52097: सिध्मादिभ्यश्च

Padacheda: सिध्मादिभ्यः | S | 5 | 3 |

च | S | 0 | 0 |

Sutrartha

सिध्मादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः विकल्पेन लच्-प्रत्ययः भवति, पक्षे मतुँप्-प्रत्ययः विधीयते ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः प्रथमासमर्थेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन मतुँप्-प्रत्यये प्राप्ते ; सिध्मादिगणस्य शब्देभ्यः वर्तमानसूत्रेण विकल्पेन लच्-प्रत्ययः अपि भवति । पक्षे मतुँप्-प्रत्ययः तु विधीयते एव । सिध्मादिगणः अयम् - सिध्म, गडु, मणि, नाभि, जीव, निष्पाव, पांसु, सक्तु, हनु, मांस, परशु, पार्ष्णिधमन्योर्दीर्घश्च (गणसूत्रम्), पर्ण, उदक, प्रज्ञा, मण्ड, पार्श्व, गण्ड, ग्रन्थि, वातदन्तबलललाटानामूङ् च (गणसूत्रम्), जटाघटाकलाः क्षेपे (गणसूत्रम्), सक्थि, कर्ण, स्नेह, शीत, श्याम, पिङ्ग, पित्त, शुष्क, पृथु, मृदु, मञ्जु, पत्र, चटु, कपि, कण्डु, संज्ञा, क्षुद्रजन्तूपतापाच्च इष्यते (गणसूत्रम्) । अस्मिन् गणे केचन अदन्तशब्दाः अपि सन्ति । एतेभ्यः लच्-प्रत्ययः न क्रियते चेत् औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति, न हि अत इनिठनौ (5.2.115) इत्यनेन इनि/ठन्-प्रत्ययौ । अस्य निर्देशार्थम् एव अस्मिन् सूत्रे ‘मतुँप्’ इत्यस्य विशिष्टरूपेण अनुवृत्तिः स्वीक्रियते । कानिचन उदाहरणानि एतादृशानि - 1. सिध्मः (कश्चन चर्मरोगः) अस्य अस्ति सः = सिध्म + लच् → सिध्मलः । पक्षे मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इत्यनेन मकारस्य वकारादेशं कृत्वा ‘सिध्मवान्’ इति अपि रूपं सिद्ध्यति । 2. गडु (hump / hunch) अस्य अस्ति सः गडुलः गडुमान् वा मनुष्यः । 3. पांसु (गोमय /dung / manure) अस्मिन् अस्ति तत् पांसुलम् पांसुमत् वा स्थानम् । 4. प्रज्ञा अस्य अस्ति सः प्रज्ञालः प्रज्ञावान् वा पुरूषः । 5. शीतमस्मिन् अस्ति सः शीतलः शीतः वा वायुः । (‘शीत’ शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन ‘शीत’ इत्येव प्रातिपदिकं सिद्ध्यति ) । 6. मञ्जु (charm) यस्मिन् अस्ति सः मञ्जुलः मञ्जुः वा स्वरः । (‘मञ्जु’ शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन ‘मञ्जु’ इत्येव प्रातिपदिकं सिद्ध्यति ) । 7. कपि (brown) यस्याः अस्ति सा कपिला कपिः वा धेनुः । (‘कपि’ शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन ‘कपि’ इत्येव प्रातिपदिकं सिद्ध्यति ) । अस्मिन् गणे कानिचन गणसूत्राणि अपि उच्यन्ते । तानि एतादृशानि - 1. पार्ष्णि-धमन्योः दीर्घः च (गणसूत्रम्) - ‘पार्ष्णि’ (= heel) तथा धमनि (= pipe / vein) एतयोः शब्दयोः अस्मिन् गणे ग्रहणं भवति, तथा च एताभ्याम् लच्-प्रत्यये परे अङ्गस्य दीर्घादेशः अपि भवति । यथा - पार्ष्णिः अस्य अस्ति सा पार्ष्णीला उपानद् । धमनिः अस्य अस्ति तत् धमनीलम् हृदयम् । 