52094: तदस्यास्त्यस्मिन्निति मतुप्

Padacheda: तत् | S | 1 | 1 |

अस्य | S | 6 | 1 |

अस्ति | T | | |

अस्मिन् | S | 7 | 1 |

इति | S | 0 | 0 |

मतुप् | S | 1 | 1 |

Sutrartha

‘अस्य’ तथा ‘अस्मिन्’ एतयोः अर्थयोः ‘अस्ति’ इत्यनेन निर्दिश्यमानात् प्रथमासमर्थात् मतुँप्-प्रत्ययः विधीयते ।

अस्मिन् सूत्रे द्वौ प्रत्ययार्थौ उच्येते - ‘अस्य’ तथा ‘अस्मिन्’ । यत्र प्रकृतिः ‘अस्ति’ इत्यनेन निर्दिश्यते, तद्वाचिनः प्रथमासमर्थात् शब्दात् वर्तमानसूत्रेण औत्सर्गिकरूपेण ‘मतुँप्’ इति प्रत्ययः विधीयते । ‘मतुँप्’ प्रत्यये पकार-उकारयोः इत्संज्ञा लोपश्च भवति, अतः ‘मत्’ इति प्रत्ययस्य दृश्यरूपम् प्रक्रियायाम् प्रयुज्यते । उदाहरणानि एतानि - 1. गावः अस्य सन्ति सः ‘गोमान्’ देवदत्तः । अत्र देवदत्तस्य निर्देशः ‘अस्य’ इति षष्ठीनिर्देशेन , तथा च ‘सन्ति’ इत्यस्य निर्देशेन क्रियते, अतः वर्तमानसूत्रेण प्रथमासमर्थात् ‘गो’ शब्दात् देवदत्तस्य निर्देशं कर्तुम् मतुँप् प्रत्ययः भवति । गो + मतुँप् → गोमत् । तस्य पुंलिङ्गे प्रथमैकवचनम् ‘गोमान्’ इति भवति । 2. वह्निः यस्मिन् अस्ति सः ‘वह्निमान्’ पर्वतः । अत्र पर्वतस्य निर्देशः ‘अस्मिन्’ इति सप्तमीनिर्देशेन, तथा च ‘अस्ति’ इत्यस्य प्रयोगेण क्रियते, अतः वर्तमानसूत्रेण प्रथमासमर्थात् ‘वह्नि’ शब्दात् पर्वतस्य निर्देशं कर्तुम् ‘मतुँप्’ प्रत्ययः भवति । वह्नि + मतुँप् → वह्निमत् । अस्य पुंलिङ्गस्य प्रथमैकवचनम् ‘वह्निमान्’ इति । 3. शक्तिः अस्यामस्ति सा शक्तिमती काली । ‘शक्ति’ शब्दात् मतुँप्-प्रत्यये कृते ‘शक्तिमत्’ इति प्रातिपदिकम् सिद्ध्यति । स्त्रीत्वे विवक्षिते उगितश्च (4.1.6) इति ङीप्-प्रत्ययं कृत्वा ‘शक्तिमती’ इति रूपं सिद्ध्यति । 5. पशवः यस्मिन् सन्ति तत् पशुमत् गृहम् । अत्र ‘पशुमत्’ इति नपुंसकलिङ्गस्य प्रथमैकवचनम् । 6. वृक्षाः यस्मिन् सन्ति सः वृक्षवान् पर्वतः । अत्र ‘वृक्ष + मतुँप्’ इति स्थिते मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इत्यनेन मकारस्य वकारादेशं कृत्वा ‘वृक्षवान्’ इति रूपं सिद्ध्यति । 7. भाः (illumination) यस्मिन् अस्ति सा भास्वती रजनी । अत्रापि मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इत्यनेन मकारस्य वकारादेशः, तथा च स्त्रीत्वे विवक्षते उगितश्च (4.1.6) इति ङीप्-प्रत्ययं कृत्वा ‘भास्वती’ इति रूपं सिद्ध्यति । अस्य सूत्रस्य विषये केचन बिन्दवः ज्ञेयाः - 1. अस्मिन् सूत्रे ‘अस्ति’ इति निर्दिश्यते । अतः वर्तमाने विवक्षिते एव अस्य सूत्रस्य प्रयोगः भवति । यथा - . गावः अस्य सन्ति सः ‘गोमान्’ देवदत्तः । ‘गावः अस्य आसन्’ उत ‘गावः अस्य स्युः’ एतेषु अर्थेषु वर्तमानसूत्रस्य प्रयोगः न क्रियते । 2. अस्मिन् सूत्रे ‘अस्य’ तथा ‘अस्मिन्’ एतौ द्वौ अर्थौ उच्येते, परन्तु समर्थविभक्तिः ‘तत्’ इति एका एव अस्ति । अस्यां स्थितौ ‘तत् अस्य अस्ति’ तथा ‘तत् अस्मिन् अस्ति’ इति द्वयोः अर्थयोः भिन्नरूपेण विधानं मत्त्वा एतयोः द्वयोः अपि पृथग्-रूपेण प्रयोगः भवितुमर्हति । इत्युक्ते, केवलम् ‘अस्य अस्ति’ अस्मिन् अर्थे अपि मतुँप्-प्रत्ययः भवति (यथा - गोमान् देवदत्तः), तथा च केवलम् ‘अस्मिन् अस्ति’ इत्यत्रापि मतुँप्-प्रत्ययः भवितुमर्हति (यथा - वह्निमान् पर्वतः) । कुत्रचित् द्वावपि अर्थौ सकृदेव प्रवर्तेते, तत्रापि सूत्रमिदम् भवितुमर्हति (यथा - शाखाः अस्य अस्मिन् वा सन्ति सः शाखावान् वृक्षः) । अस्मिन् विषये तदस्य तदस्मिन् स्यादिति (5.1.16) इत्यत्रापि विस्तारेण चर्चा कृता अस्ति । 3. अस्मिन् सूत्रे ‘इति’ अस्य शब्दस्य ग्रहणम् ‘विशेषविषयस्य’ निर्देशार्थम् क्रियते । इत्युक्ते, केषुचन विशिष्ट-विषयेषु एव अस्य सूत्रस्य प्रसक्तिः वर्तते, सर्वेषु विषयेषु न - इति अत्र आशयः अस्ति । अस्मिन् विषये वार्त्तिककारः एकं श्लोकवार्त्तिकम् पाठयति - <!भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥ !> इत्युक्ते, वार्त्तिककारस्य मतेन अस्य सूत्रस्य प्रयोगः ‘भूमा’, ‘निन्दा’, ‘प्रशंसा’, ‘नित्ययोग’, ‘अतिशायन’, तथा ‘संसर्ग’ - एतेषु षट्सु विषयेषु एव भवति । यथा - (अ) भूमा (बहु / विपुलम् - इति अर्थः) । यथा - बहवः गावः सन्ति अस्य सः गोमान् देवदत्तः । (आ) निन्दा (शरीरस्य किञ्चन वैचित्र्यम् - इति अर्थः) । यथा - कुष्ठमस्ति यस्य सः कुष्ठी । अत्र ‘कुष्ठ’ शब्दात् मत्वर्थे अत इनिठनौ (5.2.115) इत्यनेन ‘इनि’ प्रत्ययः भवति । (इ) प्रशंसा । यथा - प्रशस्तम् रूपमस्ति अस्याः सा रूपवती कन्या । अत्र मतुँप्-प्रत्ययस्य मकारस्य मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इत्यनेन वकारादेशः भवति । (ई) नित्ययोग (नित्यसम्बन्धः / permanent contact इत्यर्थः) । यथा - क्षीरम् (milky juice / sap) अस्य अस्ति सः क्षीरी वृक्षः । अत्र मत्वर्थे अत इनिठनौ (5.2.115) इत्यनेन ‘इनि’ प्रत्ययः भवति । (उ) अतिशायन (सामान्यपरिमाणस्य अपेक्षया अधिकम्, beyond the normal measures इत्यर्थः) । यथा - अतिशयेन उदरमस्ति यस्याः सा उदरिणी कन्या । (‘अतिशायन’ इति शब्दः आर्षप्रयोगः अस्ति, अतः विग्रहवाक्ये ‘अतिशय’ इत्यस्यैव प्रयोगः क्रियते) । (ऊ) संसर्ग (तीव्रसंयोगः, close contact /ownership इति अर्थः) । यथा - दण्डः अस्य अस्ति सः दण्डी साधुः । एतान् विहाय अन्यविषयस्य विवक्षायाम् ‘मतुँप्’ प्रत्ययस्य प्रयोगः न भवति । यथा - कस्मिंश्चित् गृहे यदि दण्डः स्थाप्यते, तर्हि ‘दण्डः अस्ति अस्मिन् गृहे’ इत्यत्र दण्ड-शब्दात् मतुँप्-प्रत्ययः (तस्य अपवादः वा) न विधीयते (अतः च ‘दण्डि गृहम्’ इति प्रयोगः न सिद्ध्यति), यतः अत्र एतेषु अर्थेषु कोऽपि अर्थः न विवक्षितः अस्ति । 4. उपरिनिर्दिष्टे श्लोकवार्त्तिके ‘अस्ति’ इति शब्दः अपि निर्दिष्टः अस्ति । केचन पण्डिताः अयम् ‘अस्ति’शब्दः अव्यवयवाची अस्तीति मत्वा ‘अस्ति + मतुँप् → अस्तिमत्’ इति रूपं साधयन्ति । यः अस्ति / विद्यते सः अस्तिमान् । परन्तु एतत् चिन्तनम् भाष्यसम्मतम् नास्ति । अस्मिन् विषये अधिकं पिपठिषवः भाष्यमुत तस्य विस्तारम् पश्येयुः । 5. अत्र अन्यद् अपि एकं वार्त्तिकम् ज्ञेयम् - <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> । इत्युक्ते, गुणवाचिभ्यः शब्देभ्यः विहितस्य मतुँप्-प्रत्ययस्य (तस्य अपवादस्य वा) लुक् भवति । यथा - ‘शुक्लः गुणः अस्य अस्ति सः शुक्लः पटः । अत्र ‘शुक्लः’ शब्दः गुणरूपेण (quality / attribute) प्रयुक्तः अस्ति अतः शुक्ल-शब्दात् विहितस्य इनि-प्रत्ययस्य अत्र लोपः भवति । 6. वर्तमानसूत्रात् आरभ्य पञ्चमाध्यायस्य द्वितीयपादस्य समाप्तिं यावत् सर्वेषु सूत्रेषु ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः एव अर्थयोः मतुँप्-प्रत्ययः उत तस्य अपवादाः पाठिताः सन्ति । एतौ द्वौ अर्थौ औत्सर्गिकरूपेण ‘मतुँप्’-प्रत्ययमेव स्वीकुर्वन्ति, अतः एतयोः ‘मतुबर्थौ’ इति अपि अभिधानम् क्रियते । अतएव तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इत्यस्मात् अहंशुभमोर्युस् (5.2.140) इत्येतेषाम् सर्वेषाम् सूत्राणाम् एकत्ररूपेण ‘मतुप्-प्रकरणम्’ इति अपि संज्ञा दीयते । अस्मिन् प्रकरणे यस्मात् शब्दात् विशेषप्रत्ययविधानम् न क्रियते, तस्मात् शब्दात् वर्तमानसूत्रेण द्वयोः अपि अर्थयोः मतुँप्-प्रत्ययः एव विधीयते । 