ्’ आदेशः ।] → आप्नुतात् । तातङ्-आदेशस्य अभावे ‘तु’ इत्यस्मिन् प्रत्यये परे अङ्गस्य सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन गुणं कृत्वा ‘आप्नोतु’ इति रूपमपि सिद्ध्यति । 3) अदादिगणस्य ब्रू-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया - ब्रू + लोट् [आशिषि लिङ्लोटौ (3.3.173) इति लोट्] → ब्रू + सिप् [तिप्तस्.. (3.4.78) इत्यनेन परस्मैपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः] → ब्रू + शप् + सि [कर्तरि शप् (3.1.68) इति शप् ] → ब्रू + सि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → ब्रू + हि [सेर्ह्यपिच्च (3.4.87) इति सिप्-प्रत्ययस्य हि-आदेशः] → ब्रू + तातङ् [तुह्योस्तातङाशिष्यन्यतरस्याम् इत्यनेन तु-इत्यस्य वैकल्पिकः ‘तातङ्’ आदेशः ।] → ब्रूतात् तातङ्-आदेशस्य अभावे ‘तु’ इत्यस्मिन् परे ‘ब्रूहि’ इति रूपं अपि जायते । ज्ञातव्यम् - 1. ‘तातङ्’ अस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, अतः अयमादेशः ‘ङित्’ अस्ति । अत्र ङकारस्य प्रयोजनमस्ति पित्वनिवृत्तिः । इत्युक्ते, मूलः तिप्-प्रत्ययः पित्-अस्ति, अतः सः अङ्गस्य गुणवृद्धिं तथा अन्यानि अपि पित्-विशिष्टानि कार्याणि कारयति । ‘तात्’ प्रत्यये अपि स्थानिवद्भावेन पित्वे प्राप्ते एतानि कार्याणि प्रसजन्ति । एतानि सर्वाणि तात्-प्रत्ययस्य विषये मा भूत्, एतत् स्पष्टीकर्तुमत्र ङकारस्य नियोजनं क्रियते । ** ङिच्च पित् न, पिच्च ङित् न ** अनया उक्त्या ङकारस्य उपस्थितिः स्थानिवद्भावेन प्राप्तस्य पित्वस्य निवृत्तिम् करोति । अतः तातङ्-प्रत्यये परे कान्यपि पित्-विशिष्टानि कार्याणि न भवन्ति (यथा - सार्वधातुकमपित् (1.2.4) इत्यनेन गुणवृद्धीः, ब्रुवः ईट् (7.3.94) इत्यनेन ब्रू-इत्यस्य ईट्-आदेशः - आदयः) । 2. अस्मिन् आदेशे ङित्वकरणमन्त्यादेशार्थम् नास्ति, केवलं पित्-निवृत्यर्थम् एव अस्ति । अतः अयमादेशः अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन सर्वादेशरूपेणैव आगच्छति । 3. एतत् सूत्रम् अतो हेः (6.4.105) इत्यस्य अपवादरूपेण आगच्छति । अदन्तात् अङ्गात् परस्य हि-प्रत्ययस्य अतो हेः (6.4.105) इत्यनेन लुक्-प्राप्ते अपवादत्वेन वर्तमानसूत्रेण तातङ्-आदेशः विधीयते । 4. अस्य सूत्रस्य प्रयोगः केवलं ‘आशीः’ (= अप्राप्तस्य इच्छा) अस्मिन् अर्थे एव भवति, विधिनिमन्त्रणादिषु अन्येषु अर्थेषु न । विशेषः - अस्मिन् सूत्रे ‘तातङ् + आशिषि’ इत्यत्र ङमो ह्रस्वादचि ङमुण् नित्यम् (8.3.32) इत्यनेन आकारस्य ङुट्-आगमं कृत्वा ‘तातङ्ङाशिषि’ इति सिद्ध्यति, अतः सूत्रे ङकारः द्विवारः प्रयुक्तः दृश्यते ।

Sutrartha (English)

When the लोट्-लकार is used to express the ‘desire of unattainable’, the तु and हि प्रत्यय are optionally converted to तातङ्.

Vasu English Summary

तातङ् is optionally substituted for the affixes तु and हि of the Imperative, when Benediction is meant.