2. वात-दन्त-बल-ललाटानाम् ऊङ् च (गणसूत्रम्) - वात, दन्त, बल, तथा ललाट - एतेभ्यः शब्देभ्यः लच्-प्रत्ययः भवति, तथा च एतेषाम् ‘ऊङ्’ इति आदेशः भवति । ङित्वात् अयमादेशः अन्तिमवर्णस्य स्थाने एव विधीयते । यथा - वातः अस्य अस्ति सः वातूलः । एवमेव - दन्तूलः, बलूलः, ललाटूलः । 3. जटा-घटा-कलाः क्षेपे (गणसूत्रम्) - जटा, घटा, कला (various arrangements of hairs) एतेभ्यः शब्देभ्यः ‘क्षेप’ (= निन्दा / insult ) अस्मिन् अर्थे लच्-प्रत्ययः भवति । यथा - जटा अस्य अस्ति सः जटालः मूढः । घटा अस्य अस्ति सः घटालः । कला अस्य अस्ति सः कलालः । पक्षे मतुँप्-प्रत्ययः अपि भवति - जटावान्, घटावान्, कलावान् । यत्र ‘क्षेप’ इति अर्थः न प्रयुज्यते, तत्र तु औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति । विशेषः - एतत् गणसूत्रम् लोमादिपामादिपिच्छादिभ्यः शनेलचः (5.2.100) इत्यत्र पिच्छादिगणे पुनः पाठ्यते । परन्तु तत्र एतेभ्यः शब्देभ्यः इलच्-प्रत्ययः विधीयते । 4. क्षुद्रजन्तु-उपतापात् च इष्यते (गणसूत्रम्) - ये शब्दाः क्षुद्रजन्तूनाम् (micro-organisms, insects) यथा उपतापादीनाम् (pain, injury, bruise आदयः) निर्देशं कुर्वन्ति तेषामपि अस्मिन् गणे समावेशः भवति । यथा - [अ] क्षूद्रजन्तवः - यूका (lice) अस्मिन् अस्ति सः यूकालः । मक्षिका (bee) अस्मिन् अस्ति सः मक्षिकालः (bee hive) । [आ] उपतापादयः - विचर्चिका (itch) अस्य अस्ति सः विचर्चिकालः । मूर्च्छा (fainting) अस्य अस्ति सः मूर्च्छालः । विपादिका (certain foot-disease) अस्य अस्ति सः विपादिकालः । एतेभ्यः सर्वेभ्यः शब्देभ्यः पक्षे मतुँप्-प्रत्ययः अपि भवति । यथा - पार्ष्णिवान्, दन्तवान्, जटावान् - आदयः । विशेषः - 1. सिध्मादिगणः आकृतिगणः अस्ति, अतः अस्मिन् गणे केचन अन्ये शब्दाः अपि भवितुमर्हन्ति । यथा - कृष्ण, पेश, पक्ष्मन्, श्री, श्लेश्मन्, कुश, धारा - आदयः । 2. अस्मिन् सूत्रे ‘लच्’ इति प्रत्यये चकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् ‘तद्धितस्य (6.1.164) इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वविधानम्’ इति अस्ति । इत्युक्ते, ‘सिध्मल’ इति शब्दस्य अन्तिमः स्वरः (= लकारोत्तरः अकारः) अनेन उदात्तत्वं प्राप्नोति । यदि अस्मिन् प्रत्यये चकारः इत्संज्ञकः न स्यात्, अपितु केवलं ‘ल’ इत्येव प्रत्ययः उच्येत, तर्हि आद्युदात्तश्च (3.1.3) इत्यनेन प्रत्ययस्य आदिस्वरः (लकारोत्तरः अकारः) प्रारम्भे उदात्तः एव भवेत्, परन्तु प्रक्रियायामग्रे स्वरितो वाऽनुदात्ते पदादौ (8.2.6) इत्यनेन सः स्वरितत्वं प्राप्नुयात् । अस्य बाधनार्थम् एव प्रत्यये चकारः इत्संज्ञकः पाठितः अस्ति ।

Vasu English Summary

The affix लच् comes in the sense of मतुप् after the words सिध्म etc. and optionally after मतुप् also.

