52095: रसादिभ्यश्च¶
Padacheda: रसादिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः रसादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः (सर्वान् अपवादान् बाधित्वा) मतुप्-प्रत्ययः भवति ।
तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः औत्सर्गिकरूपेण मतुँप्-प्रत्यये प्राप्ते ; रसादिगणस्य शब्देभ्यः अनेन सूत्रेण मतुँप्-प्रत्ययस्य पुनर्विधानं क्रियते । एतत् पुनर्विधानम् ‘सर्वान् अपवादान् बाधित्वा मतुँप्-प्रत्ययः एव भवति’ इति निर्देशयितुमस्ति । रसादिगणः अयम् - रस, रूप, गन्ध, स्पर्श, शब्द, स्नेह, गुणात् (गणसूत्रम्), एकाचः (गणसूत्रम्) । यथा - 1. रसः अस्य अस्मिन् वा अस्ति सः = रस + मतुँप् → रसवान् । अत्र मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इत्यनेन मकारस्य वकारादेशं कृत्वा रूपं सिद्ध्यति । 2. रूपमस्य अस्मिन् वा अस्ति सः रूपवान् । 3. गन्धः अस्य अस्मिन् वा अस्ति सः गन्धवान् । 4. शब्दः अस्य अस्मिन् वा अस्ति सः शब्दवान् । 5. स्नेहः अस्य अस्मिन् वा अस्ति सः स्नेहवान् । एतेभ्यः सर्वेभ्यः अत इनिठनौ (5.2.115) इत्यनेन इनि / ठन् एतयोः प्रत्ययोः प्रसक्तौ तयोः अपवादत्वेन अत्र मतुँप्-प्रत्ययः एव विधीयते । अस्मिन् गणे द्वे गणसूत्रे दीयेते - [अ] गुणात् (गणसूत्रम्) - अनेन गणसूत्रेण कोऽपि नूतनः शब्दः न पाठ्यते, अपितु रस-रूप-गन्ध-स्पर्श-शब्द-स्नेहादीनामर्थः उच्यते । यत्र एते शब्दाः ‘गुणवाचके’ अर्थे उपयुज्यन्ते, तत्रैव एतेषामस्मिन् गणे समावेशः भवति - इति अस्य गणसूत्रस्य आशयः । यथा, ‘रूप’ शब्दस्य अर्थः यत्र गुणवाची अस्ति (beauty इत्यर्थः) तत्रैव ‘रूपवान् / रूपवती’ इति प्रयोगः भवति । यत्र ‘रुप’ शब्दः अन्येषु अर्थेषु प्रयुज्यते (यथा appearance / form इति) तत्र अस्य सूत्रस्य प्रयोगः न भवति । अतः तत्र अत इनिठनौ (5.2.115) इत्यनेन इनि / ठन् एतौ प्रत्ययौ एव भवतः । रूपिणी छाया । [आ] एकाचः (गणसूत्रम्) - यस्मिन् शब्दे एकः एव स्वरः विद्यते, तस्मात् अपि मतुबर्थयोः नित्यम् मतुँप् प्रत्ययः एव भवति । यथा - धीः अस्य अस्ति सः धीमान् । स्वम् यस्य अस्ति सः स्ववान् । विशेषः - यद्यपि गुणवाचिभ्यः रसादिभ्यः शब्देभ्यः मतुबर्थयोः सर्वान् अपवादान् बाधित्वा अनेन सूत्रेण मतुँप्-प्रत्ययः एव उच्यते, तथापि भाषायामन्ये प्रत्ययाः अपि कृताः दृश्यन्ते । यथा - रसिकः नटः, स्पर्शिकः वायुः, रूपिणी अप्सरा - आदयः । एतादृशानि उदाहरणानि भाष्यकारः अपि स्वीकरोति । अतएव बालमनोरमाकारः वदति - ‘इदं सूत्रं भाष्ये प्रत्याख्यातम्’ । सूत्रमिदम् भाष्यकारस्य मतेन अनावश्यकमस्ति, यतः अन्यानि अपि उदाहरणानि दृश्यन्ते एव - इति अस्य आशयः । पक्षे एतेषाम् प्रयोगानाम् स्पष्टीकरणम् ‘इति’ इत्यस्य अनुवृत्या विवक्षां स्वीकृत्य अपि दातुं शक्यते । अस्मिन् विषये न्यासे अधिकमुक्तमस्ति ।
Vasu English Summary¶
The affix मतुप् comes in the sense of ‘whose it is’ or ‘in whom it is’ after the प्रातिपदिक (Nominal Stem) रस etc.
