52099: फेनादिलच् च¶
Padacheda: फेनात् | S | 5 | 1 |
इलच् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्रथमासमर्थात् ‘फेन’ शब्दात् लच्, इलच् तथा मतुँप् प्रत्ययाः भवन्ति ।
प्रथमासमर्थात् फेन (= foam) अस्मात् शब्दात् मतुबर्थे (= तत् अस्य अस्ति / तत् अस्मिन् अस्ति एतयोः अर्थयोः) ‘इलच्’ प्रत्ययः अनेन सूत्रेण पाठ्यते । सूत्रे ‘च’ इति निर्दिश्यते, अतः पूर्वसूत्रात् ‘लच्’ तथा ‘अन्यतरस्याम्’ एतौ द्वौ शब्दौ अनुवर्तेते । इत्युक्ते, फेन-शब्दात् लच् तथा इलच् - द्वावपि विकल्पेन भवितुमर्हतः । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि भवति । यथा - 1. फेनः अस्य अस्ति सः = फेन + इलच् → फेनिल । 2. फेनः अस्य अस्ति सः = फेन + लच् → फेनल । 3. फेनः अस्य अस्ति सः = फेल + मतुँप् → फेनवत् । त्रयः अपि एते शब्दाः ‘फेनक’ (soap) अस्मिन् अर्थे प्रयुज्यन्ते ।
Vasu English Summary¶
The affixes इलच् and लच् come in the sense of मतुप् after the word फेन and optionally after the affix मतुप् also.
Vasu English Translation¶
The affixes इलच् and लच् come in the sense of मतुप् after the word फेन and optionally after the affix मतुप् also. The word च् draws in लच्; and the word अन्यतरस्याम् understood in the sutra adds मतुप् in the alternative. As फेनिलः, फेनलः and फेनवान् ॥
Kashika¶
फेनशब्दादिलच् प्रत्ययो भवति मत्वर्थे, चकारात् लच्च। अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थं सर्वत्रैवानुवर्तते। फेनिलः, फेनलः, फेनवान्॥
Siddhanta Kaumudi¶
चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥
Balamanorama¶
फेनादिलच् च - फेनादिलच्च । ‘मत्वर्थ’ इति शेषः । चाल्लजिति । संनिहितत्वादिति भावः । नन्वेवं सति मतुब् नैव स्यादित्यत आह — अन्यतरस्यांग्रहणमिति । सिघ्मादिसूत्रे व्याख्यातमिदम् ।
Prakriyasarvasvam¶
फेनिलः फेनलः फेनवान् ।।
Sutra Prayogas¶
फेनिलम् (रघुवंशम्): फेनादिलच इतीलच्प्रत्ययः।