Vasu English Translation

The affix लच् comes in the sense of मतुप् after the words सिध्म etc. and optionally after मतुप् also. Thus सिध्मलः or सिध्मवान्, गडुलः or गडुवान् ॥ The word अन्यतरस्याम् understood in this sutra, causes the employment of the affix मतुप् in the alternative. It does not mean that the affix लच् is optional. For were लच् optional, then the affix इनि and ठन् would come by (5.2.115) after those words of सिध्मादि class which end in अ. But that is not the case.

Vart:- The words पार्ष्णि and धमनि lengthen the vowel before ल, as पार्ष्णीलः, धमनीलः ॥

Vart:- The words वात, दन्त, बल, ललाट and गल take the augment ऊङ् before लच्, as वातूलः, दन्तूलः, बलूलः, ललाटूलः, गलूलः ॥

Vart:- The word जटा, घटा, कटा and कला take लच्, when censure is meant, as जटालः, घटालः, कलालः and कटालः, but जटावांस्तापसः when no censure is meant.

Vart:- This affix comes after words denoting lower organisms, and word denoting disease: as यूकालः मक्षिकालः, विचर्चिकालः, विपादिकालः, मूर्छालः ॥

1 सिध्म, 2 गडु, 3 मणि, 4 नाभि, 5 बीज (जीव), 6 वीणा, 7 कृष्ण, 8 निष्पाव, 9 पांसु, 10 पार्श्व, 11 पर्शू (परशु), 12 हनु, 13 सक्तु, 14 मांस, 15 पार्ष्णिधमन्यो दीर्घश्च 16 वातदन्तबललाटानामूङ् च 17 जटाघटाकटाकलाः (कटा) क्षेपे, 18 पर्ण, 19 उदक, 20 प्रज्ञा, 21 सष्कि, (सक्थि) 22 कर्ण, 23 स्नेह, 24 शीत, 25 श्याम, 26 पिङ्ग, 27 पित्त, 28 पुष्क (शुष्क), 29 पृथु, 30 मृदु, 31 मञ्जु, 32 मण्ड, 33 पत्र, 34 चटु, 35 कपि, 36 गण्डु (कण्डु), 37 ग्रन्थि, 38 श्री, 39 कुश, 40 धारा, 41 वर्ष्मन्, 42 पक्ष्मन्, 43 श्लेष्मन्, 44 पेश, 45 निष्पाद्, 46 कुण्ड, 47 क्षुद्रजन्तूपतापयोश्च 48 गण्ड, 49 संज्ञा ॥