Vasu English Translation¶
The affix मतुप् comes in the sense of ‘whose it is’ or ‘in whom it is’ after the प्रातिपदिक (Nominal Stem) रस etc. As रसवान्, रूपवान्, गन्धवान् ॥ Why this special sutra with regard to रसादि words, when they would have taken मतुप् by the last sutra? This prevents the application to these words of other affixes having the sense of मतुप् ॥ How do you form then रूपिणी कन्या, रूपिको दारकः ॥ These are rare forms. According to Patanjali this sutra is useless. Or the word रस &c, must denote qualities, perceivable by the organs of taste, touch &c, i. e. रस should mean taste, रूप form. Therefore the forms रूपिणी and रूपिकः are valid, meaning शोभायोग्यता ॥ So also रसिको तटः = भावयोगः, here रूप and रस do not mean ‘form’ and ‘taste’. And all words of quality having one syllable are governed by this sutra, and form their derivative in मतुप् ॥ See (5.2.115).
1 रस, 2 रूप, 3 वर्ण, 4 गन्ध, 5 स्पर्श, 6 शब्द, 7 स्नेह, 8 भाव, 9 गुणात्, (गुणग्रहणं रसादीनां विशेषणम्), 10 एकाचः (स्ववत्) ॥
Bhashya¶
रसादिभ्यश्च (2113) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते न तदस्यास्त्यस्मिन्- इत्येव मतुप्सिद्धः? (5763 एकदेशिवार्तिकम्॥ 1 ॥) - रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् - (भाष्यम्) रसादिभ्यः पुनर्वचनं क्रियते - अन्येषां मत्वर्थीयानां प्रतिषेधार्थम्। मतुबेव यथा स्यात्, येऽन्ये मत्वर्थीयाः प्राप्नुवन्ति ते मा भूवन्निति। (सिद्धान्तप्रत्यायकभाष्यम्) नैतदस्ति प्रयोजनम्। दृश्यन्ते ह्यन्ये रसादिभ्यो मत्वर्थीयाः - रसिको नटः। उर्वशी वै रूपिणी अप्सरसाम्। स्पर्शिको वायुरिति॥
Kashika¶
रसादिभ्यः प्रातिपदिकेभ्यो मतुप् प्रत्ययो भवति तदस्यास्त्यस्मिन्नित्येतस्मिन् विषये। रसवान्। रूपवान्। किमर्थमिदमुच्यते, न पूर्वसूत्रेणैव मतुप् सिद्धः? रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम्। अन्ये मत्वर्थीया मा भूवन्निति। कथं रूपिणी कन्या, रूपिको दारकः? प्रायिकमेतद् वचनम्। इतिकरणो विवक्षार्थोऽनुवर्तते। अथ वा गुणादित्यत्र पठ्यते। तेन ये रसनेन्द्रियादिग्राह्या गुणाः, तेषामेवायं पाठः। इह मा भूत् — रूपिणी, रूपिक इति। शोभायोगो गम्यते। रसिको नट इत्यत्र भावयोगः॥ रस। रूप। गन्ध। स्पर्श। शब्द। स्नेह। गुणात् (ग०सू० १२४)। एकाचः (ग०सू० १२५) गुणग्रहणं रसादीनां विशेषणम्॥
Siddhanta Kaumudi¶
मतुप् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थं वचनम् । रस, रुप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह । (गणसूत्रम् -) गुणात् ॥ (गणसूत्रम् -) एकाचः ॥ स्ववान् । गुणग्रहणं रसादीनां विशेषणम् ॥
