Sutras 81 - 100¶
- 52081: कालप्रयोजनाद्रोगे
- 52082: तदस्मिन्नन्नं प्राये संज्ञायाम्
- 52083: कुल्माषादञ्
- 52084: श्रोत्रियंश्छन्दोऽधीते
- 52085: श्राद्धमनेन भुक्तमिनिठनौ
- 52086: पूर्वादिनिः
- 52087: सपूर्वाच्च
- 52088: इष्टादिभ्यश्च
- 52089: छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि
- 52090: अनुपद्यन्वेष्टा
- 52091: साक्षाद्द्रष्टरि संज्ञायाम्
- 52092: क्षेत्रियच् परक्षेत्रे चिकित्स्यः
- 52093: इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा
- 52094: तदस्यास्त्यस्मिन्निति मतुप्
- 52095: रसादिभ्यश्च
- 52096: प्राणिस्थादातो लजन्यतरस्याम्
- 52097: सिध्मादिभ्यश्च
- 52098: वत्सांसाभ्यां कामबले
- 52099: फेनादिलच् च
- 52100: लोमादिपामादिपिच्छादिभ्यः शनेलचः