Bhashya

सिध्मादिभ्यश्च (2115) (विकल्पेन लज्विधायकत्वे शंकाभाष्यम्) सिध्मादिषु यान्यकारान्तानि तेभ्यो लचा मुक्ते इनिठनौ प्राप्नुतः। इनिठनौ च नेष्येते। कथं तौ न भविष्यतः? (5764 समुच्चयबोधकत्वेनोत्तरवार्तिकम्॥ 1 ॥) - लजन्यतरस्यामिति समुच्चयः - (भाष्यम्) लजन्यतरस्यामिति समुच्चयोऽयं, न विभाषा। लच्च मतुप् च। कथं पुनरेतज्ज्ञायते - लजन्यतरस्यामिति समुच्चयो न विभाषेति?। (5765 समुच्चयसमर्थकवार्तिकम्॥ 2 ॥) - पिच्छादिभ्यस्तुन्दादीनां नानायोगकरणं ज्ञापकमसमावेशस्य - (भाष्यम्) यदयं पिच्छादिभ्यस्तुन्दादीनां नानायोगं करोति तज् ज्ञापयत्याचार्यः - समुच्चयोऽयं न विभाषेति। यदि विभाषा स्यात् नानायोगकरणमनर्थकं स्यात्, तुन्दादीन्यपि पिच्छादिष्वेव पठेत्। नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यन्नानायोगकरणे प्रयोजनम्। किम्? तुन्दादिषु यानि अनकारान्तानि तेभ्य इनिठनौ यथा स्याताम्॥ यानि तर्ह्यकारान्तानि तेषां पाठः किमर्थः? ज्ञापकार्थ एव॥ (प्रकारान्तरेण ज्ञापकसाधकभाष्यम्) अपर आह - तुन्दादिभ्यः पिच्छादीनां नानायोगकरणं ज्ञापकम् - असमावेशस्य। यदयं तुन्दादिभ्यः पिच्छादीनां नानायोगं करोति तज्ज्ञापयत्याचार्यः - समुच्चयः, न विभाषेति। यदि विभाषा स्यान्नानायोगकरणमनर्थके स्यात्। पिच्छादीन्यपि तुन्दादिष्वेव पठेत्॥ नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यन्नानायोगकरणे प्रयोजनम्। किम्? पिच्छादिषु यान्यनकारान्तानि तेभ्य इनिठनौ मा भूतामिति। यानि तर्ह्यकारान्तानि तेषां पाठः किमर्थः। ज्ञापकार्थ एव॥ (5766 समुच्चयबोधकवार्तिकम्॥ 3 ॥) - वस्य च पुनर्वचनं सर्वविभाषार्थम् - (भाष्यम्) वस्य खल्वपि पुनर्वचनं क्रियते सर्वविभाषार्थम् - केशाद्वोऽन्यतरस्याम् (5.2.109) इति। एतदेव ज्ञापयत्याचार्यः - समुच्चयोऽयं, न विभाषेति॥ (अन्यतरस्यांग्रहणस्य ज्ञापकाभावबोधकं भाष्यम्) द्युद्रुभ्यां नित्यार्थमेकेऽन्यतरस्यांग्रहणमिच्छन्ति। कथम्? विभाषामध्येऽयं योगः क्रियते। विभाषामध्ये ये विधयो नित्यास्ते भवन्तीति॥

Kashika

लजन्यतरस्यामिति वर्तते। सिध्मादिभ्यः प्रातिपदिकेभ्यो लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। सिध्मलः, सिध्मवान्। गडुलः, गडुमान्। अन्यतरस्यांग्रहणेन मतुप् समुच्चीयते न तु प्रत्ययो विकल्प्यते। तस्मादकारान्तेभ्य इनिठनौ प्रत्ययौ न भवतः॥ सिध्म। गडु। मणि। नाभि। जीव। निष्पाव। पांसु। सक्तु। हनु। मांस। परशु। पार्ष्णिधमन्योर्दीर्घश्च (ग०सू० १२६)। पार्ष्णीलः। धमनीलः। पर्ण। उदक। प्रज्ञा। मण्ड। पार्श्व। गण्ड। ग्रन्थि। वातदन्तबलललाटानामूङ् च (ग०सू० १२७)। वातूलः। दन्तूलः। बलूलः। ललाटूलः। जटाघटाकलाः क्षेपे (ग०सू० १२८)। जटालः। घटालः। कलालः। सक्थि। कर्ण। स्नेह। शीत। श्याम। पिङ्ग । पित्त। शुष्क। पृथु। मृदु। मञ्जु। पत्र। चटु। कपि। कण्डु। संज्ञा। क्षुद्रजन्तूपतापाच्चेष्यते (ग०सू० १२९)। क्षुद्रजन्तु — यूकालः। मक्षिकालः। उपताप — विचर्चिकालः। विपादिकालः। मूर्छालः। सिध्मादिः॥

