52092: क्षेत्रियच् परक्षेत्रे चिकित्स्यः

Padacheda: क्षेत्रियच् | S | 1 | 1 |

परक्षेत्रे | S | 7 | 1 |

चिकित्स्यः | S | 1 | 1 |

Sutrartha

‘परक्षेत्रे चिकित्स्यः’ इत्यस्मिन् अर्थे ‘क्षेत्रिय’ इति शब्दः निपात्यते ।

अनेन सूत्रेण ‘क्षेत्रिय’ इति शब्दस्य निपातनम् क्रियते । (‘क्षेत्रियच्’ इत्यत्र विद्यमानः चकारः इत्संज्ञकः अस्ति, तद्धितस्य (6.1.164) इत्यनेन यकारोत्तरस्य अकारस्य उदात्तस्वरविधानार्थमयम् चकारः अत्र स्थाप्यते )। ‘क्षेत्रिय’ अस्य शब्दस्य ‘परक्षेत्रे चिकित्स्यः’ इति अर्थः अस्मिन् सूत्रे दीयते । ‘परक्षेत्रम्’ इत्युक्ते भिन्नम् शरीरम् (A different body) । ‘चिकित्स्य’ इत्युक्ते ‘नष्टुम् शक्यः’ (curable) । यः कोऽपि व्याधिः अस्मिन् शरीरे निवारयितुम् न शक्यते, अपितु भिन्नशरीरस्य स्वीकारः क्रियते चेदेव अस्य निरारकणम् सम्भवति, तस्य निर्देशार्थम् ‘क्षेत्रियः’ इति शब्दः प्रयुज्यते । (मृत्युः उत जन्मान्तरम् इत्येव अस्य व्याधेः निराकरणम् - इति आशयः । A terminal illness, that can only be cured when the person takes a different body (by dying and then taking another birth) is referred as क्षेत्रियः । यथा - क्षेत्रियः कुष्ठः । अस्य शब्दस्य निर्माण् काशिकाकारः एतादृशं दर्शयति - ‘तस्मिन्’ इत्यर्थे ‘परक्षेत्र’शब्दात् घच्-प्रत्ययः = परक्षेत्र + घच् → क्षेत्र + घच् [पर-शब्दस्य लोपः निपात्यते] → क्षेत्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति इय-आदेशः] → क्षेत्र् + इय [यस्येति च (6.4.148) इति अकारलोपः] → क्षेत्रिय विशेषः - अत्र निर्मितस्य ‘क्षेत्रिय’ शब्दस्य प्रयोगः केषुचन अन्येषु सन्दर्भेषु अपि भवति , यतः ‘चिकित्स्यः’ अस्य शब्दस्य अत्र भिन्नाः अर्थाः गृह्यन्ते । क्रमेण पश्यामः - अ) यदि कश्चन मनुष्यः विषप्राशनं करोति (consumes poison that does not have an antidote), तर्हि तस्य मनुष्यस्य विषात् मुक्तिः जन्मान्तरेण एव सम्भवति, अन्यथा न । अस्यां स्थितौ एतादृशस्य विषस्य निर्देशः अपि ‘क्षेत्रियम् विषम्’ इति भवति । अत्रापि ‘परक्षेत्रे (= भिन्ने शरीरे) एव निवारयितुम् शक्यः’ इति अत्र अर्थः । आ) क्षेत्रे (= कृषिक्षेत्रे, in a farm land) धान्येन सह यत् तृणम् (weed) जायते, तस्य निर्देशः अपि ‘क्षेत्रिय’ इत्यनेन भवति । एकस्मात् स्थलात् निष्कास्य अन्यस्मिन् स्थले नीत्वा नष्टुम् यानि अर्ह्याणि / योग्यानि, तानि क्षेत्रियाणि तृणानि । इ) यदि कश्चन मनुष्यः परस्त्रीभिः सह शरीरसम्बन्धं स्थापयति, तर्हि तस्य निर्देशः अपि ‘क्षेत्रिय’ इत्यनेन क्रियते । परक्षेत्रे (= परदाराणाम् शरीरस्य विषये) दण्डनीयः सः क्षेत्रियः । अत्र ‘चिकित्स्यः’ इत्यस्य अर्थः दण्डनीयः इति क्रियते, तथा च ‘परक्षेत्रे’ इत्यस्य अर्थः ‘परदाराणाम् विषये’ इति स्वीक्रियते । एते सर्वे अर्थाः उचिताः एव सन्ति । परन्तु शिष्टप्रयोगं दृष्ट्वैव एतेषाम् प्रयोगः भवितुमर्हति इत्यपि स्मर्तव्यम् ।

Vasu English Summary

The word क्षेत्रियच् (क्षेत्रिय) is anomalous meaning ‘curable in another body’ i.e. ‘not curable in this life’.