7. यदि किञ्चन प्रातिपदिकम् मतुँप्-प्रत्ययेन निर्मितमस्ति, तर्हि तस्मात् प्रातिपदिकात् ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः पुनः सः एव मतुँप्-प्रत्ययः न भवति । एतदेव स्पष्टीकर्तुम् वार्त्तिककारः एकं श्लोकवार्त्तिकं पाठयति - <!शैषिकात् मतुबर्थीयात् शैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः, सन्नन्तात् न सन्निष्यते ॥ !> मतुबर्थीयात् पुनः सरूपः (= identical) मतुबर्थिकः प्रत्ययः न भवतीति आशयः । यथा - ‘गावः अस्य अस्ति सः गोमान्’ इत्यत्र ‘गोमान्’ शब्दः मतुबर्थे सिद्ध्यति । अयम् मतुँप्-प्रत्ययान्तः शब्दः अस्ति, अतः ‘गोमान् यस्मिन् अस्ति’ इति स्थिते ‘गोमत्’ शब्दात् पुनः यद्यपि मतुँप्-प्रत्ययः प्राप्नोति, तथापि सः न विधीयते । यत्र ‘असरूपः’ प्रत्ययः भवति, तत्र तु तस्य प्रयोगे न बाधा विद्यते । यथा - दण्डः अस्य अस्ति सः दण्डी (= इनि-प्रत्ययः), दण्डिनः यस्याम् सन्ति सा दण्डिमती शाला (= मतुँप्-प्रत्ययः) । विशेषः - अस्मिन् सन्दर्भे भाष्यकारः प्रतिपादयति - तस्मात् मत्वर्थीयात् मतुबादेः प्रतिषेधो वक्त्वयः। तं चापि ब्रुवता समानवृत्तौ सरूपे इति वक्तव्यम् । इत्युक्ते,कस्मिंश्चित् मतुबर्थे प्राप्तात् प्रातिपदिकात् तस्मिन्नेव अर्थे पुनः कोऽपि प्रत्ययः (सरूपो वा असरूपो वा) नैव भवति । यत्र अर्थभेदः वर्तते, तत्रैव असरूप-प्रत्ययविधानम् भवितुमर्हति । इत्युक्ते, ‘अस्य अस्ति’ अस्मिन् अर्थे यत् प्रातिपदिकं जायते, तस्मात् पुनः केवलम् ‘अस्मिन् अस्ति’ इत्यस्मिन् अर्थे एव प्रत्ययः भवितुमर्हति ; सोऽपि च असरूपः एव स्यात् - इति आशयः । 8. मतुबर्थे विहितेषु प्रत्ययेषु परेषु तकारान्तस्य सकारान्तस्य अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यनेन पदसंज्ञायां प्राप्तायाम् तां बाधित्वा तसौ मत्वर्थे (1.4.19) इत्यन्तेन भसंज्ञा भवति । यथा - [अ] गरुतौ (wings) अस्य स्तः सः = गरुत् + मत् → गरुत्मान् खगः । अत्र ‘गरुत्’ इत्यस्य भसंज्ञा भवति, अतः पदविशिष्टम् कार्यम् (झलां जशोऽन्ते (8.2.39) इति जश्त्वम् ) न भवति । [आ] विद्वांसः (experts / intelligent people) सन्ति यस्याम् सा विदुष्मती परिषद् । अत्र ‘विद्वस् + मतुँप्’ इति स्थिते विद्वस्-शब्दस्य भसंज्ञा भवति; अतः अतः वसोः सम्प्रसारणम् (6.4.131) इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य उपधा-वकारस्य सम्प्रसारणम् (= उकारम्) कृत्वा आदेशप्रत्यययोः (8.3.59) इत्यनेन षत्वे कृते ‘विदुष्मत्’ इति प्रातिपदिकं जायते । यदि अत्र विद्वस्-शब्दस्य पदसंज्ञा अभविष्यत्, तर्हि वसुस्रंसुध्वंस्वनडुहां दः (8.2.72) इत्यनेन सकारस्य दकारादेशः अभविष्यत् । [इ] तपः अस्य अस्ति सः तपस्वी । अत्र तपःसहस्राभ्यां विनीनी (5.2.102) इत्यनेन तपस्-शब्दात् मत्वर्थे ‘विनिँ’ प्रत्ययः भवति । ‘तपस् + विनिँ’ इत्यत्र अङ्गस्य भसंज्ञा भवति, अतः ससजुषोः रुः (8.2.66) इति रुत्वं न विधीयते । 9. मतुँप्-प्रत्ययान्तशब्दस्य अङ्गस्य अन्तिमवर्णः उत उपधावर्णः यदि ‘अ’, ‘आ’, ‘म्’ एतेषु किञ्चन अस्ति, तर्हि प्रक्रियायाम् मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इत्यनेन मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः भवति । यथा - (अकारान्तमङ्गम्) - वृक्ष + मतुँप् → वृक्षवत् । (आकारान्तमङ्गम्) - माला + मतुँप् → मालावत् । (मकारान्तमङ्गम्) - किम् + मतुँप् → किंवत् । (अकारोपधमङ्गम्) - यशस् + मतुँप् → यशस्वत् । (आकारोपधमङ्गम्) - भास् + मतुँप् → भास्वत् । (मकारोपधमङ्गम्) - लक्ष्मी + मतुँप् → लक्ष्मीवत् । एतानि सर्वाणि प्रातिपदिकानि यद्यपि ‘वत्’ इत्यनेन समाप्यन्ते, तथापि एतेषु ‘वतुँप्’ प्रत्ययः नास्ति अपितु ‘मतुँप्’ प्रत्ययः अस्तीति ज्ञेयम् । विशेषः - मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) अस्मिन् सूत्रे पाठिते यवादिगणे विद्यमानानाम् शब्दानाम् विषये मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः न भवति । 10. झय्-वर्णात् (= वर्गप्रथमः, वर्गद्वितीयः, वर्गतृतीयः, वर्गचतुर्थः) परस्य मतुँप्-प्रत्ययस्य मकारस्य झयः (8.2.10) इत्यनेन वकारादेशः भवति । यथा - अ) मरुत् अस्य अस्ति सः मरुत्वान् । आ) विद्युत् अस्ति अस्ति सः विद्युत्वान् । स्मर्तव्यम् - मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) अस्मिन् सूत्रे पाठिते यवादिगणे विद्यमानानाम् शब्दानाम् विषये मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः न भवति । यथा - गरुत् + मत् → गरुत्मत् । 11. मतुँप्-प्रत्ययान्तशब्दानाम् त्रिषु लिङ्गेषु रूपाणि भवन्ति । तत् इत्थम् - [अ] मतुँप्-प्रत्यये उकारः इत्संज्ञकः अस्ति, अतः मतुँप्-प्रत्ययान्तशब्दः ‘उगित्’ अस्ति इत्युच्यते । अस्यां स्थितौ पुंलिङ्गे सर्वनामस्थानसंज्ञकेषु सुप्-प्रत्ययेषु परेषु उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इत्यनेन नुमागमस्य प्रसक्तिः अस्ति, । यथा, ‘गोमत्’ शब्दस्य पुंलिङ्गस्य रूपाणि ‘गोमान्, गोमन्तौ, गोमन्तः, गोमन्तम्, गोमन्तौ, गोमतः’ इति सिद्ध्यन्ति । प्रथमैकवचनस्य प्रक्रिया इयम् - गोमत् + सुँ → गोमन् त् + स् [उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमः] → गोमान् त् + स् [अत्वसन्तस्य चाधातोः (6.4.14) दीर्घादेशः] → गोमान् त् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सकारलोपः] → गोमान् [संयोगान्तस्य लोपः (8.2.23) इति तकारलोपः] [आ] स्त्रीत्वे विवक्षिते उगितश्च (4.1.6) इति ङीप्-प्रत्ययं कृत्वा ईकारान्तप्रातिपदिकस्य निर्माणं भवति यस्य रूपाणि नदी-शब्दवत् भवन्ति । यथा - गोमती, गोमत्यौ, गोमत्यः । [इ] मतुँप्-प्रत्ययान्तस्य नपुंसकलिङ्गशब्दस्य रूपाणि ‘जगत्’ शब्दवत् भवन्ति । यथा - गोमत् गोमती गोमन्ति । अत्र प्रथमाबहुवचनस्य द्वितीयाबहुवचनस्य च प्रक्रियायाम् उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इत्यनेन प्राप्तम् नुमागमं विप्रतिषेधेन (परत्वात्) बाधित्वा नपुंसकस्य झलचः (7.1.72) इति पुनः नुमागमः एव विधीयते । 12. प्राग्दीव्यतीय-अधिकारे चातुरर्थिकप्रकरणे तदस्मिन्नस्तीति देशे तन्नाम्नि (4.2.67) इति किञ्चन सूत्रम् विद्यते । तेन सूत्रेण अपि ‘तद् अस्मिन् अस्ति’ इत्येव अर्थः पाठ्यते, परन्तु तस्य सूत्रस्य प्रयोगः केवलं देशस्य अभिधाननिर्देशार्थम् एव क्रियते, अन्येषु विषयेषु न । 13. ‘तत्, अस्य, अस्ति, अस्मिन्, इति’ - एतेषां पञ्चानामनुवृत्तिः अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य द्वितीयपादस्य अन्तपर्यन्तम् गच्छति ।