Siddhanta Kaumudi

लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥ (गणसूत्रम् -) वातदन्तबलललाटानामूङ् च ॥ वातूलः ॥

Balamanorama

सिध्मादिभ्यश्च - सिध्मादिभ्यश्च । लज्वा स्यादिति । ‘मत्वर्थे’ इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्ययविकल्पार्थकं, किन्तु मतुप्प्रत्ययसमुच्चयार्थकमेव, अन्यतरस्यामित्यस्याव्ययत्वेनाऽनेकार्थकत्वात् । ततश्च सिध्मादिभ्यो लच्, मतुप्च स्यादिति लभ्यते । नचान्यतरस्यामित्यस्याऽत्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप्सिद्ध इति वाच्यम्,लजभावे मतुबेव भवति, नतु अत इनिठनौ॑ इत्येतदर्थ समुच्चयविधानात् । तदाह — तेनेति । सिध्मादिषु ये अकारान्तास्तेभ्य इनिठनौ नेत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, [निष्पाव]पांसु, हनु, पाष्ण इत्यादयः सिध्मादिषु पठिताः । एवंच लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्याङ्ग्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नतु रूढशब्देषु । अतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामूङ् चेति । सिघ्मादिगणसूत्रमिदम् । एभ्यो लच्, प्रकृतेरूङ् चादेशः । ङकारस्तु #आदेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशङ्का स्यात् । वातूलः । एवं दन्तूलः, बलूलः ललाटूलः ।

Tattvabodhini

सिध्मादिभ्यश्च - सिध्मादिभ्यश्च । सिध्म, गडु, मणि, विजय, निष्पाव, पांसु, हनु, पाष्ण्र्यादयः सिध्मादयः । समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः । न च इनिठनावप्यन्यतरस्याङ्ग्रहणेन समुच्चीयेतामिति शङ्क्यम् । तयोरप्रकृतत्वात् । मतुप्प्रत्ययस्तु समुच्चीयते । तस्य प्रकृतत्वात् । अस्ति चेह लिङ्गंकेशाद्वः॑इत्यत्रान्यतरस्याङ्ग्रहणम् । तद्धि इनिठनोः प्राप्त्यर्थं क्रियते । प्रकृतस्याऽन्यतरस्याङ्ग्रहणस्य विकल्पार्थत्वे तदनुवृत्त्यैव सिद्धौ किं तेन ; । क्रियमाणं तु पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थतां ज्ञापयत्येव । तथा च वार्तिकं -॒लजन्यतरस्यामिति समुच्चयः॑इति । अयं भावः -॒प्राणिस्था॑दिति सूत्रेण लचि विकल्पिते पक्षे मतुबिति चूडालश्चूडावानिति रूपद्वयं यद्यपि सिध्यति, तथापि सिध्मादिषु येऽदन्तास्तेषु इनिठनोः प्रवृत्त्या दोषः । समुच्चयार्थत्वे तु न दोष इति । एवं चलज्वा स्या॑दिति वृत्तौ वाशब्दः समुच्चये बोध्यः ।वा स्याद्विकल्पोपमयोरे वार्थेऽपि समुच्चये॑इत्यमरः । वातदन्तेत्यादि । सिध्माद्यन्तर्गणसूत्रम् । ऊङ् चेति । ङित्त्वादन्तादेशः । ऊकारमात्रोक्तावन्तादेशत्वसिद्धावपि प्रत्ययत्वशङ्कानिवारणाय ङानुबन्धः कृतः । न च षष्ठन्ताद्विहितस्य प्रत्ययत्वं नेति शङ्क्यम्,अहंशुभमोर्युस्,गोपयसोर्य॑दित्यादौ प्रत्ययत्वाभ्युपगमात् । वातूल इति । अन्तोदात्तमिदम् । प्राचा तुबलादूतलः॑,वाताच्चे॑ति पठित्वा वातूल इत्युक्तं, तदुपेक्ष्यम्, प्रत्ययस्वरेण मध्योदात्तत्वप्रसङ्गात् । गणसूत्रबलेनाऽन्तोदात्तत्वमेवेष्यत इत्याहुः ।पाष्णधमन्योर्दीर्घश्च॑ ।क्षुद्रजन्तूपतापाच्चे॑त्यपि गणे पठते । पार्ष्णीलः । धमनीलः । क्षुद्रजन्तुः -यूकालः । मक्षिकालः । उपतापो रोगः । विपादिकालः ।