Vasu English Translation

The word क्षेत्रियच् (क्षेत्रिय) is anomalous meaning ‘curable in another body’ i.e. ‘not curable in this life’. The whole word enunciated here in the sense of para-kshetre chikitsya; or the word क्षेत्रिय, with acute on the last syllable, is formed by adding the affix घच् to the word परक्षेत्र, the force of the affix being ‘curable therein’ and the word पर is elided before this affix. Thus क्षेत्रियो व्याधिः ‘incurable disease’. क्षेत्रियं कुष्ठं ‘incurable Ieprosy’: i.e. –organic disease. The word परक्षेत्र means body assumed in the next reincarnation. The word क्षेत्रिय applies to an irremediable disease.

The word क्षेत्रियं means ‘poison’ also = यत् परछेत्रे परशरीरेसंक्रमय्य चिकित्स्यते ॥ ‘that which is to be removed from another’s body where it has entered’. Or क्षेत्रिय means ‘rank growth or grass’, i.e. यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि नाशयितव्यानि ॥ “that like grass &c, which grows in a para-kshetra or another’s field i. e. a field set apart for grain &c, and not for grass, and which therefore must be weeded out (chikitsya)” Or क्षेत्रिय is an ‘adulterer’, i.e. परदाराः परक्षेत्रं, तत्र चिकित्स्यः निगृहीतव्यः ॥ These are all secondary meanings.

Bhashya

क्षेत्रियच्परक्षेत्रे चिकित्स्यः(2110) (निपातनाधिकरणम्) (वार्तिकावतरणभाष्यम्) किं निपात्यते? (5756 सूत्रार्थज्ञापकवार्तिकम्॥ 1 ॥) - क्षेत्रियः श्रोत्रियवत् - (भाष्यम्) क्षेत्रियः श्रोत्रियवन्निपात्यते। परक्षेत्रे चिकित्स्य इत्येतस्य वाक्यस्यार्थे क्षेत्रियच् इत्येतत्पदं निपात्यते॥ (5757 प्रकारान्तरेण सूत्रार्थज्ञापकवार्तिकम्॥ 2 ॥) - परक्षेत्राद्वा तत्र चिकित्स्य इति परलोपो घच्च - (भाष्यम्) परक्षेत्राद्वा तत्र चिकित्स्य इत्येतस्मिन्नर्थे परलोपो निपात्यते घच्च प्रत्ययः। परक्षेत्रे चिकित्स्यः - क्षेत्रियः॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम्॥

Kashika

क्षेत्रियजिति निपात्यते। परक्षेत्रे चिकित्स्य इत्येतस्मिन् वाक्यार्थे पदवचनम्। परक्षेत्राद् वा तत्रेति सप्तमीसमर्थात् चिकित्स्य इत्येतस्मिन्नर्थे घच् प्रत्ययः परशब्दलोपश्च निपात्यते। परक्षेत्रे चिकित्स्यः क्षेत्रियो व्याधिः। क्षेत्रियं कुष्ठम्। परक्षेत्रं जन्मान्तरशरीरम्, तत्र चिकित्स्यः क्षेत्रियः। असाध्योऽप्रत्याख्येयो व्याधिरुच्यते। नामृतस्य निवर्तत इत्यर्थः। अथ वा क्षेत्रियं विषम् यत् परक्षेत्रे परशरीरे संक्रमय्य चिकित्स्यते। अथवा क्षेत्रियाणि तृणानि, यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि नाशयितव्यानि। अथ वा क्षेत्रियः पारदारिकः। परदाराः परक्षेत्रम्, तत्र चिकित्स्यो निग्रहीतव्यः। सर्वं चैतत् प्रमाणम्॥

Siddhanta Kaumudi

क्षेत्रियो व्याधिः शरीरान्तरे चिकित्स्यः । अप्रतीकार्यं इत्यर्थः ॥

Balamanorama

इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्- इन्द्रदत्तमिति वा - इन्द्रियम् । इन्द्रलिङ्गमित्याद्यर्थेषु इन्द्रियमिति भवति । इन्द्रशब्दाद्यथायोगं षष्ठीतृतीयान्ताल्लिङ्गमित्याद्यर्थेषु घच् निपात्यत इति यावत् । इन्द्र आत्मेति ।स एतमेव पुरुषं ब्राहृ ततममपश्यदिदमदर्शमिति । तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्रमित्याचक्षते॑ इति श्रुतेरिति भावः । तस्यलिङ्गमिति । आत्मनोऽनुमापकमित्यर्थः । लिङ्गत्वमुपपादयति — करणेनेति ।चक्षुरादीन्द्रियं किञ्चित्कत्र्रधिष्ठितं भवितुमर्हति, करणत्वात्, घटकरणदण्डादिव॑दित्यनुमानादित्यर्थः । मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातामिन्द्रियम् । इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम् । रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः । इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह — इतिकरणमिति । इतिशब्द इत्यर्थः ।