Vasu English Summary

The affix मतुप् comes in the sense of ‘whose it is’ or ‘in whom it is’ after a word in the Nominative 1st-Case in construction.

Vasu English Translation

The affix मतुप् comes in the sense of ‘whose it is’ or ‘in whom it is’ after a word in the Nominative 1st-Case in construction. Thus गावोऽस्य सन्ति = गोमत् nom. गोमान् ‘having cows’, as गोमान् देवदत्तः ॥ वृक्षा अस्मिन् सन्ति = वृक्षवत् (व being substituted for म by (8.2.9)), as वृक्षवान् पर्वतः ॥ Similarly यवमान्, प्लक्षमान् ॥ The word इति shows that the use of मतुप् and cognate affixes are restricted in their application. For example, a person who has three barley grains only will not be called यववान् ॥ This affix comes when the significations are (1) A large quantity or number, as गोमान् ‘having many cows’. (2) When censure (निन्दा) is implied, as ककुदावर्त्ती, संखादकी (3) when praise (प्रशंसा) is meant, as रूपवती कन्या, (4) when an inherent or permanent quality of a thing is meant (नित्ययोग) as, क्षीरिणी वृक्षः ॥ (5) When excellence (अतिशायन) is meant, as, उदरिणी कन्या ॥ (6) When accompaniment (संसर्ग) is meant, as दण्डी, छत्री ॥ (7) When the sense of अस्ति ‘to be’ is denoted, as अस्तिमान् ॥

Vart:- The affix मतुप् is elided after words of quality (गुणवचन), as शुक्लो गुणोऽस्यास्ति = शुक्लः पटः ॥ कृष्णः, श्वेतः &c.

