52100: लोमादिपामादिपिच्छादिभ्यः शनेलचः¶
Padacheda: लोमादि-पामादि-पिच्छादिभ्यः | S | 5 | 3 |
श-न-इलचः | S | 1 | 3 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः लोमादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः श-प्रत्ययः, पामादिगणस्य शब्देभ्यः न-प्रत्ययः, तथा पिच्छादिगणस्य शब्देभ्यः इलच्-प्रत्ययः भवति । पक्षे सर्वेभ्यः गणेभ्यः मतुँप् प्रत्ययः अपि विधीयते ।
तदस्यास्त्यस्मिन्नति मतुँप् (5.2.94) अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ अनयोः अर्थयोः औत्सर्गिकरूपेण ‘मतुँप्’ प्रत्ययः उच्यते । एतयोः एव अर्थयोः त्रयाणाम् गणानाम् विषये वर्तमानसूत्रेण त्रयः प्रत्ययाः विकल्पेन उच्यन्ते । क्रमेण पश्यामः - 1. लोमादिगणः **- लोमन्, रोमन्, वल्गु, बभ्रु, हरि, कपि, शुनि, तरु। एतेभ्यः सर्वेभ्यः शब्देभ्यः ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ अनयोः अर्थयोः ‘श’ इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते । यथा - अ) लोम्नः (hairs) अस्य अस्मिन् वा सन्ति सः = लोमन् + श → लोमश [**नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] लोम्नः यस्य सन्ति सः लोमशः (furry / hairy इत्यर्थः) । पक्षे - ‘लोमवान्’ इति अपि सिद्ध्यति । आ) रोम्णः (hairs) अस्य अस्मिन् वा सन्ति सः = रोमन् + श → रोमश । (furry / hairy इत्यर्थः) । पक्षे ‘रोमवान्’ इत्यपि सिद्ध्यति । विशेषः - 1. ‘गिरि’ शब्दः अपि अस्मिन् गणे स्वीक्रियते इति अधिकरणे शेतेः (3.2.15) इत्यत्र भट्टोजीदिक्षितः वदति । गिरिः अस्य अस्ति इति गिरिशः । कुमारसम्भवे ‘गिरिशमुपचचार’ इत्यत्र अयमेव शब्दः प्रयुक्तः अस्ति । 2. ‘श’ प्रत्यये शकारः केनापि सूत्रेण इत्संज्ञकः न भवतीति स्मर्तव्यम् । 2. पामादिगणः **- पामन्, वामन्, हेमन्, श्लेष्मन्, कद्रु, बलि, श्रेष्ठ, पलल, सामन्, अङ्गात् कल्याणे (गणसूत्रम्), शाकी-पलाली-दद्र्वां ह्रस्वत्वम् च (गणसूत्रम्), विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (गणसूत्रम्), लक्ष्म्या अच्च (गणसूत्रम्) । एतेभ्यः सर्वेभ्यः शब्देभ्यः ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ अनयोः अर्थयोः ‘न’ इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते । यथा - अ) पामा (scab / itch) अस्य अस्ति सः = पामन् + न → पाम + न [**नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] → पामनः । पामा अस्य अस्ति सः पामनः पक्षे ‘पामवान्’ इति अपि भवति । आ) वाम अस्य अस्ति सः वामनः । पक्षे ‘वामवान्’ इति अपि भवति । अस्मिन् गणे कानिचन गणसूत्राणि अपि दीयन्ते । तानि एतादृशानि - अ) अङ्गात् कल्याणे (गणसूत्रम्) । ‘कल्याण’ (fair / beautiful) इत्यनेन विशिष्टः ‘अङ्ग’शब्दः अस्मिन् गणे स्वीक्रियते । कल्याणमङ्गम् यस्याः सा = अङ्ग + न + टाप् → अङ्गना । पक्षे ‘अङ्गवान्’ / ‘अङ्गवती’ एते रूपे अपि भवतः । आ) शाकी-पलाली-दद्र्वां ह्रस्वत्वम् च (गणसूत्रम्) । शाकी (group of vegetables), पलाली (stem) यथा दद्रू (skin-disease) एतेषाम् शब्दानामस्मिन् गणे समावेशः भवति, तथा च ‘न’प्रत्यये परे तेषां ह्रस्वादेशः अपि विधीयते । यथा - i) शाकी अस्य अस्मिन् अस्ति सः शाकिनः । ii) पलाली अस्य अस्मिन् अस्ति वा पलालिनः । iii) दद्रूः अस्य अस्मिन् अस्ति सः दद्रुणः । पक्षे शाकीमान्, पलालीमान्, दद्रूमान् - एते शब्दाः अपि सिद्ध्यन्ति । (मतुँप्-प्रत्यये परे ह्रस्वादेशः न भवति, यतः गणसूत्रस्य प्रयोजनम् केवलम् न-प्रत्ययार्थम् एव अस्ति )। (इ) विष्वक् इति उत्तरपदलोपः च अकृतसन्धेः (गणसूत्रम्) । इत्युक्ते, ‘विष्वञ्च्’ (one who traverses both sides इत्यर्थः) शब्दः अस्मिन् गणे समाविश्यते, तथा च ‘विष्वञ्च्’ शब्दात् न-प्रत्यये कृते प्रक्रियायाम् ‘विषु + अञ्च्’ इति सन्धिच्छेदं कृत्वा ‘अञ्च्’ इति यत् उत्तरपदम्, तस्य लोपः भवति । विष्वक् अस्य अस्ति