52089: छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि¶
Padacheda: छन्दसि | S | 7 | 1 |
परिपन्थि-परिपरिणौ | S | 1 | 2 |
पर्यवस्थातरि | S | 7 | 1 |
Sutrartha¶
वेदेषु ‘परिपन्थिन्’ तथा ‘परिपरिन्’ एतौ शब्दौ ‘बलवान् शत्रुः’ अस्मिन् अर्थे निपात्येते ।
‘बलशाली शत्रुः (dangerous / powerful enemy)’ अस्मिन् अर्थे वेदेषु प्रयुज्यमानौ ‘परिपन्थिन्’ तथा ‘परिपरिन्’ एतौ शब्दौ अनेन सूत्रेण निपात्येते । यथा - ‘मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन्’ (शुक्ल-यजुर्वेदः 4.34) । अत्र ‘त्वाम् बलशालिनः शत्रवः न प्राप्नुयुः’ इति अर्थः विद्यते । विशेषः - सूत्रे प्रयुक्तः ‘पर्यवस्थातरि’ इति शब्दः ‘पर्यवस्थातृ’ इत्यस्य सप्तम्येकवचनमस्ति । ‘पर्यवस्थातृ’ इत्युक्ते बलवान् शत्रुः । अस्मात् शब्दात् स्वार्थे इनि-प्रत्ययः, तथा च अस्मिन् सूत्रे विद्यमानस्य ‘अवस्थातृ’ इत्यस्य ‘पन्थि’ / ‘परि’ एतौ आदेशौ निपात्येते, येन एते रूपे सिद्ध्यतः - पर्यवस्थातृ + इनि → परिपन्थि / परिपरि + इनि → परिपन्थिन्, परिपरिन् [यस्येति च (6.4.148) इति इकारलोपः] स्मर्तव्यम् - एतौ द्वौ शब्दौ केवलम् वेदेषु एव साधू स्तः । भाषायाम् एतयोः प्रयोगः न भवति ।
Vasu English Summary¶
In the छन्दस् (Vedas) the words 1. परिपन्थिन् and 2. परिपरिण् are anomalously formed by this affix and have the sense of ‘an antagonist’.
Vasu English Translation¶
In the छन्दस् (Vedas) the words 1. परिपन्थिन् and 2. परिपरिण् are anomalously formed by this affix and have the sense of ‘an antagonist’. The word पर्यवस्थातृ means ‘an adversary, an antagonist’. Thus मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिपं॒थिनो विद॒न् (Yaj. Ved. IV. 34). These words are obsolete in secular literature. See however Gita III.34.
Kashika¶
परिपन्थिन् परिपरिन् इत्येतौ शब्दौ छन्दसि विषये निपात्येते पर्यवस्थातरि वाच्ये। पर्यवस्थाता प्रतिपक्षः सपत्न उच्यते। मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् (मा०सं० ४.३४)॥
Siddhanta Kaumudi¶
लोके तु परिपन्थिशब्दो न न्याय्यः ॥
Balamanorama¶
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - छन्दसि परिपन्थि । परिपन्थिन्, परिपरिन् एतौ शब्दौ छन्दसि निपात्येते पर्यवस्थातरि वाच्ये । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेसे परिपन्थिन्शब्दः । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पर इत्यादेसे परिपरिन्शब्दः ।मा त्वा विदन्परिपन्थिनः, मा वा परिपरिणो विदन् इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् ।
Tattvabodhini¶
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - छन्दसि । पर्यवस्थातृशब्दाच्छत्रुपर्यायात्स्वार्थे इनिप्रत्यचयः, अवस्थातृशब्दस्य चपन्थ॑पर॑ एतावादेशौ निपात्येते ।अपत्यं परिपन्थिनम्,मा त्वा परि परिणो विदन् । उभयत्रापि परिशब्देऽवग्रहः ।लोके त्विति ।अनुपस्थितपरिपन्थिभिः पार्थिवै॑रित्यादौ ।
Padamanjari¶
अत्र पर्यवस्थातृशब्दात्स्वार्थे इनिप्रत्ययोऽवस्थातृशब्दस्य च पन्थि, परि - इत्येतावादेशौ निपात्येते। भाषायां तु परिपन्थिशब्दस्यासाधुः प्रयोगः ॥
Nyaas¶
किं पुनरत्रेवं निपात्यते? पर्यवस्थातृशब्दं व्यवस्थाप्य तदवयवस्यावस्थातृशब्दस्य पम्थ आदेश एकत्र क्रियते, अपरत्र तस्यैव परिशब्दः, पश्चादिनिप्रत्ययः॥