Bhashya

तदस्यास्त्यस्मिन्निति मतुप् (2112) (मतुप्प्रत्ययाधिकरणम्) (पदकृत्यभाष्यम्) किमर्थमिमावर्थावुभौ निर्दिश्येते - अस्य अस्मिन्निति, न यद्यस्य भवति तस्मिन्नपि तद् भवति, यच्च यस्मिन् भवति तत्तस्यापि भवति? नैतयोरावश्यकः समावेशः। भवन्ति हि देवदत्तस्य गावः, न च तास्तस्मिन्नाधृता भवन्ति। भवन्ति च पर्वते वृक्षा न च ते तस्य भवन्ति। तस्मात् अस्यास्मिन् ग्रहणम्॥ (अस्तिग्रहणाक्षेपभाष्यम्) अथास्तिग्रहणं किमर्थम्? (अस्तिग्रहणप्रयोजनभाष्यम्) सत्तायामर्थे प्रत्ययो यथा स्यात्॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। न सत्तां पदार्थो व्यभिचरति॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - संप्रति सत्तायां यथा स्यात्, भूतभविष्यत्सत्तायां मा भूत्। गावोऽस्यासन् गावोऽस्य भवितारः इति॥ (अनिष्टनिवारकभाष्यम्) न तर्हीदानीमिदं भवति - गोमानासीत्, गोमान् भवितेति॥ भवति, न त्वेतस्मिन् वाक्ये। यद्येतस्मिन् वाक्ये स्यात् - यथेहास्तेः प्रयोगो न भवति गोमान् यवमान् इति, एवमिहापि न स्यात् - गोमानासीत्, गोमान् भवितेति। सति चाप्यस्तेः प्रयोगे यथेह बहुवचनं श्रूयते - गावोऽस्यासन्, गावोस्य भवितार इति, एवमिहापि स्यात् - गोमानासीत्, गोमान् भवितेति। का तर्हीयं वाचोयुक्तिः - गोमानासीत् गोमान् भवितेति। एषैषा वाचो युक्तिः - नैषा गवां सत्ता कथ्यते। किं तर्हि? गोमत्सत्तैषा कथ्यते। अस्त्यत्र वर्तमानकालोऽस्तिः। कथं तर्हि भूतभविष्यत्सत्ता गम्यते? धातुसम्बन्धे प्रत्ययाः इति॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - अस्तियुक्ताद्यथा स्यात्, अनन्तरादियुक्तान्मा भूदिति। गावोऽस्यानन्तराः, गावोऽस्य समीप इति॥ (आक्षेपभाष्यम्) अथ क्रियमाणेऽप्यस्तिग्रहणं इह कस्मान्न भवति - गावोऽस्य सन्त्यनन्तराः, गावोऽस्य सन्ति समीप इति? (समाधानभाष्यम्) असार्मथ्यात्। कथमसार्मथ्यम्? सापेक्षमसमर्थं भवतीति॥ (प्रत्याक्षेपभाष्यम्) यथैव तर्हि क्रियमाणेऽस्तिग्रहणेऽसार्मथ्यादनन्तरादिषु न भवति, एवमक्रियमाणेऽपि न भविष्यति॥ (प्रत्याक्षेपनिरासभाष्यम्) अस्त्यत्र विशेषः। क्रियमाणेऽस्तिग्रहणे नान्तरेण तृतीयस्य पदस्य प्रयोगमनन्तरादयोऽर्था गम्यन्ते। अक्रियमाणे पुनरस्तिग्रहणे अन्तरेणापि तृतीयस्य पदस्य प्रयोगमनन्तरादयोऽर्था गम्यन्ते॥ (मतुप्प्रत्ययातिव्याप्तिनिवारकभाष्यम्) अथेह कस्मान्न भवति - चित्रगुः शबलगुरिति? बहुव्रीहिणोक्तत्वान्मत्वर्थस्य॥ (प्रत्ययातिव्याप्तिनिवारकभाष्यम्) अथेह कस्मान्न भवति - चित्रा गावो यस्य सन्तीति? कुतः कस्मान्न भवति? किमवयवात्, आहोस्वित्यसमुदायात्? अवयवात्कस्मान्न भवति? असार्मथ्यात्। कथमसार्मथ्यम्? सापेक्षमसमर्थं भवतीति॥ समुदायात्तर्हि कस्मान्न भवति? अप्रातिपदिकत्वात्। ननु च भो आकृतौ शास्त्राणि प्रवर्तन्ते। तद्यथा - सुप्सुपेति वर्तमाने अन्यस्य चान्यस्य च समासो भवति। सत्यमेवमेतत्। आकृतिस्तु प्रत्येकं परिसमाप्यते। यावत्येतत्परिसमाप्यते ङ्याप्प्रातिपदिकादिति तावत उत्पत्त्या भवितव्यम्। अवयवे चैतत्परिसमाप्यते न समुदाये॥ (प्रत्ययातिव्याप्तिनिवारकभाष्यम्) अथेह कस्मान्न भवति - पञ्ञ्च गावः सन्त्यस्प - पञ्ञ्चगुर्दशगुरिति? प्रत्येकमसार्मथ्यात्, समुदायात् - अप्रातिपदिकत्वात्, समासात् - समासेनोक्तत्वात्॥ (आक्षेपभाष्यम्) नैतत्सारम्। उक्तेऽपि हि प्रत्ययार्थे उत्पद्यते द्विगोस्तद्धितः। तद्यथा - द्वैमातुरः पाञ्ञ्चनापितिरिति॥ (समाधानभाष्यम्) नैष द्विगुः। कस्तर्हि? बहुव्रीहिः। अपवादत्वाद् द्विगुः प्राप्नोति। अन्तरङ्गत्वाद्वहुव्रीहिर्भविष्यति। काऽन्तरङ्गता? अन्यपदार्थे बहुव्रीहिर्वर्तते, विशिष्टेऽन्यपदार्थे तद्धितार्थे द्विगुस्तस्मिंश्चास्य तद्धितेऽस्तिग्रहणं क्रियते॥ (प्रत्याक्षेपभाष्यम्) यदि तर्हि अतिप्रसङ्गाः सन्तीति तद्धितविधावस्तिग्रहणं क्रियते, बहुव्रीहावप्यस्तिग्रहणं कर्तव्यमस्तियुक्ताद्यथा स्यादनन्तरादियुक्तान्मा भूदिति। अथ न सन्ति, तद्धितविधावपि नार्थोऽस्ति ग्रहणेन॥ (प्रत्याक्षेपसमाधानभाष्यम्) सत्यमेवमेतत्। क्रियते त्विदानीं तद्धितविधावस्तिग्रहणम्। तद्वै क्रियमाणमपि प्रत्ययविध्यर्थं, नोपाध्यर्थम्। अस्तिमानिति मुतब् यथा स्यात्। किं च कारणं न स्यात्? अप्रातिपदिकत्वात्। नैष दोषः। अव्ययमेषोऽस्तिशब्दः, नैषोऽस्तेर्लट्। कथमव्ययत्वम्? विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा, निपातोऽव्ययमित्यव्ययसंज्ञा। एवमपि न सिध्यति। किं कारणम्? अस्तिना सामानाधिकरण्ये मतुब् विधीयते, न चास्तेरस्तिना सामानाधिकरणम्यम्॥ तदेतत् क्रियमाणमपि प्रत्ययविध्यर्थं नोपाध्यर्थम्। तस्माद् द्विगोस्तद्धितस्य प्रतिषेधो वक्तव्यः, यदि तन्नास्ति सर्वत्र मत्वर्थे प्रतिषेधः इति। सति हि तस्मिंस्तेनैतत्सिद्धम्॥ (मतुबन्तान्मतुप्प्रत्ययाभावोपपादकभाष्यम्) अथ मत्वर्थीयान्मत्वर्थीयेन भवितव्यम्? न भवितव्यम्। किं कारणम्? अर्थगत्यर्थः शब्दप्रयोगः। अर्थं संप्रत्याययिष्यामीति शब्दः प्रयुज्यते। तत्रैकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्॥ किं कारणम्? उक्तार्थानामप्रयोग इति॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति - दण्डिमती शाला, हस्तिमती उपत्यका इति॥ (समाधानभाष्यम्) भवति, अर्थान्तरे वृत्तादर्थान्तरे वृत्तिः। षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते, सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते॥ (प्रत्याक्षेपभाष्यम्) अथ मत्वन्तान्मतुपा भवितव्यम् - गोमन्तोऽस्य सन्ति यवमन्तोऽस्य सन्तीति? (प्रत्याक्षेपसमाधाने भाष्यम्) न भवितव्यम्। किं कारणम्? यस्य गोमन्तः सन्ति, गावोऽपि तस्य सन्ति, तत्रोक्तो गोभिरभिसम्बन्धे प्रत्यय इति कृत्वा तद्धितो न भविष्यति। न तर्हीदानीमिदं भवति - दण्डिमती शाला, हस्तिमत्युपत्यकेति। भवति, अर्थान्तरे वृत्ताद् अर्थान्तरे वृत्तिर्भविष्यति। षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते, सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते॥ (समानन्यायेनाक्षेपभाष्यम्) इहापि - सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते, षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते। अन्यथाजातीयकः खल्वपि गोभिरभिसम्बन्धे प्रत्ययः, अन्यथाजातीयकस्तद्वता। येनैव खल्वपि हेतुना एतद्वाक्यं भवतिगोमन्तोऽस्य सन्ति यवमन्तोऽस्य सन्तीति तेनैव हेतुना वृत्तिरपि प्राप्नोति॥ (प्रतिषेधेन समाधानभाष्यम्) तस्मान्मत्वर्थीयान्मतुबादेः प्रतिषेधो वक्त्वयः। तं चापि ब्रुवता समानवृत्तौ सरूप इति वक्तव्यम्। भवति हि - दण्डिमती शाला, हस्तिमत्युपत्यकेति। शैषिकान्मतुबर्षीयाच्छैषिको मतुबर्थिकः। सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते॥ (प्रत्ययोद्देश्यतावच्छेदकनिर्धारणोपक्रमभाष्यम्) किं पुनरिमे मतुप्प्रभृतयः सन्मात्रे भवन्ति? एवं भवितुमर्हति॥ (5758 अतिप्रसंगापादकवार्तिकम्॥ 1 ॥) - मतुप्प्रभृतयः सन्मात्रे इति चेदतिप्रसङ्गः - (भाष्यम्) मतुप्प्रभृतयः सन्मात्र इति चेदतिप्रसङ्गो भवति। इहापि प्राप्नोति - व्रीहिरस्य, यवोऽस्येति॥ (एकदेशिसमाधानभाष्यम्) तस्माद् भूमादिग्रहणं कर्तव्यम्॥ (भूमादिनिर्वचनभाष्यम्) के पुनर्भूमादयः? भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः॥ भूम्नि - गोमान् यवमान्। निन्दायाम् - ककुदावर्ती। संखादकी। प्रशंसायाम् - रूपवान्। वर्णवान्। नित्ययोगे - क्षीरिणो वृक्षाः। कण्टकिनो वृक्षा इति। अतिशायने - उदरिणी कन्या। संसर्गे - दण्डी। छत्री। तत्तर्हि भूमादिग्रहणं कर्तव्यम्? न कर्तव्यम्। कस्मान्न भवति - व्रीहिरस्य, यवोऽस्येति॥ (5759 सिद्धान्तवार्तिकम्॥ 2 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? अनभिधानादिति। इतिकरणः खल्वपि क्रियते ततश्चेद्विवक्षा, भूमादियुक्तस्यैव च विवक्षा। गोमान् - यवमान् - भूमादियुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद्यवो नास्ति। संखादकी - ककुदावर्ती - निन्दायुक्तस्यैव सत्ता कथ्यते, न हि कश्चिन्न संखादकी। रूपवान् - वर्णवान् - प्रशंसायुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद्रूपं नास्ति। क्षीरिणो वृक्षाः - कण्टकिनो वृक्षा इति - नित्ययुक्तस्यैव सत्ता कथ्यते, न हि कस्यचित् क्षीरं नास्ति। उदरिणी कन्येति - अतिशायनयुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिदुदरं नास्ति। दण्डी - छत्री - संसर्गयुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद्दण्डो नास्ति। यावतीभिः खल्वपि गोभिर्वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते। कस्यचिच्चतसृभिः कल्पन्ते। कस्यचिच्छतेनापि न प्रकल्पन्ते॥ सन्मात्रे चर्षिदर्शनात्। सन्मात्रे च पुनः ऋषिर्दर्शयति मतुपम् - यवमतीभिरदि्भर्यूपं प्रोक्षतीति॥ (5760 उपसंख्यानवार्तिकम्॥ 3 ॥) - गुणवचनेभ्यो मतुपो लुक् - (भाष्यम्) गुणवचनेभ्यो मतुपो लुग्वक्तव्यः। शुक्लः। कृष्ण इति॥ (उपसंख्यानाक्षेपभाष्यम्) अव्यतिरेकात्सिद्धम्। न गुणो गुणिनं व्यभिचरतीति॥ (5761 समाधानवार्तिकम्॥ 4 ॥) - अव्यतिरेकात्सिद्धमिति चेद् दृष्टो व्यतिरेकः - (भाष्यम्) अव्यतिरेकात्सिद्धमिति चेत् दृश्यते व्यतिरेकः। तद्यथा - पटस्य शुक्ल इति॥ (5762 सिद्धान्तसाधकवार्तिकम्॥ 5 ॥) - तथा च लिङ्गवचनसिद्धिः - (भाष्यम्) एवं च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति - शुक्लं वस्त्रम्। शुक्ला शाटी। शुक्लः कम्बलः। शुक्लौ कम्बलौ। शुक्लाः कम्बला इति। यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद् गुणस्यापि भवति॥