Padamanjari

अन्यतरस्यांग्रहणेन भतुप्समुच्चीयत इति। अनेकार्थत्वान्निपातानाम्, अन्यतरस्यांग्रहणमिह समुच्चये वर्तत इत्यर्थः। तथा च वार्तिकम् -‘लजन्यतरस्यामिति समुच्चयः’ इति। न तु प्रत्ययो विकल्प्यत इति। यथान्यत्रान्यतरस्यांग्रहणं विकल्पार्थं न तथात्रेत्यर्थः। किमेवं सति सिद्धं भवति ? तत्राहतस्मादिति। विकल्पार्थेऽन्यतरस्यांग्रहणे लचा मुक्ते यथाप्राप्तमे स्यात्, ततश्चाकारान्तेभ्य इनिठनौ स्याताम्, समुच्चयार्थे प्रकृतो मतुबेव समुच्चीयत इति न दोषः। कथं पुनर्ज्ञायते-समुच्चयोऽत्रार्थः, न विकल्पोऽर्थ इति ? ज्ञापकात्। यदयं पिच्छादीन्, तुन्दादीश्च पृथक् पठति। कथं कृत्वा ज्ञापकम् ? इह’तुन्दादिभ्य इलच्च’ इति चत्वारः प्रत्यया इष्यन्ते-इलच्, इनिठनौ, मतुबिति; तत्र यद्यन्यतरस्यांग्रहणं विकल्पार्थं स्यात्पिच्छादिभ्योऽपिप्रत्ययचतुष्टयं स्यात्। कथम् ? इलचो विकल्पितत्वादिनिठनौ, तयोरपि विकल्पितत्वान्मतुबिति; ततश्च तुन्दादिष्वेव पिच्छादयः पाठयाः, पिच्छादिषु वा तुन्दादयः; पृथक्पाठाद्विज्ञायते-ठन्यतस्स्यांग्रहणेन मतुप्समुच्चीयते,न यथाप्राप्तमब्यनुज्ञायतेऽ इति। एवं हि पिच्छादिभ्यः प्रत्ययद्वयम् - इलच्च, मतुप् च; तुन्दादिभ्यश्चत्वार इति पृथक् पाठोऽर्थवान्भवति। ननु च तुन्दादिभ्योऽनकारान्तेभ्योऽपीनिठनाविष्यते, पिच्छादिभ्यस्त्वकारान्तेभ्य एव; तत्र यदि तुन्दादिषु पिच्छादयः पठ।लेरन्, तदा पिच्छादिभ्योऽप्यनकारान्तेभ्य इनिठनौ स्याताम् ? अथ पिच्छादिषु तुन्दादयः पठ।लेरन्, तदा तुन्दादिभ्योऽप्याकारन्तेय्य इनिठौ न स्याताम् ? चतर्हि कानिचिदकारान्तानि पिच्छादिषु पठति, कानि चितुन्दादिषु, तद्यथोक्तस्यार्थस्य ज्ञापकं भविष्यति। तथा’केशाद्वो’ न्यतरस्याम्ऽ इति न वक्तव्यम्; प्रकृतान्यतरस्यांग्रहणानुवत्या इन्ठन्मतुपां सिद्धत्वात्। तदिनिठनोःक प्राप्त्यर्थं क्रियमाणं पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थत्वं ज्ञापयति। पार्ष्णिधमन्योर्दीर्धश्चेति। पार्ष्णीलः, धमनीलः। वातदन्तबलललाटानामूङ् चेति। वातादिभ्यो लज् भवति, तस्य च लच ऊडागमो भवति - वातूलः, दन्तूलः, बलूलः, ललाटूअलः। जटाघटाकलाः क्षेप इति। एतै शब्दाः क्षेपे गम्यमाने लचमुत्पादयन्ति - जटाल इत्यादि। क्षेप इति किम् ? जटावांस्तापसः। क्षुद्रजन्तूपतापयोश्चेति। चुद्रजन्तुरानकुलात्, उपतापःउरोगः। विपादिकाल इति।’पादस्फोटो विपादिका’ । सिध्म-गडुशब्दयोरनुपतापार्थः पाठः ॥