Balamanorama¶
रसादिभ्यश्च - रसादिभ्यटश्च । मतुबिति । शेषपूरणमिदम् । ‘उक्तविषये’ इति शेषः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अन्यमत्वर्थीयेति । ‘अत इनिठनौ’ इत्यादिनिवृत्त्यर्थमित्यर्थः । रसादीन्पठति — रसरूपेत्यादि भावेत्यन्तम् । गुणादिति । एकाचेति । गणसूत्रम् । उदाहरति-स्ववानिति । गुणग्रहणमिति । गुणादित्येतद्रसादीनां षण्णां विशेषणमित्यर्थः । तेन गुणवाचकानामेव एषां ग्रहणाज्जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानामिह न ग्रहणमिति भावः । ‘रसिको नटः’ ‘स्पर्शिकं वारि’ इत्यादि प्रयोगदर्शनादिदं सूत्रं भाष्ये प्रत्याख्यातम् ।
Tattvabodhini¶
रसादिभ्यश्च - अन्यमत्वर्थीयेति । कथं तर्हिरूपिमी कन्या॑रसिको नटः॑इति । अत्राहुः -रसादिगणेगुणात्इति पठते । तेन गुणवाचिभ्य एवाऽन्यमत्वर्थीयस्य निषेधः, रूपिणीत्यत्र तु रूपशब्देन सौन्दर्यं गृह्रते । तच्च न गुणः ।रसिक॑इत्यत्र तु रसशब्देन भावो गृह्रते, न तु रसनाग्राह्रो गुण इति ।गुणवचनेभ्यो मतुपो लुगिष्ठ । गुणवचनेभ्य इति । गुणे तद्वति च प्रसिद्धा ये शुक्लादयस्त एव गृह्यन्ते न तु रूपादयोऽपि । तेन रूपं वरुआमित्यादिप्रयोगो न भवति ।
Padamanjari¶
न पूर्वेणैवेति। नशब्दस्य काक्वा प्रयोगात्सिद्ध एवेत्यर्थः। नन्वर्थे वा नशब्दो द्रष्टव्यः। अन्ये इति। ठत इनिठनौऽ इत्यादयः। कथमिति। अन्यनिवृत्यर्थे पुनर्वचने रूपिणीत्यादि न सिद्ध्यतीति भावः। प्रायिकमिति। प्रयोगबाहुल्याबाहुल्येनास्यान्यनिवृत्तिः प्रयोजनमित्यर्थः। ततः किम्? इत्याह-क्वचिदिति। कथं पुनः प्रायिकत्वमित्याह - इतिकरण इति। तेन यत्र मतुबन्तादेव लोकस्य विवक्षा भवति, तत्रैवानेनान्यनिवृत्तिः क्रियते, न सर्वत्रेत्ययमर्थो भवति। एतच्च गुणादिति गणादिति गणपाठमनपेक्ष्योक्तम्, तदपेक्षां मत्वाऽऽह- अथ वेति। अत्र गणे गुणादिति पठ।ल्ते, तच्च रसादीनां सर्वेषां प्रत्येकं विशेषणम्, न स्वतन्त्रम्, नापि ठेकाचःऽ इत्यनेन समानाधिकरणम्। तेन ये रसनेन्द्रियादिग्राह्यगुणा इति आदिशब्देन चक्षुरादिपरिग्रहः। तेषामेवायं पाठ इति। तेभ्य एवानेनान्यनिवृत्तिः क्रियते। रूपिणी, रूपिकः शोभायोग इति। ननु शोभापि पुणस्तथा भावः ? सत्यम्; गुणादिति विशेषणसामर्थ्यात्प्रसिद्धतराणां रसनादीन्द्रियग्राह्याणां गुणानां पाठः। भावयोग इति। भावाःउरतिहासादयो नाट।ल्धर्माः। भाष्ये तु ठुर्वशी वै रूपिण्यप्सरसां स्पर्शिको वायुःऽ इति दर्शनाद्यथाभिधानं प्रत्ययान्तरमपि भवति, तेन नियमस्यानिष्टत्वात्सूत्रमिदं प्रत्याख्यातम्। एकाचेति। अत्र गुणादिति नापेक्ष्यते - स्ववान्, खवान् ॥ प्राणिस्थादातो लजन्यतरस्याम् ॥ चूडाल इति। चूडाउशिखा, न त्वापीडाख्योऽलङ्कारः। एवं कर्णिकापि न कर्णिकापि न कर्णालङ्कारः, किं तर्हि ? तत्सदृशः प्राण्यङ्गविशेषः। प्राण्यङ्गादेव हीष्यते। शिखावान्दीप इति। प्रत्युदाहरणदिगियं दर्शिता; शिखाशब्दस्य व्रीह्यादिपाठाल्लचोऽप्रसङ्गात्। चूडावान्वृक्ष इति प्रत्युदाहार्यम्। प्राण्यङ्गादिति वक्तव्यमिति। एतच्चेतिकरणानुवृतेर्लभ्यते। चूडालोऽसीति। असीत्यस्य’तिङ्ङतिङः’ इति निघातः, चूडालशब्दात्सुः, रुत्वम्, ठतो रोरप्लुतादप्लुतेऽ इत्युकारः, स च हलां स्रंसनधर्मत्वादनुदातः, पूर्वेण ठाद्गुणःऽ, ठेकादेश उदातेनोदातःऽ, ततः ठेडः पदान्तादतिऽ इति पूर्वरूपत्वमेकादेशः, तस्य’स्वरितो वानुदाते’ पदादौऽ इति स्वरितः प्राप्नोति, चित्करणसामर्थ्यान्न भवति। यद्येवम्, चूडालः - आमन्त्रिताद्यौदातत्वे शेषनिघातो न स्यात्, हे चूडालाअमन्त्रितनिधातो न स्यात्, चूडालत्वमित्यादौ च प्रत्ययस्वरे शेषनिघातः ? यदीष्यते, वक्तव्योऽत्र परिहारः; अथ नेष्यते, प्रयोजनमेवैतच्चित्स्वरस्य भवीष्यति ॥
Nyaas¶
अन्यनिवृत्त्यर्थम् इति। अन्यस्येनिप्रभृतेर्मत्वर्थीयस्य निवृत्तिरर्थः प्रयोजनं यस्य तत्तथोक्तम्। कथम् इत्यादि। रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम्। ततो रूपिणी कन्येत्यादि न सिध्यतीति भावऋः। प्रायिकम् इत्यादि। अन्यनिवृत्तेर्बाहुल्येनार्थः - सोऽस्यास्तीति प्रायिकमेव युक्तं भवतीति। बाहुल्येनास्यान्यनिवृत्तित्वेन रूपणीत्यादौ क्वचिदन्योऽपि भवतीति कथं पुनरस्य प्रायिकत्वं लभ्यते? इत्याह - इतिकरणः इत्यादि। इतिकरणश्चेह विवक्षार्थोऽनुवर्ते। तेन यतद्र तु मतुबन्तादेव लोकस्य विवक्षा भवति, तत्र तेनान्यनिवृत्तिः क्रियते; न सर्वत्र। अथ वा इत्यादि। परिहारान्तरम्। आदिशब्देन चक्षुरादीन्द्रियपरिग्रहः। गुणादिति गणे पठते। च गुणग्रहणं सर्वेषामेव रसादीनां विशेषणम्। तेन ये रसनादीन्द्रियग्राह्राः। तेषामेवायं पाठः इति। गुणवचनान्तेभ्यो रसनादीन्द्रियग्राह्रेभ्योऽन्यनिवृत्तिरनेन क्रियते, नान्येभ्य-। स्यादेतत् - रूपिणीत्यादावपीन्द्रियग्रह्रा ये गुणास्तेभ्यो मत्वर्थीय उत्पन्नः? इत्याह - रूपिणो, रूपिकः इत्यादि। रूपिणी, रूपिक इत्यत्र शोभागुणो गम्यते, न चक्षुग्र्राह्रेण रूपेण। रसिको नटः इत्यत्रापि भावगुणो गम्यते, न तु रसनेन्द्रियग्राह्रेण गुणेन। भावाः शृङ्गारवीरबीभत्सादयो रचनाधर्माः।एकाचः इति। एकाक्षरादिति। एकोऽज्? यस्य तस्मान्मतुबेव भवतीति - धीमान्, स्ववानिति॥
Prakriyasarvasvam¶
एभ्यो मतुवेव । नत्विनिठनादयः । रसवान् रूपवान् स्पर्शवानित्यादि । उर्वशी रूपिणी स्पर्शिको वायुरिति दर्शनात्सूत्रं दूत्यमेवेति भाष्यम् ॥
Vartika¶
गुणवचनेभ्यो मतुपो लुक् ।