Kashika

तदिति प्रथमा समर्थविभक्तिः। अस्यास्मिन्निति प्रत्ययार्थौ। अस्तीति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थेऽस्मिन्निति सप्तम्यर्थे वा मतुप् प्रत्ययो भवति, यत् तत् प्रथमासमर्थमस्ति चेत् तद् भवति। अस्त्यर्थोपाधिकं चेत् तद् भवतीत्यर्थः। इतिकरणस्ततश्चेद् विवक्षा। गावोऽस्य सन्ति गोमान् देवदत्तः। वृक्षा अस्मिन् सन्ति वृक्षवान् पर्वतः। यवमान्। प्लक्षवान्। इतिकरणाद् विषयनियमः।

भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।

संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥

भूम्नि तावत् — गोमान्। निन्दायाम् — कुष्ठी। ककुदावर्तिनी। प्रशंसायाम् — रूपवती कन्या। नित्ययोगे — क्षीरिणो वृक्षाः। अतिशायने — उदरिणी कन्या। संसर्गे — दण्डी। छत्री। अस्तिविवक्षायाम् — अस्तिमान्॥ गुणवचनेभ्यो मतुपो लुग् वक्तव्यः॥ शुक्लो गुणोऽस्यास्ति शुक्लः पटः। कृष्णः। श्वेतः॥

Siddhanta Kaumudi

गावोऽस्यास्मिन्वा सन्ति गोमान् ।<!भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने !> (वार्तिकम्) ॥ संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥

Laghu Siddhanta Kaumudi

गावोऽस्यास्मिन्वा सन्ति गोमान् ॥

Balamanorama

तदस्यास्त्यस्मिन्निति मतुप् - तदस्यास्त्यस्मिन्निति मतुप् । तदस्यास्तीति तदस्मिन्नस्तीति विग्रहे अस्मि समानाधिकरणात्प्रथमान्तादस्य अस्मिन्निति चार्थे मतुप्स्यादित्यर्थः । उपावितौ । इतिशब्दो विषयविशेषलाभार्थः । तदाह — भूमनिन्देति । श्लोकवार्तिकमिदम् । भूमा=बहुत्वम् । यथा गोमान्, यवमान् । निन्दायां-ककुदावर्तिनी कन्या । प्रशंसायां-रूपवान् । नित्ययोगे — क्षीरिणो वृक्षाः । अतिशायने-उदरिणी कन्या । संसर्गे-दण्डी । छत्री । वृत्तिनियामकः संसर्गविशेषो विवक्षितः । तेन ‘परुषी दण्ड’ इति नास्ति ।

Tattvabodhini

तदस्यास्त्यस्मिन्निति मतुप् - तदस्यास्त्यस्मिन्नति मतुप् ।त॑दिति प्रथमासमर्थात्प्रत्ययः । अस्तीति पुरुषवचने अविवक्षिते, कालस्तु विवक्षितः, धने गते बाविनि वाधनवानय॑मिति प्रतीत्यभावात् । इति शब्दो विषयविशेषलाभार्थः । भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।॒भूमिनिन्दाप्रशंसासु नित्ययोगेऽतिशायेन । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॑ । अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः । भूमा -बहुत्वम् । तच्चापेक्षिकम् । यस्य हि यावदुचितं तावदेव बहुत्वबोधकबहुशब्देनापि प्रतीयते । तथा पञ्चषाभिरपि गोभिर्देवदत्तस्यबह्व्यो गाव॑इति व्यवहारः । राज्ञस्तु सहरुआगोरपि गावोऽल्पा इति व्यवहारः । गोमान् । यवमान् । यस्य खार्यादिभिः परिच्छिन्ना यवाः सन्ति स एवमुच्यते । नतु सहरुओणापि यवैर्यवमानिति । कथं तर्हियवमतीभिरद्भिर्यूपं प्रोक्षति॑ -इति । अत्राहुः -जातिमात्रसम्बन्धस्य विवक्षितत्वाद्भूमाऽभावेऽप्यत्र मतुप् । भूमादिग्रहणं तु प्रायेण भूमादयः प्रतीयन्त इत्येवंपरमिति । निन्दायां -ककुदावर्तिनी कन्या । प्रशंसायां -रूपवान् । नित्ययोगे — — क्षीरिणो वृक्षाः । अतिशायेन -उदरिणी कन्या । संसर्गे -दण्डी । संसर्गः=संयोगः । तेन संयुक्तदम्ड एवोच्यते, न तु गृहावस्थितदण्डोऽपि । इह दण्डपुरुषयोः संयोगे सत्यपिदण्डी पुरुष॑इत्यादिवत्पुरुषी दण्डः॑पुरुषवान्दण्डः॑इति न प्रयुज्यते, वृत्तिनियामकस्य विलक्षणसम्बन्धस्याऽभावात् । संयोगे समानेऽपि प्रतीतिबलाद्वैलक्षण्यं कल्प्यत इत्याहुः । एवं च यवसंयोगमात्रेण यवमत्य आपो न भवन्ति, किं तु यवमज्जलवच्च पात्रमेवेत्याशयेनकथं यवमतीभिरद्भिः॑ इत्याक्षेफो,भूमादिग्रहणं प्रायिक॑मित्याद्युत्तरं च सङ्गच्छत एव ।