Nyaas

यद्यन्यतरस्यांग्रहणेन लज्विकल्पेत, तेन पक्षे यथाप्राप्तमेव स्यादित्यकारान्तात्? सिध्मादेरिनिठनौ स्याताम्। अत इमं दोषं परिहर्तुमाह - अन्यतरस्यांग्रहणेन इत्यादि। अनेकार्थत्वान्निपातानामन्यतरस्यामिह समुच्चते वर्तते। तथा च वार्तिककारेणोक्तम् - अन्यतरस्यामिति समुच्चयः इति। मतुबिह स्वरितत्वात्? सन्निहित इति स एव समुच्चीयते, न तु यथाप्राप्तं प्रत्ययान्तरमित्येके। अन्ये त्वाहुः - अन्यतरस्यांग्रहणं विकल्पार्थमेव। न चेनिठनावुभौ क्रियेते; तयोर्महाविभाषयैव सिद्धत्वात्। तर्हि प्रत्ययान्तरं पक्षे विधीयते? तदपि न; यथाप्राप्तमापादयित्तुं सन्निहितप्रत्यासत्तेः मतुबेव। तदेवमन्यतरस्यांग्रहणे सति मतुबेव विकल्प्यत इत्यभिप्रायेणान्यतरस्यांग्रहणेन समुच्चीयत इत्युक्तम् इति। न तु प्रत्ययो विकल्प्यते इति। ननु च लचो भावाभावौ क्रियेते इत्यर्थः। तस्मात् इत्यादि। यत एवमन्यतरस्यांग्रहणेन मतुप्? समुच्चीयते, न तु प्रत्ययो विकल्प्यते, तस्माद्येऽत्राकारान्ताः पठन्ते तेभ्य इनिठनौ न भवतः। पाष्णश्रमन्योर्दीर्घश्च इति। पाष्ण, धमनि इति शब्दाभ्यां लज्भवति, तयोश्च दीर्घः - पार्ष्णीलः, धमनीलः। वातदन्तबलललाटानामूङ् च इति। वातादीनां, तस्य च लच ऊङगगमः। वातूलः। दन्तूलः। बलूलः। ललाटूलः। जटाघटाकलाः क्षेपे गम्यमाने। जटालः, घटालः, कलालः। क्षेप इति किम्? जटावान्। क्षुद्रजन्तूपतापाच्च इति। क्षुद्रजन्तूपतापाच्च` इति। क्षुद्रजन्तुः=नकुलादिः। उपतापः=रोगः॥कामवति बलवति चार्थे इति। मत्वन्तयोर्निर्देशेन कामबशब्दावर्शाअद्यकारान्तावुपात्ताविति दर्शयति। ननु च वत्सांसशब्दौ नैव कामबलयोर्वर्तेते, किं तर्हि? वयोविशेषे प्राण्यङ्गविशेषे च, तत्कथं ताभ्यां कामवान्? बलवांश्चोच्यते? इत्याह - वृत्तिविषये इत्यादि। कथमेतज्ज्ञायते? इत्याह - न ह्यत्र इत्यादि। वत्सशब्दस्य वाक्ये यो वयोविशेषलक्षणोऽर्थः प्रसिद्धः, अंसशब्दस्य च यः प्राण्यङ्गलक्षणविषयः स यस्मादत्र वृत्तौ न विद्यते न ज्ञायत इत्यर्थः। अथ वा - न विद्यत इति नास्तीत्यर्थः। अनेन वाक्ये यौ तयोरथा प्रसिद्धौ वयःप्राण्यङ्गविशेषात्मकौ, तयोर्वृत्तावभावो दर्शितः। इदानीं यौ तयोरभिमतावर्थो तयोर्भावं दर्शयितुमाह - वत्सलः इत्यादि। स्नेहवान् इति। कामवानित्यर्थः। तदेवं यस्माद्वत्सांसशब्दयोर्वाक्ये वयःप्राण्यङ्गलक्षणोऽर्थो न विद्यते, ततश्चवत्सलांसलशब्दाभ्यां यथोक्तः स्नेहवान्? बलवांश्चोच्यते, ततो ज्ञायते - वत्सांसशब्दौ वृत्तिविषये कामबलयोर्वर्तमानौ तद्वति प्रत्ययमुत्पादयत इति। अन्यतरस्यांग्रहणं सर्वत्र चात्र प्रकरणे मतुप्समुच्चयार्थे वर्तते। ततो मतुपा भवितव्यमिति यो मन्यते, तं प्रत्याह - न चायम् इत्यादि। अनेनैव च हेतुना वाक्यमपि न भवतीति वेदितव्यम्। व्काये हि नैवायमर्थः सम्भवति