Vasu English Translation

तातङ् is optionally substituted for the affixes तु and हि of the Imperative, when Benediction is meant. As जीवताद् भवान्, जीवतात् त्वम्, जीवतु भवान्, जीव त्वम् ॥ The ङ् prevents Guna and Vriddhi, (1.1.4), and the substitute replaces the whole affix ((1.1.53) notwithstanding). The substitute is not sthanivat पित्, though it replaces a पित् affix, because it has its own indicatory letter ङ्, and ङित् does not become पित्; and consequently in ब्रूतात् ई is not added to the affix, by (7.3.93). ई being added only to पित् affixes after ब्रू ॥ When not denoting benediction, we have not this substitution : as ग्रामं गच्छतु भवान् or गच्छ ग्रामम् ॥

The affix तातङ् being a substitute of हि, is like हि, and, therefore, rules propounded with regard to हि, will apply to तातङ् also. Thus (6.4.105) says that after stems ending in short अ, the हि is elided: therefore, after such words तातङ् should also be elided. Therefore we cannot get the form जीवतात् त्वम् for जीवत्वम् ॥ This objection, however, is futile; for, in the sutra अतो हे (V1.4. 105), there is the anuvritti of हि from sutra (6.4.101) (हु झलभ्यो हेर्द्धिः) ॥ So that अतो हे should be construed as meaning “there is the elision of हि when it is of the form हि, and not when it assumes the form तातङ्” ॥

The object of ङ् in तातङ् is, as we have said above, for the sake of preventing Guna and Vriddhi. It should not be said that the object of ङ् in तातङ् is for the sake of अन्त्यविधिः by the application of sutra ङिच्च (1.1. 53), just as the substitutes अनङ् &c (7.1.93) and (7.1.94) apply to the finals. For by so doing, तातङ् would replace only the उ of तु and the इ of हि, which is not desired. And the case of तातङ् is to be distinguished from अनङ्, for in अनङ् the ङ् has no other object but to prevent sarvadesa; but in तातङ् we see that ङ् has another object, namely, the prevention of Guna and Vriddhi ; and ङ् having thus found scope, the तातङ् substitute will be governed by the general rule अनेकाल् शित् सर्वस्य (1.1.55).

The Karika given below raises these points.

Karika :-

तातङि ङित्त्वं संक्रमकृत्स्यादन्त्यविधिश्चेत्तच्च तथा न । हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह ॥ तातङो ङित्त्वसामर्थ्यान्नायमन्त्यविधिः स्मृतः । न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः ॥

Karika:- In तातङ् the ङ् is for the sake of preventing Guna and Vriddhi (संक्रम = गुणवृद्धिप्रतिषेधः)॥ If it be said, it is for the sake of अन्त्यविधि by (1.1.53); we say it is not so. (If you say that after roots ending in short अ, तात् should be elided, by (6.4.105) read with (1.1.56), we reply): when the anuvritti or adhikara of हि was already existent in the sutra (6.4.105) from sutra (6.4.101), the express employment of हि in (6.4.105), indicates that the lopa rule does not apply to तातङ् ॥ (The lopa-rule not applying to तातङ्, it follows that it replaces the whole of हि and not only its final). The ङ् in तातङ् finds its scope in preventing Guna and Vriddhi, therefore, it is not for the sake of antya vidhi (1.1.53). The ङित्व in अनङ् &c has no other scope, therefore, these substitutes replace the final only.

Kashika

तु हि इत्येतयोराशिषि विषये तातङादेशो भवत्यन्यतरस्याम्। जीवताद् भवान्। जीवतात् त्वम्। जीवतु भवान्। जीव त्वम्। ङित्करणं गुणवृद्धिप्रतिषेधार्थमिति सर्वादेशस्तातङ् भवति। ङित्त्वात् चास्य स्थानिवद्भावाद् यत् पित्त्वं प्राप्नोति तद् निवर्तते। ङित् च पिद् न भवति। तेन ब्रुव ईट् (७.३.९३) इति ब्रूताद् भवानितीड् न भवति। आशिषीति किम् ? ग्रामं गच्छतु भवान्। गच्छ त्वम्॥

तातङि ङित्त्वं संक्रमकृत् स्यादन्त्यविधिश्चेत् तच्च तथा न।

हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह ॥ १॥

तातङो ङित्त्वसामर्थ्याद् नायमन्त्यविधिः स्मृतः।

न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः ॥२॥

Siddhanta Kaumudi

आशिषि तुह्योस्तातङ् वा स्यात् । अनेकाल्त्वात्सर्वादेशः । यद्यपि ङिच्च-(SK43) इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥

Laghu Siddhanta Kaumudi

आशिषि तुह्योस्तातङ् वा। परत्वात्सर्वादेशः। भवतात्॥

Balamanorama

तुह्योस्तातङाशिष्यन्यतरस्याम् - अथाऽऽशिषि लोटो विशेषमाह -तुह्रोस्तातङ् । तुश्च हिश्च तुही, तयोरिति विग्रहः । तातङि ङकार इत् । अकार उच्चारणार्थः । तादित्यादेशः शिष्यते । ननु किमस्य अनेकाल्त्वात्सर्वादेशता,उत ङित्त्वादन्तादेशतेत्यत आह — अनेकाल्त्वात्सर्वादेश इति । ननुङिच्चे॑त्यस्य सर्वादेशापवादतयाऽनङादेरिव तातङोऽप्यन्त्यादेशत्वमेवोचतमित्याशङ्कते — यद्यपीति । परिहरति — तथापीति । परेण बाध्यत इति । तातङादेशेङिच्चे॑त्ययं विधिःअनेकाल्शित्सर्वस्ये॑ति परेण बाध्यत इत्यर्थः । ननुपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय॑ इति परापेक्षया अपवादस्य प्रबलत्वान्ङिच्चेत्यन्तादेशत्वमेव तातङि युक्तमित्यत आह — मन्थरं प्रवृत्त इति ।ङिच्चेति विधि॑रिति शेषः । तातङ्विषये ङिच्चेति विधिर्मन्थरं प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः । कुतो मन्दप्रवृत्तिकत्वमित्यत आह — अनन्यार्थेत्यादिना । अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते तदनन्यार्थम् । तथाविधं ङित्त्वं येषां तेषु अनङादिषु ङिच्चेति विधिश्चरितार्थः — लब्धप्रयोजनक-इति कृत्वा मन्दं प्रवृत्त इत्यर्थः । तातङो ङित्त्वं तु अन्तादेशत्वापेक्षयाऽनन्यार्थं नेत्याह — सम्भवत्प्रयोजनङकारे इति । सम्भवन्ति प्रयोजनानि अन्तानि यस्य स सम्भवत्प्रयोजनः, तथाविधो ङकारो यस्य तथाविधे तातङीत्यर्थ- । कथं सम्भवत्प्रयोजनकत्वमित्यत आह — गुणवृद्धिप्रतिषेध-सम्प्रसारणाद्यर्थतयेति । द्विष्टादित्यादौ लघूपधादिगुणनिषेधः । स्तुतात्,युतादित्यादा॑वुतो वृद्धिर्लुक हली॑ति विहिताया वृद्धेर्निषेधः । ‘वश कान्तौ’ उष्टादित्यत्रग्रहिज्यावयी॑ति सम्प्रसारणम् । आदिना ब्राऊतादित्यत्रब्राउव ई॑डितीटोऽभावस्य सङ्ग्रहः । ननु तातङ्विषये ङिच्चेति विधिर्मन्दं प्रवर्तताम्, अथापिपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय॑ इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन ङिच्चेत्यनेन बाध एवोचित इत्यत आह — इहेति । इह = तातङ्विषये अनेकाल्शित्सर्वस्येति सामान्यशास्त्रस्य, ङिच्चेति विशेषशास्त्रस्य च समबलत्वात्सामान्यशास्त्रं विशेषशास्त्रेम न बाध्यत इत्यर्थः । अयं भावः — अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् । प्रकृते च ङिच्चेति विधिरनङादिङित्तवमन्तादेशत्वैकप्रयोजनकं प्रयोजनान्तरविरहेण निरवकाशत्वाज्झटिति परिगृह्णन्तकृतार्थतामनुभवन्, तातङो ङित्त्वं प्रयोजनान्तरसत्त्वेन सावकाशत्वादुपेक्षत इति । तदुक्तं भाष्ये — ङित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातङ्सर्वादेश॑ इति । अधिकास्तु विस्तरभिया विरम्यते । भवतादिति । आशिषि लोटस्तिपि शपि गुणे अवादेशे उकारे तोस्तातङ्सर्वादेशः । ङकार इत् । द्वितीयतकारादकार उच्चारणार्थः ।

Tattvabodhini

तुह्योस्तातङाशिष्यन्यतरस्याम् - यद्यपितिह्रोस्तात॑ङिति वक्तुं शक्यं, तथापि लाघवाऽभावादतिप्रसङ्गवारणाय हिशब्दसाहर्याश्रयणे लोट् इत्यनुवर्तमाने वा गौरवाच्च तुह्रोरित्युक्तम् ।

