52088: इष्टादिभ्यश्च

Padacheda: इष्टादिभ्यः | S | 5 | 3 |

च | S | 0 | 0 |

Sutrartha

इष्टादिगणस्य शब्देभ्यः ‘अनेन’ इति सन्दर्भे ‘इनि’ प्रत्ययः भवति ।

इष्टादिगणस्य प्रातिपदिकेभ्यः ‘अनेन’ अस्मिन् सन्दर्भे ‘इनि’ इति प्रत्ययः भवति । इष्टादिगणः अयम् - इष्ट, पूर्त, उपसादित, निगदित, परिवादित, निकथित, परिकथित, परिगदित, सङ्कलित, निपठित, सङ्कल्पित, अनर्चित, विकलित, संरक्षित, निपतित, पठित, परिकलित, अर्चित, परिरक्षित, पूजित, गणित, परिगणित, उपगणित, अनुगणित, अवकीर्ण, परित, आयुक्त, आम्नात, श्रुत, अधीत, आसेवित, अपवारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, अनुयुक्त, उपनत, अनुगुणित, अनुपठित, व्याकुलित, निगृहीत, निषादित । उदाहरणानि - 1. अनेन इष्टम् सः इष्टी । The one who desired something - इत्यर्थः । 2. अनेन पूर्तम् सः पूर्ती । The one who has completed certain work । 4. अनेन उपसादितम् सः उपसादिती । The one who has come near । आदयः । एतेषाम् शब्दानां प्रयोगः शिष्टप्रयोगं दृष्ट्वैव कर्तव्यः । विशेषः - इष्टादिगणे विद्यमानाः सर्वे शब्दाः ‘क्त’प्रत्ययान्ताः सन्ति । एतेभ्यः निर्मिताः इन्-प्रत्ययान्तशब्दानाम् वाक्ये यदा प्रयोगः भवति, तदा वाक्ये विद्यमानस्य कर्मपदस्य सप्तमी विभक्तिः विधीयते । अस्मिन्नेव विषये काशिकाकारः वदति - ‘क्तस्य इन्-विषयस्य कर्मणि इति सप्तम्युपसङ्ख्यायते’ । यथा - यज्ञे इष्टी ( The one who desired a यज्ञ) । अत्र ‘इष्टी’ इति कर्ता, तस्य कर्मपदम् ‘यज्ञ’ इति । वाक्ये इदं कर्मपदम् सप्तम्या निर्दिश्यते, अतः ‘यज्ञे इष्टी’ इति वाक्यप्रयोगः क्रियते । एवमेव - श्राद्धे पूर्ती (The one who completed a श्राद्ध) । आचार्ये उपसादी (The one who has approached the teacher) - आदयः । अत्र सर्वत्र कर्मपदस्य सप्तमी विभक्तिः विधीयते ।

Vasu English Summary

The affix इनि (इन्) comes in the sense of ‘by him’ after इष्ट etc.

Vasu English Translation

The affix इनि (इन्) comes in the sense of ‘by him’ after इष्ट etc. Thus इष्टमनेन = इष्टी यज्ञे; पूर्त्तीश्राद्धे &c. “who wished”, “who performed a charitable act”. The words इष्टिन्, पूर्त्तिन् &c. formed by इन् will govern locative instead of accusative. See vartika under (2.3.36).