Prakriyasarvasvam

एभ्यो लजमतुप् च स्यात् । नत्विनिठनादि । सिध्मगडुमणिकर्णपर्णपांसुमांस- नाभिपशुं प्रज्ञासक्थिहनूदकबीजस्नेहेभ्यः’ (स० ५-२-१३३) सिध्मोऽस्यास्तीति सिध्मलः सिध्मवान् गड्डुलः मणिलः कर्णलः पर्णलः नाभिलः पशुंलः प्रज्ञालः सक्थिलः हनुलः उदकलः बीजलः स्नेहलः । ‘शीतश्यामकृष्णपिङ्गपेशपक्ष्मपृथुमृदु- मञ्जुपत्रपुष्कनिष्पावचटुकपिकण्डूभ्यः’ (स० ५-२-१३४) । शीतगुणवान् शीतलः । एवं श्यामलः कृष्णलः पिङ्गलः पत्रलः पत्रवान् हरितपर्णवान् । पुष्कलः । निष्पावः कोशीधान्यभेदः निष्पावलः । कपिर्वर्णभेदः कपिलः । कण्डूलः । सक्तुल इति च माधवः । ‘पाष्णिधमन्योर्दीर्घश्च’ (स० ५-२-१३५) पार्ष्णीलः । धमनीलः । ‘क्षुद्रजन्तूपतापेभ्यश्च’ (स० ५-२-१३२) । आनकुलात् क्षुद्रजन्तवः । तेभ्यो रोगेभ्योऽप्यादन्तेभ्यो लच् । यूकालः मक्षिकालः विवर्चिकालः मूर्च्छालः । अनादन्तेभ्योऽपीति रामाद्याः । पित्तलः श्लेष्मलः ‘वातदन्तबलगलललाटानामूठ्च’ (स० ५-२-१३६) । एभ्यो लच् स्यात् लच ऊठ् च । ‘यस्येति च’ (६-१-१४८) इत्यलोपः वातूलः । दन्तूलः । बलूलः गलूलः ललाटूलः ॥

Sutra Prayogas

  • श्मश्रुलैः (रघुवंशम्): सिध्मादिभ्यश्च इति लच्प्रत्ययः।