52082: तदस्मिन्नन्नं प्राये संज्ञायाम्¶
Padacheda: तत् | S | 1 | 1 |
अस्मिन् | S | 7 | 1 |
अन्नम् | S | 1 | 1 |
प्राये | S | 7 | 1 |
संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
‘तत् अन्नम् बाहुल्येन विद्यते’ इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् कन्-प्रत्ययः भवति ।
अस्य सूत्रस्य प्रयोगः भिन्नानाम् पौर्णमासीनाम् संज्ञानाम् निर्देशार्थम् भवति । कानिचानि उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् - अ) कस्यांश्चित् पौर्णमास्याम् ‘गुडमिश्रिताः अपूपाः’ प्राधान्येन पच्यन्ते - इति चिन्तयामः । Sweet pakoras are prepared specifically to celebrate a certain full-moon day. अस्यां स्थितौ - अस्यां पौर्णमास्याम् गुडापूपाः (= गुडमिश्रिताः अपूपाः प्रायेण (= प्रामुख्येन / बाहुल्येन) विद्यन्ते’ इति प्रयोगः भवति । अस्मिन्नेव सन्दर्भे अस्याः पौर्णमास्याः निर्देशः ‘गुडापूप + कन् → गुडापूपिका’ इत्यनेन भवति । प्रक्रिया इयम् - गुडापूप + कन् → गुडापूपक → गुडापूपक + टाप् [स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.14) इति टाप्] → गुडापूपिका [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इति इकारः] गुडापूपाः प्रायेण अन्नमस्यां पौर्णमास्याम् सा गुडापूपिका पौर्णमासी । आ) यस्याम् पौर्णमास्याम् तिलापूपाः (= तिलस्य अपूपाः) प्रायेण अन्नम्, सा तिलापूपिका पौर्णमासी । अत्र एकम् वार्त्तिकम् ज्ञेयम् - <!वटकेभ्य इनिर्वक्तव्यः!> । यस्यां पौर्णमास्याम् वटकाः (A type of parkoras made from grams) प्रायेण अन्नम्, सा वटकिनी पौर्णमासी । वटक + इनि → वटकिन् इति अत्र प्रातिपदिकम् । विशेषः - गुडापूपिका, तिलापूपिका, वटकिनी - एतानि पौर्णमास्याः विशिष्टानि नामानि पाणिनेः काले विद्यमानानि आसन् । एतेषाम् सिद्ध्यर्थम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति । अद्यतन काले अपि भिन्नासु प्रादेशिकभाषासु एतादृशाः शब्दाः विद्यन्ते एव । यथा - श्रावणमासस्य पौर्णमास्याः अपरम् नाम मराठीभाषायाम् ‘नारळीपौर्णिमा’ इति वर्तते ; अयम् निर्देशः ‘नारिकेलस्य ओदनम् प्रायेण अन्नमस्यां पौर्णमास्याम्’ इत्यस्मिन् अर्थे कृतः अस्ति ।
Vasu English Summary¶
The affix कन् comes in the sense of ‘this is the principal food of this particular occasion’ after a word denoting food in the Nominative 1st-Case in construction, when the whole word so formed is a Name.
Vasu English Translation¶
The affix कन् comes in the sense of ‘this is the principal food of this particular occasion’ after a word denoting food in the Nominative 1st-Case in construction, when the whole word so formed is a Name. Thus गुडापूपाः प्रायेणान्नमस्या पौर्णमास्यां = गुडापूपिका पौर्णमासी “The Gudapupika - Paurnmasi” i. e that particular Full- Moon day in which cakes of sugar form the principal accompaniment of food. Similarly तिलापूपिका, कृशरिका, त्रिपुटिका &c.
Vart:- The affix इनि comes after वटक in the same sense. As वटकिनी पौर्णमासी ॥
Bhashya¶
तदस्मिन्नन्नं प्राये संज्ञायाम् (2100) (5751 उपसंख्यानवार्तिकम्॥ 1 ॥) - प्राये संज्ञायां वटकेभ्य इनिः - (भाष्यम्) प्राये संज्ञायां वटकेभ्य इनिर्वक्तव्यः। वटकिनी पौर्णमासी॥
Kashika¶
तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थमन्नं चेत् प्रायविषयं तद् भवति। प्रायो बाहुल्यम्। संज्ञाग्रहणं तदन्तोपाधिः। गुडापूपाः प्रायेणान्नमस्यां पौर्णमास्यां गुडापूपिका। तिलापूपिका पौर्णमासी॥ वटकेभ्य इनिर्वक्तव्यः॥ वटकिनी पौर्णमासी॥
Siddhanta Kaumudi¶
प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी ।<!वटकेभ्य इनिर्वाच्यः !> (वार्तिकम्) ॥ वटकिनी ॥
Balamanorama¶
तदस्मिन्नन्नं प्राये संज्ञायाम् - तदस्मिन्नन्नं । प्रथमान्तादन्नवाचकादस्मिन्नित्यर्थे कन् स्यादन्नस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः । वटकेभ्य इति । संज्ञायामित्येव वटकिनीति । वटकाः प्रायेण अन्नमस्यां प्रौर्णमास्यामिति विग्रहः ।
Padamanjari¶
अन्नमुअब्यवहार्यम्, अद्यते स्मेति कृत्वा। गुकडामिश्रा अपूपा गुडापूपाःउकृसरस्तिलौदनः, तिलक्षोद इत्यन्ये। त्रैबिलोऽपूपस्त्रिपुटः। वटकेभ्य इनि रिति। कनि प्राप्ते वचनम्। ननु संज्ञाग्रहणात्कन्न भविष्यति, तस्मिंश्चासति मत्वर्थीय इनिर्भविष्यति ? न सिद्धयति;’सप्तम्यां च न तं स्मृतौ’ इति वचनात् ॥
Nyaas¶
अन्नं चेत्प्रायविषयम् इति। प्रायो विषयो यस्य तत्तथोक्तम्। विषयग्रहणे प्राये इति सप्तम्या विषयसप्तमीत्वं दर्शयि। प्रत्ययो भवति इति। अन्यथा गुडापूपाः प्रायेणान्नमिति ववक्षायाः कारकाणि भवन्तीतिप्रायस्य विषयभूतस्य करणत्वेन विवक्षितत्वात् तृतीया। गुडापूपिका इति प्रत्ययस्थात् कात् पूर्वस्यातः (7.3.44) इतीत्त्वम्।वटकेभ्य इनिर्वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - इह संज्ञाग्रहणस्य प्रत्ययान्तोपाधिकत्वाद्यत्र प्रत्ययान्तं संज्ञा भवति तत्र प्रत्ययेन भवितव्यम्। न च वटकशब्दः कन्प्रत्ययान्तः कस्यचित् संज्ञा, तेन ततः कन् न भविंष्यति तर्स्मिश्चासति मत्वर्थीय इनिर्भविष्यतीति। वटकिनो इति। ऋम्नेभ्यो ङीप् (4.1.5) ॥
Prakriyasarvasvam¶
तदन्नमस्मिन्नित्यर्थे प्राये द्योत्ये नाम्नि कन् । गुडापूपाः प्रायेणान्नस्यामिति गुडापूपिका पौर्णमासी । ‘वटकादिनिर्वाच्यः’ (वा०) । वटकाख्या अपूपाः प्रायेणान्नस्यामिति वटकिनी तिथिः ॥
Vartika¶
वटकेभ्य इनिर्वक्तव्यः ।