Padamanjari

जीवतात्वमिति । अत्र स्थानिवद्भावेन तातङे हिग्रहणेन ग्रहणाद् अतो हेः इति लुक् प्राप्नोति नैष दोषः हुझल्भ्यो हेर्धिः, इत्यनुवर्तमाने पुनः अतो हेः इति हिग्रहणम् - हिरेव यो हिस्तस्य यथा स्यात्, स्थानिवद्भावेन यो हिस्तस्य माभूदित्येवमर्थम् । ङ्त्किरणमित्यादि । यद्यपि सर्वादेशतायाः प्राग्गुणवृद्धिप्रतिषेधार्थत्वमनिश्चतम्, तथापि सर्वादेशत्वेऽपि ङ्त्विस्य प्रयोजनं तातङ् सिम्भवति, अनङदिषु तु नैव सर्वादेशत्वे प्रयोजनं सम्भवतीति तेष्वनन्यार्थङ्त्वेषु इङ्च्चि इत्येतत् सहसा प्रवर्तते, तातङ् तु प्रियोजनान्तरसम्भावनया कियानपि विलम्बो भवति । तेनास्मिन्विषये उत्सर्गापवादयोस्तुल्यकाला प्रवृत्तिरित्यपवादमपि ङ्च्चि इत्येतद्वाधित्वा अनेकाल्शित्सर्वस्य इत्येतदेव परत्वात्प्रवर्तत इति भावः । एतच्च ङ्च्चि इत्यत्र सम्यगुपपादितम् । तत्र ब्रूतादित्यादौ गुणप्रतिषेधः, मृष्टादित्यत्र वृद्धिप्रतिषेधः । ङ्त्वाच्चास्येइति । ननु च ङित्कार्यं भवतु, स्थानिवद्भावप्राप्तपित्वात्पित्कार्यमपि, को विरोधः अत आह - ङ्च्चि पिन्न भवतीति । वचनमिदम् सार्वधातुकमपित् इत्यत्र योगविभागेन कल्पितम् । ब्रुव ईडिति । उपलक्षणमेतत्, तृण्ढाद्भवान् इत्यत्र तृणह इम् न भवतीति । तातङ् इङ्त्विमित्यादि श्लोकद्वयं क्वचित्पठ।ल्ते । तातैङ् व्यवस्थितं ङ्त्विं संकमकृत्स्यात्, संक्रमो नाम - गुणवृद्धिप्रतिषेधः, अर्हार्थे लिङ्, गुणवृद्धिप्रतिषेधकृद्धवितुमर्हति । अन्त्यविधिश्चेत्, अन्त्यविधिहेतुत्वादन्त्यविधिर्ङ्त्विम् । करणसाधनो वा विधिशब्दः अन्त्यस्य यथा स्यादित्येवमर्थं चेत् ङ्त्विमित्यर्थः । निराकरोति - तच्च तथा न । चशब्दोऽवधारणे प्रतिषेधेन सम्बध्यते, तत् ङ्त्विं तथा सति नैव कर्तव्यम् । एरुः इत्यस्यानन्तरम् तुह्यएस्तादाशिषि इति वक्तव्यम्, एरुरित्येव, एवं सिद्धे ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमिति निश्चीयते । न च सर्वादेशतामन्तरेण तत् तत्प्रतिषेधार्थत्वं ङ्त्विस्योपपद्यत इति एसर्वादेशस्तातङ् भवति । ननु चान्त्यविधिश्चास्तु अवयवे कृतं लिङ्गम् इति न्यायेन गुणवृद्धिप्रतिषेधार्थश्चास्तु ङ्त्किरणसामर्थ्यादित्याशङ्क्य परिहारान्तरमाह - हेरधिकार इति । अतो हेः इत्यत्र लोपविधौ हुझल्भ्यो हेर्धिः इत्यतो हेरित्यधिकारे सत्येव तयोऽयं हेरित्यधिकारस्तं ज्ञापकमाह सूत्रकारः, तस्य ह्यएततप्रयोजनम् -स हिरेव यो हिस्तस्य यथा स्तात्, स्थानिवद्भावेन यो हिस्तस्य मा भूदिति । तच्च सर्वादेशत्वे सत्युपपद्यते । ननु च हिरेव यो हिस्तस्य यथा स्याद्विकृतो यो हिस्तस्य मा भूदित्यन्त्या देशत्वेऽपि तातङे हेरित्यधिकार उपपद्यत इत्यादशङ्क्य साक्षात्परिहारमाह - तातङे ङ्त्विसामर्थ्यादिति । ङ्त्विसामर्थ्यात्किलायमान्त्यविधिः स्यात्, तच्च सामर्थ्यं नास्ति, सर्वादेशत्वेऽपि प्रयोजनसम्भवात् । ततश्च पूर्वोक्तया रीत्या विप्रतिषेधात्सर्वादेश एव तातङ् भवति । अनङ् सौ तित्यादावनङदीनां नैवं ङ्त्विसामर्थ्याभावः, तेन तेऽन्त्यविकारदा जाताः ॥