Padamanjari

अस्यास्मिन्निति प्रत्ययार्थाविति। ननु च यद्यस्य भवति तस्मिन्नपि तद्वति, यच्च यस्मिन् भवति तस्यापि तद्भवति; यथा - वृक्षस्य शाखा, वृक्षे शाखेति; तत्रान्यतरनिर्द्देशेनैव सिद्धम्, किमर्थमुभावर्थौ निर्द्दिश्येते ? नैतयौरवश्यम्भावी समावेशः; तथा हि - षष्ठ।ल्र्थमात्रनिर्द्देशे यत्राधिकरणं तेनैव रूपेण विवक्ष्यते, न तज्जन्यः शेषसम्बन्धः, यथा - वृक्षा अस्मिन्पर्वते सन्तीति न तत्र प्रत्ययः स्यात्। न ह्यत्र क्रियाकारकपूर्वकः शेषसम्बन्धो दृश्यते; वृक्षैः पर्वतस्यानारम्भात् नावयवावयविभावः। आनन्तर्यादिसम्बन्धस्तु सम्भवति। न तु तत्र मत्वर्थीयो भवति; अनभिधानात्। तथा केवलसप्तम्यर्थनिर्द्देशे कारकान्तरपूर्वः सम्बन्धो न गृहीतः स्यात्; ततश्च पुत्रवान्, गोमानित्यादौ न स्याद्। उत्पादनप्रतिग्रहादिक्रियाविषयकर्तृत्वजन्यो ह्यत्र सम्बन्धः, नाधारपूर्वकः; देशान्तरगतेऽपि पुत्रादौ तद्वानिति व्यपदेश्यस्य भावात्। सामीपिकस्याप्यधिकरणस्यासम्भवः। स्यादेतत् - पुत्रस्य पित्रधीनत्वाद्गवां च स्वाम्यधीनत्वाद्गुरौ वसतीतिवदधिकरणं भविष्यति, करणसंज्ञायां हि तमब्ग्रहणेन कारकप्रकरणे प्रकर्षस्यानाश्रयणाद्गौणस्याप्याधारस्याधिकरणसंज्ञा भवत्येवेति ? भवत्वेवमधिकरणसंज्ञा, मत्वर्थायस्तु मुख्य एवाधिकरणे स्यात् - वृक्षवान् पर्वतः, गोमाञ्जनपद इत्यादौ; न गौणे - पुत्रवान् गोमान्देवदत इत्यादौ, न ह्यत्र गौणग्रहणस्य लिङ्गमस्ति। तस्मादुभयोरपि निर्द्देशः कर्तव्यः। अस्तीति प्रकृति विशेषषणामिति। अर्थद्वारेणेति द्रष्टव्यम्। ननु सम्भवे व्यभिचारे च विशेषणविसेष्यभावो भवति नीलोत्पलवत्, न च सतां पदार्थो व्यभिचरति, तामन्तरेण पदस्योच्चारयितुमप्यशक्यत्वात्; तथा हियावद्बुद्वया पदार्थो न विषयीकृतस्तावत्पदस्य प्रयोगाभावः, तेन बुद्धिसतासमाविष्टमर्थं शब्दो गोचरयति, तस्यैव बहिरसत्वासत्वप्रतिपादनाय वृक्षोऽस्ति, वृक्षो नास्तीति प्रयोगः। यदि बाह्यसतासमावलिष्ट्ंअ वस्तु वाच्यं भवेत्, तदा विरोधपौनरुक्त्याभ्यां प्रयोगो न भवेदयम्। एवमेवात्यन्तासतोऽपि बहिः शशविषाणादीनर्थान्बुद्ध्या विषयीकृत्य तद्वचिशब्दप्रयोगः। तस्माद् बुद्ध्युपारूढोपचरिता सता शब्दप्रयोगस्य निमितमिति न तां पदार्थो व्यभिचरति। तदुक्तम् -‘न सतां पदार्थो व्यभिचरति’ इति। कस्यचित्पदस्यार्थः सन्नेवंविधां सतां न व्यभिचरतीत्यर्थः ? इदं तर्हि प्रयोजनम् - या सम्प्रतिसता मुख्या वर्तमानलक्षणा बाह्या तस्यां यथा स्याद्, भूतभविष्यतोर्या सतातीतानागतवस्तुपरामार्शिन्या बुद्व्योत्प्रेक्षितोपचरितरूपा तस्यां मा भूत्। तेन गावोऽस्यासन्, गावोऽलस्य भवितार इत्यत्रार्थे गोमानिति प्रयोगाभावः। यद्येवम्, विद्यमान एव देवदते तद्रवीनामतीतानागतत्वप्रतिपादनाय गोमानासीत् गोमान्भवितेति प्रयुज्यते, तत्र प्रकृत्यर्थस्य सम्प्रतिसताया अभावात्प्रत्यायाप्रसङ्कः ? नैष दोषः; नात्र साक्षाद्गवां सता कथ्यते, किं तर्हि ? गोमत एषा सता कथ्यते। यदि पुनर्गवां सता कथ्येत; यथेहास्तेः प्रयोगो न भवति - गावोऽस्य सन्ति गोमानिति प्रत्ययेनैव प्रकृत्यर्थोपाधेः प्रतीतत्वात्, तथेहापि न स्यात् - गोमानासीद्, गोमान्भवितेति। सत्यपि वा प्रयोगे यथेह बहुवचनं भवति - गोमानासीद्, गोमान्भवितेति। सत्यपि वा प्रयोगे यथेह बहुवचनं भवति - गावोऽस्यासन्, गावोऽस्य भवितार इति; एवमिहापि स्याद्गोमानासीद्, गोमान्भवितेति। तस्मान्नैषा गवां सता कथ्यते, किं तर्हि ? गोमत्सतैषा कथ्यते। तत्र यद्यपि यो गोमान्स विद्यते, गोमतारूपं तु तस्यादीतमनागतं वेति भूतभविष्यत्प्रयोगः। यथा - ईश्वरोऽयमासीद्दरिद्रोऽयं भविष्यतीति। तत्रार्थात्प्रकृत्यर्थस्याप्यतीतानागतत्वप्रतीतिर्भवति, सा वाक्यार्थवशादुपजायमाना बहिरह्गेति नान्तरङ्गं शब्दसंस्कारं निवर्तयति, यथा - ग्रामं न गच्छतीति। तदेवं सम्प्रति सतायां यथा - ग्रामं न गच्छतीति। तदेवं सम्प्रति सतायां यथा स्याद्, भूतभविष्यत्सतायां मा भूदित्येवमर्थमस्तीत्युच्यत इति स्थितम्। ननु च यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽपि गम्यते, ततश्च गावोऽस्य गावोऽस्मिन्नित्युक्ते किमित्यपेक्षायां सन्तीति गंस्तते, नार्थोऽस्तिग्रहणेन ? न सार्वत्रिकमेतत्; यदा खलु गावोऽस्य नान्यस्य, गावोऽस्मिन्नान्यस्मिन्नित्येवं विवक्षा, न तदास्तित्वं प्रतीयते। तस्मादस्तीति वक्तव्यम्। अथ क्रियमाणेऽप्यस्तिग्रहणे इह कस्मान्न भवति - गावोऽस्य सन्त्यनन्तरा इति ? सापेक्षत्वेनासामर्थ्यात्। इह कस्मान्न भवति-चित्रगुः, शबलगुरिति ? बहुव्रीहिणोक्तत्वात्। वाक्ये तु चित्रा गावोऽस्य सन्नीति प्रत्येकमसामर्थ्यान्न भवति, समुदायात्वप्रातिपदिकत्वात्। इह तु पञ्च गावोऽस्य सन्ति पञ्चगुः दशगुरिति’तद्धितार्थ’ इति द्विगुश्च प्राप्नोति, बहुव्रीहिश्च; तत्रचित्रगुरित्यादौ सावकाशं बहुव्रीहिं संख्यावाचिषु द्विगुर्बाधेत, ततश्च तद्धितार्थे विषयभूते विहितेन द्विगुनाऽनुक्तस्तद्धितार्थ इति यथेह तद्धितो भवति-द्वैमातुरः, पाञ्चनापितिरिति,’द्विगोर्लुगनपत्ये’ क इति लुगपि प्राग्दीव्यतीयस्य विधीयते, तेन मतुपो लुगलभ्यः। तस्मात्’तद्वितार्थ’ इत्यत्र यदुक्तम्’सर्वत्र मत्वर्थे प्रतिषेधः’ इति तदेवात्रक शरणम्। भूमेत्यादि। अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयभूतेषु भवन्तीत्यर्थः। बहूनां भावो भूमा, तत्र भूम्नि; गोमान्, यवमान्। बहुत्वं चाभिधानवशाद्विशिष्टमेवाश्रयणीयम्, यदाह -‘यावतीभिः खल्वपि गोभिर्वाहदोहप्रसवाः कल्पन्ते तावतीषु सता कथ्यते, कस्यचिच्चतसृभिरपि कल्पन्ते कस्यचिच्छतेनापि न कल्पन्ते’ इति। एवं च यवमानिति त्रिप्रभृतिषु बहुत्वसद्भावेऽपि न भवति। इह यवमतीभिरद्भिर्यूपं प्रोक्षतीति जातिमात्रसम्बन्धो विवक्षित इति भूमाभावेऽपि भवति। भूमादिग्रहणं त्वभिधानस्वभावप्रदर्शनार्थम्। निन्दायां ककुदावर्तिनी कन्या, प्रशंसायां रूपवान्, नित्ययोगे क्षीरिणो वृक्षाः, अतिशायने उदरिणी कन्या। संसर्गे, संसर्गःउसंयोगः; दण्डी संसक्तदण्ड उच्यते। गृहावस्थिते तु दण्डीति न भवति। क्वचिद् वृतौ ग्रन्थः अस्तिविवक्षायामस्तिमानिति। तत्र भूमादिष्वस्तिविवक्षायां च भवति मतुबादय इति समुच्चयो व्याख्येयः। अस्तिशब्दो विभक्तिप्रतिरूपको निपातः कर्तृविविशिष्टसतावाची, नैषोऽस्तेर्लट्। प्रत्ययान्तरमपि दृश्यते - अस्तित्वम्, अस्तितेति। अव्यभिचारादस्तिसामानाधिकरण्यं नास्तीत्यस्तिविवक्षायां प्रत्ययो विधीयते। एतच्च सूत्रे ठस्तिऽ इति तन्त्रेण लुप्तपञ्चमीकप्रकृतिनिर्द्देशाश्रयणाल्लभ्यते। अस्तिमानिति च वृत्तिविषये कर्तृविशेषे धनेऽस्तिशब्दो वर्तते। न हि कर्तृसामान्येन प्रत्ययार्थस्य विशेषणं सम्भवति, सर्वस्यैव हि सर्वदा यत्किञ्चिदस्ति। गुणवचनेभ्य इति। अत्र शुक्लादय एवाभिन्नरूपा गुणे तद्वति च वर्तमाना गृह्यन्ते, न तु सर्वदा गुणमात्रवचना रूपादयः। तत्र यद्यप्यभेदोपचारादेव शुक्लः पट इत्यादिसिद्धिः, तथापि पटस्य शुक्ल इति भेदविवक्षाया अपि दर्शनात्पक्षे मतुप उत्पन्नस्य श्रवणप्रसङ्गाल्लुग्वक्तव्य इति ॥