Tattvabodhini

इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्- इन्द्रदत्तमिति वा - इन्द्रियमिन्द्र । इन्द्रशब्दाद्धच् । इन्द्रेण दृष्टं=ज्ञातं -॒मम चक्षुः, मम श्रोत्रम् इत्यादिक्रमेण । सृष्टम् -अदृष्टद्वारा । जुष्टं=प्रीणितं सेवितं वा । दत्तं=यथायतं विषयेभ्यः । रूढिशब्दोऽयं यथाकथञ्चिद्व्युत्पादितः ।अथ परस्मैपदप्रक्रिया ।शेषात्कर्तरि ।अनुदात्तङित॑ इत्यादिष्वात्मनेपदमेवेति नियमान्न तत्र परस्मैपदस्य संभवः । तथा चकर्तरि परस्मैपद॑मित्यनेनपरस्मैपदमेव॑ति नियमिते त्दभिन्नानामेव तद्भविष्यतीति शेषग्रहणं स्पष्टप्तिपत्त्यर्थमित्याहुः ।अनुदात्तङितः॑ इत्यादिष्वेवात्मनेपदमिति नियमात्शेषात्कर्तरी॑इत्यनेन परस्मैपदमेव तत्र भविष्यतीति परस्मैपदग्रहणं स्पष्टप्रतिपत्त्यर्थमिति केचित् ।

Padamanjari

‘क्षि निवासगत्योः’ इत्यस्माद्यथायोगमधिकरणादौ ष्ट्रन्, क्षेत्रम्। परक्षेत्रं जन्मान्तरशरीरमिति। आत्मनो निवासस्थानत्वात्क्षेत्रम्, परं च तत्क्षेत्र चेति कर्मधारयः। तत्र चिकित्स्यःउप्रतिकार्योपनेय इत्यर्थः, न तु तत्र भिषजितव्य इति। यदाह - नामृतस्येति । अथ वेति। समुच्चय एवात्र विवक्षितः, न तु विकल्पः। वक्ष्यति -‘सर्वचैतत्प्रमाणम्’ इति। कृत्यः शक्यार्थे, पूर्वत्र तु कर्ममात्रे, उतरयोरर्हार्थे। सस्यार्थ इति। अनेन क्षेत्रस्य परकीयत्वमाह - परदाराः परक्षेत्रमिति। कर्मणि ष्ट्रन्, क्षेतव्याःउगन्तव्याः, उपगमनार्हा दाराःउक्षेत्रम्। तत्रेति। तस्मिन्विषये। निगृहीतव्य इति। दण्कडादिना ॥

Nyaas

चिकित्स्य इति शक्यार्थे कृत्यः। वाक्यार्थे इत्यादि। परक्षेत्रे चिकित्स्यः इत्यस्य वाक्यस्यार्थे क्षेत्रिय इत्येतत्? पदवचनमविद्यमानप्रकृतिप्रत्ययविभागं निपात्यते। चकारोऽन्तोदात्तार्थः। परक्षेत्राद्वा इत्यादि। वाशब्दः प्रकारान्तरं द्योतयति। अथ वा - परक्षेत्रशब्दात्? तत्रेति सप्तमीसमर्थात्? चिकिस्य इत्यत्रार्थे प्रत्ययो निपात्यते, परशब्दस्य च लोपः। परक्षेत्रं जन्मान्तरशरीरम् इति। इहत्याच्छरीरादन्यत्वादसाध्य इत्यनेन परशब्दस्यार्थं दर्शयति। सस्यार्थं हि यत्? क्षेत्रं संस्कृतं तदनुत्पाद्यत्वात्? तृणानां परक्षेत्रं भवति। सर्वं चैतत्? प्रमाणम् इति। सर्वस्याचार्येण प्रतिपादितत्वतात्॥

Prakriyasarvasvam

अस्मिन्नर्थे चिदेष निपात्यः ॥ <karika>अन्यजन्मभवे देहे चिकित्स्यः क्षेत्रियो गदः । देहान्तरे सङ्क्रमय्य चिकित्स्यं क्षेत्रियं विषम् ॥ ३३१ ॥ अन्यसस्यस्य केदारे विनाश्यं क्षेत्रियं तृणम् । परदारेषु गमनाद्धन्तव्यः क्षेत्रियः खलः ॥ ३३२ ॥</karika>