52080: उत्क उन्मनाः

Padacheda: उत्कः | S | 1 | 1 |

उन्मनाः | S | 1 | 1 |

Sutrartha

‘उन्मनाः’ अस्मिन् अर्थे ‘उत्कः’ अयम् शब्दः निपात्यते ।

उद्गतम् मनः यस्य सः उन्मनाः । यस्य मनः नित्यम् विचलितमस्ति, सः (The one whose mind continuously wonders) तस्य निर्देशार्थमनेन सूत्रेण ‘उत्क’ इति शब्दः निपात्यते । ‘उत्सुकः’, ‘उत्कण्ठितः’ (curious / eager) एतयोः अर्थयोः अपि अयम् शब्दः प्रयुज्यते । यथा - उत्कः देवदत्तः, उत्कः प्रवासी - आदयः । व्याख्यानैः ‘उत्’ इत्यस्मात् उपसर्गात् ‘तद्वान्’ (= उद्गतम् मनः अस्य सः / One having the a wandering mind) अस्मिन् अर्थे ‘कन्’ प्रत्ययं कृत्वा अयम् शब्दः निपात्यते । उत् + कन् → उत्क ।

Vasu English Summary

The word उत्क is anomalous meaning ‘longing after, yearning’.

Vasu English Translation

The word उत्क is anomalous meaning ‘longing after, yearning’. He whose mind anxiously desires or yearns after a thing is called उन्मनः ॥ The word उत्कः is formed by adding कन् to the preposition उद्. Thus उत्को देवदत्तः, उत्कः प्रवासी = उत्सुकः or उत्कण्ठितः ॥

Kashika

उत्क इति निपात्यते, उन्मनाश्चेत् स भवति। उद्गतं मनो यस्य स उन्मनाः। उच्छब्दात् ससाधनक्रियावचनात् तद्वति कन् प्रत्ययो निपात्यते। उत्को देवदत्तः। उत्कः प्रवासी। उत्सुक इत्यर्थः॥

Siddhanta Kaumudi

उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः ॥

Balamanorama

उत्क उन्मनाः - उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्टितवृत्तेरित्यर्थः ।

Padamanjari

उच्छब्दात्ससाधनक्रियावचनादिति। साधनमुमनः, क्रियाउगमनम्, उद्रते मनसि वर्तमानादित्यर्थः। यद्वतीति। उद्गतं मनो यस्य तस्मिन्नित्यर्थः। उत्सुकःऊत्कण्ठितः ॥

Nyaas

ससाधनक्रियावचनात् इति। साधनम्=मनः; क्रिया=गमनम्; सह तेन गमनक्रिया। तद्वचनात्? ससाधने गमने वर्तमानादित्यर्थः। तद्वति इति। तच्छब्देन क्रिया प्रत्यवमृश्यते। ससाधनक्रियावतीत्यर्थः। उत्सुकः इति। उत्कष्टित इत्यर्थः॥

Sutra Prayogas

  • उत्कं (शिशुपालवधम्): उत्क उन्मनाः इति निपातः।