Nyaas

प्रत्ययार्थो इति। ननु च यद्? यस्य भवति तत तस्मिन्नस्ति, यद्यस्मिन्नस्ति तत्? तस्य भवति, यथा - वृक्षे शाखा, वृक्षस्य शाखेति; तत्रान्यतरनिर्देशेनैव सिद्धम्, तत्किमर्थं द्वौ निर्दिश्येते? नैतदस्ति; न हि षष्ठीसप्तम्यर्थयोरवश्यम्भावो समावेशः, तथा हि गावो गङ्गायां भवन्ति, न च ते तस्याः; तथा देशान्तरगतोऽपि पुत्रो देवदत्तस्य च भवति, न चासौ तत्र। तस्मादुभावपि निर्देष्टव्यौ। अस्तीति प्रकृतिविशेषणम् इति। ननु च सम्भवे व्यभिचारे च विशेष्यविशेषणभावो भवति नीलोत्पलवत्, न चास्तित्वस्य व्यभिचारोऽस्ति, यथोक्तम् - न सत्तां पदार्थो व्यभिचरति इति। तस्या व्यवच्छेद्याभावादपार्थकमिदं विशेषणम्? नैतदस्ति; विशेषणोपादानसामर्थ्यादेव विशिष्टैव सत्ता विशेषणत्वेनोपात्ता, न सत्तामात्रमिति प्रतीयते। सा पुनर्विशिष्टसत्ता सप्प्रतिसत्तैव। अस्ति च तस्या व्यभिचार इति प्रसज्यत एव विशेष्यविशेषणभावः। किं पुनः सम्प्रतिसत्ता विशेषणत्वेनोपात्ता? तस्यामेव प्रत्ययो यथा स्यात्? भूतभविष्यत्सत्तायां मा भूदित्येवमर्थम्। तेन गावोऽस्यासन्, गावोऽस्य भवितार इत्यतर्न भवति। ननु च गोमानासीत, गोमान्? भवितेति भूतभविष्यत्सत्ताय#आ#ं मतुपं विधाय कथं प्रयुज्यते? नैष दोषः, धातुसम्बन्धेऽयथाकालोक्तानामपि प्रत्ययानां साधुत्वविधानादेवं प्रयुज्यचे; न भूतभविष्यत्सत्तायां प्रत्ययविधानात्। अस्त्यर्थोपाधिकं चेद्भवतीत्यर्थः इति। वत्र्मानसत्ताविशिष्टं यदि तत्र भवतीत्यर्थः। गोमान् इति। उगिदचाम् (7.1.70) इति नुम्। हल्ङ्यादिसंयोगान्तलोपौ। अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्धः। वृक्ष वान् इति मादुपधायाश्च (8.2.9) इत्यादिना वत्वम्।विषयनियमः इति। विषये प्रत्ययस्य भावो विषयनियमः। स पुनर्विशिष्टविषयो भूमादिरिति दर्शयन्नाह - भूमनिन्दा इत्यादि। बहोर्भावो भूमा। पृथ्वादिभ्य इमनिच् इतीमनिच्। बहोर्लोपो भू च वहोः (6.4.158) इति भूभावः, इकारलोपश्च। गावो बहवोऽस्य सन्तीति गोमान्। एकस्य द्वयोर्वा विद्यमानत्वेऽपि गोमानिति न व्यपदिश्यते। निन्दायां-ककुदावर्तीति। निष्फलत्वान्निन्दितः। प्रशंसायाम् - प्रशस्तं रूपं यस्यास्ति रहूपवानित्युच्यते। नित्ययोगे-क्षीरमेषामस्तीति क्षीरिणो वृक्षाः। नित्यः क्षीरसम्बन्धो येषां त उच्यन्ते। अतिशायने उदरिणी कन्या इति। यस्या अतिशयेनोदरमस्ति सैवमुच्यते। संसर्गे दण्डी इति। दण्डसंसर्ग उच्यते। तेनेह गृहस्थिते विद्यमानेऽपि दण्डे दण्डीति नाभिधीयते॥

Prakriyasarvasvam

तदस्यास्तीति तदस्मिन्नस्तीति चार्थे मतुप् स्यात् । गावोऽस्य सन्तीति गोमान् कृष्णः । श्रीवत्सोऽस्मिन्नस्तीति श्रीवत्सवान् । रमावान् । ‘मादुपधायाश्च—’ (८–२–९) इति अवर्णान्तान्मस्य वत्वम् । मान्ताद्वत्वम् । शम्वान् । मोपधात् शमीवान् । अवर्णोपधाद् यशस्वान् भास्वान् । अत्र ‘स्वादिषु’ (१–४–१७) इति पदत्वेन सस्य रुत्वे प्राप्ते ।