Nyaas

जोवताद्भवान् इति। आशिषि लिङ्लोटौ (3.3.173) इति लोट्? तिप्, शप्? एरुः (3.4.86) इत्युत्वम्, तस्य तुशब्दस्य तातङ्। जीवतात्त्वम्` इति। सिप्, सेह्र्रपिच्च (3.4.87) इति हिरादेशः; तस्य तातङ्। जीव त्वम् इति। अतो हेः (6.4.105) इति हेर्लुक्। अथ जीवतात्? त्वमित्यत्र स्थानिवद्भावेन तातङो हिग्रहणेन ग्रहणाल्लुक्कस्मान्न भवति? हुझल्भ्यो हेर्घिः (6.4.101) इत्यतो हेरित्यनुवर्तमाने पुनः **अतो हेः** (6.4.105) इति ग्रहणात्। तस्य ह्रेतत्? प्रयोजनम् - हिरूपावस्थितस्यैव हेर्लुग्यथा स्यात्। स्थानिवद्भावेन यच्छब्दान्तरं हिग्रहणेन गृह्रते तस्य मा भूत्। अथ `ङिच्च (1.1.53) इति वचनात्? तातङ्यमन्त्यस्य कस्मान्न भवति? इत्याह - ङित्करणम् इत्यादि। गणप्रतिषेधार्थम् - ब्राऊयात्? भवानित्यत्र। वृद्धिप्रतिषेधार्थम् - मृष्टादित्यत्र। इतिकरणो हेतौ। यस्माद्गुणवृद्धिप्रतिषेधार्थं ङित्करणं तस्मात्सर्वादेशस्तातङ् भवति। यदि हि तस्यान्यत्? प्रयोजनं न स्यात्, स्यादेवान्त्यस्य तातङ्। अस्ति च तस्यान्यत्? प्रयोजनं गुणवृद्धिप्रतषेधः। तस्मिन्? सति किं ङिच्च (1.1.52) इत्यन्त्यस्य भवतु, अथ अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वस्य वा? तत्र परत्वात्? सर्वादेशेनैव युक्तं भवितुम्। तस्मात्? अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वस्य वा? तत्र परत्वात्? सर्दादेशेनैव युक्तं भवितुम्। तस्मात्? अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वस्यैव स्यादिति सर्वादेशो भवति। ननु च तुस्थानिकस्य तातङः स्थानिवदभावेन पित्त्वं प्राप्नोति; ततश्च हलि पिति सार्वधातुके यता ब्रावीत्वित्यत्रेङ् भवति, तथा ब्राऊताद्भवानित्यत्राणीटा भवितव्यम्? - एतच्चोद्यमपाकर्तमाह - ङित्त्वाच्च इत्यादि। अस्येति तातङः। किं कारणं निवर्तते? इत्याह - ङिच्च इत्यादि। चकारो हेतौ। तुस्थानिकस्य तातङो नाप्राप्ते पित्त्वे ङित्त्वमारभ्यत इति ङित्त्वेन हि पित्त्वं बाध्यते। तथासौ ङिद्भवत यदि स्थानिवद्भावेन प्राप्तं पित्त्वं निवर्तते। तेन इत्यादि। यत एवं पित्त्वं निवर्तते तेन पित्त्वाश्रय ईण्न भवति। ग्रामं गच्छतु भवान्। त्वं गच्छेति। लोट्? च (3.3.62) इति बिध्यादौ लोट्॥

Prakriyasarvasvam

आशिषि तुह्योः स्थाने वा तातङ्¹ स्यात्² । उक्त्यर्थोऽकारः । ङित्त्वं गुणनिषेधार्थम् । नान्तादेशार्थम् । भवतु, भवतात् ।

Sutra Prayogas

  • जयताज्जीव (शिशुपालवधम्): तुह्योस्तात आशिष्यन्यतरस्याम् इति तोस्तातङादेशः।

  • भवतादधियुक्ता (भट्टिकाव्यम्): तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् इति तातङ्।