1 इष्ट 2 पूर्त, 3 उपासादित (उपसादित), 4 निगदित, 5 परिगदित, 6 परिवादित, 7 निकथित, 8 निपादित, 9 निपठित, 10 संकलित, 11 परिकलित, 12 संरक्षित, 13 परिरक्षित, 14 अर्चित, 15 गणित, 16 अवकीर्ण, 17 आयुक्त, 18 गृहीत, 19 आम्नात, 20 श्रुत (आम्नातश्रुत), 21 अधीत, 22 अवधान (!), 23 आसेवित, 24 अवधारित, 25 अवकल्पित, 26 निराकृत, 27 उपकृत, 28 उपाकृत, 29 अनुयुक्त, 30 अनुगणित, 31 अनुपठित, 32 व्याकुलित, 33 परिकथित, 34 संकल्पित, 35 विकलित 36 निपतित, 37 पठित, 38 पूजित, 39 परिगणित, 40 उपगणित, 41 परित (!) 42 अपवारित, 43 उपनत, 44 निगृहीत, 45 अपचित. ॥

Kashika

अनेनेत्येव। इष्टादिभ्यः प्रातिपदिकेभ्योऽनेनेत्यस्मिन्नर्थ इनिः प्रत्ययो भवति। इष्टमनेन इष्टी यज्ञे । पूर्ती श्राद्धे। क्तस्येन्विषयस्य कर्मणि (वा० २.३.३६) इति सप्तम्युपसंख्यायते॥ इष्ट। पूर्त। उपसादित। निगदित। परिवादित। निकथित। परिकथित। संकलित। निपठित। संकल्पित। अनर्चित। विकलित। संरक्षित। निपतित। पठित। परिकलित। अर्चित। परिरक्षित। पूजित। परिगणित। उपगणित। अवकीर्ण। परित। आयुक्त। आम्नात। श्रुत। अधीत। आसेवित। अपवारित। अवकल्पित। निराकृत। उपकृत। उपाकृत। अनुयुक्त। उपनत। अनुगुणित। अनुपठित। व्याकुलित। निगृहीत। इष्टादिः॥

Siddhanta Kaumudi

इष्टमनेन इष्टी । अधीती ॥

Laghu Siddhanta Kaumudi

इष्टमनेन इष्टी । अधीती ॥ इति भवनाद्यर्थकाः ॥ १२ ॥

Balamanorama

इष्टादिभ्यश्च - इष्टादिभ्यश्च । इष्टादिभ्यस्तृतीयान्तेभ्योऽनेनेत्यर्थे इनिः स्यादित्यर्थः ।

Nyaas

इष्टो यज्ञे इति। कथं पुनरत्र सपतमी; यावता यज्ञस्य कर्मतायां द्वितीयया भवितव्यम्? इत्याह - क्तस्येन्विषयस्य इत्यादि।

Prakriyasarvasvam

एभ्योऽनेनेत्यर्थे इनिः स्यात् । इष्टी मखे । ‘क्तस्येन्विषयस्य कर्मण्युप- सङ्ख्यानम्’ इति कर्मणि सप्तमी ॥ <karika>इष्टी सर्वमखे श्रुती श्रुतिशते तत्त्वे गृहीत्यर्चिती गोविन्दे पठिती तथानुपठिती शास्त्रेषु सर्वेष्वपि । शत्रौ व्याकुलिती तथा खलजने दूरं निराकृत्यसौ मित्रेषूपकृती विभाति नृपतिर्दीनेषु संरक्षिती ॥ ३२९ ॥ आम्नाती निगमे ग्रहेषु गणिती धर्मेऽवधारित्यसा- वाचारे परिरक्षिती निकथिती श्रेयःसु नित्यं नृणाम् । न्यायेष्वप्यवकल्पिती परिकलित्युच्चैः कलाकौशले वेद्ये सङ्कलिती विराजति सुधीरासेविती केशवे ॥ ३३० ॥</karika> अधीती वेद इत्यादि चास्ति ॥

Sutra Prayogas

  • कृती (रघुवंशम्): इष्टादिभ्यश्च इतीनिप्रत्ययः।

  • कृती (किरातार्जुनीयम्): इष्टादिभ्यश्च इतीनिप्रत्ययः।

  • इष्टिनां (भट्टिकाव्यम्): इष्टादिभ्यश्व इतीनिः।

  • आम्नातिभिर् (भट्टिकाव्यम्): इष्टादिभ्यश्च इति इनिः।