सः = विषु + न → विषुण । पक्षे ‘विश्वक्वान्’ इति मतुँप्-प्रत्ययः अपि भवति । स्मर्तव्यम् - i) अस्मिन् सूत्रे ‘विष्वक्’ इति उच्यते । अयं शब्दः ‘विष्वञ्च्’ इत्यस्य प्रथमैकवचनमस्ति । अतः अत्र मूलप्रातिपदिकम् ‘विष्वञ्च्’ इति ज्ञेयम् । ii) अस्मिन् गणसूत्रे ‘अकृतसन्धेः’ इति उच्यते । अस्य अर्थः अयम् - ‘विष्वञ्च्’ शब्दस्य निर्माणे यत् सन्धिकार्यम् भवति, तस्मात् कार्यात् पूर्वम् प्रक्रियायाम् यत् उत्तरपदम् विद्यते, तस्य अत्र लोपः भवति । अतः अत्र कस्य लोपः भवतीति ज्ञातुमादौ ‘विष्वञ्च्’ शब्दः कथं सिद्ध्यति, तत् ज्ञेयम् । ‘विष्वञ्च्’ इति शब्दः ‘विषु’ उपपदात् ‘अञ्च्’ धातुम् प्रयुज्य तस्मात् ‘क्विन्’ प्रत्ययं कृत्वा सिद्ध्यति । ‘विषु’ इत्युक्ते ‘दिशा’ (directions), तथा ‘अञ्च्’ इति धातुः ‘गच्छति’ अस्मिन् अर्थे प्रयुक्तः अस्ति । विषु + अञ्च् + क्विन् → विष्वञ्च् । यः भिन्नासु दिशासु गच्छति, तस्य निर्देशः ‘विष्वक्’ इत्यनेन भवति ((The one who roams in two or more directions इत्यर्थः) । अत्र ‘विषु’ इति पूर्वपदम्, ‘अञ्च्’ इति उत्तरपदम् । अतः एतस्मात् शब्दात् अग्रे न-प्रत्यये कृते ‘अञ्च्’ इत्यस्य लोपं कृत्वा ‘विषु + न → विषुण’ इति शब्दः सिद्ध्यति । (ई) लक्ष्म्या अच्च (गणसूत्रम्) । ‘लक्ष्मी’ शब्दस्य अस्मिन् गणे समावेशः भवति, तथा च ‘लक्ष्मी’ शबदस्य न-प्रत्यये परे अकारादेशः भवति । लक्ष्मीः अस्य अस्ति सः = लक्ष्मी + न → लक्ष्मण । पक्षे ‘लक्ष्मीवान्’ इति मतुँप्-प्रत्ययः अपि भवति - । , 3) पिच्छादिगणः - पिच्छ, उरस्, घ्रुवका, क्षुवका, जटाघटाकलाः क्षेपे (गणसूत्रम्), वर्ण, उदक, पङ्क, प्रज्ञा । एतेभ्यः शब्देभ्यः ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ अनयोः अर्थयोः ‘इलच्’ इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते । यथा - 1. पिच्छः (feather) अस्य अस्ति सः पिच्छ + इलच् → पिच्छिलः । पक्षे ‘पिच्छवान्’ इति अपि भवति । 2. उरः (chest) अस्य अस्ति सः उरस् + इलच् → उरसिलः । पक्षे ‘उरस्वान्’ इति अपि भवति । अस्मिन् गणे ‘जटाघटाकलाः क्षेपे’ इति गणसूत्रम् पाठ्यते । अस्य अर्थः अयम् - जटा, घटा, कला (various arrangements of hairs) एतेभ्यः शब्देभ्यः ‘क्षेप’ (= निन्दा / insult ) अस्मिन् अर्थे इलच्-प्रत्ययः भवति । यथा - जटा अस्य अस्ति सः जटिलः मूढः । घटा अस्य अस्ति सः घटिलः । कला अस्य अस्ति सः कलिलः । पक्षे मतुँप्-प्रत्ययः अपि भवति - जटावान्, घटावान्, कलावान् । यत्र ‘क्षेप’ इति अर्थः न प्रयुज्यते, तत्र तु औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति । विशेषः - एतत् गणसूत्रम् सिध्मादिभ्यश्च (5.2.97) इत्यत्र निर्दिष्टे सिध्मादिगणे अपि पाठितमस्ति । परन्तु तत्र एतेभ्यः शब्देभ्यः लच्-प्रत्ययः विधीयते ।
Vasu English Summary¶
The three affixes श , न and इलच् come in the sense of मतुप् respectively after the words of the three classes i.e. 1. लोमदि 2. पामादि and 3. पिच्छादि and the affix मतुप् also comes in the alternative.
Vasu English Translation¶
The three affixes श , न and इलच् come in the sense of मतुप् respectively after the words of the three classes i.e. 1. लोमदि 2. पामादि and 3. पिच्छादि and the affix मतुप् also comes in the alternative. The affix श comes after लोमादि words as, लोमशः or लोमवान् ‘hairy’. The affix न comes after पामादि words, as, पामनः or पामवान् ‘scabby’. The affix इलच् comes after पिच्छादि words, as, पिच्छिलः or पिच्छिवान् ‘broth’.
Vart:- The affix न comes after the word अङ्ग in the sense of beautiful; as अङ्गना ‘the fair one’ i.e. a woman.
Vart:- The words शाकी, पलाली and दद्रू shorten their final vowel before न, as शाकिनम् ‘a field’, पलालिनम्, दद्रुणम् ॥
Vart:- The word विष्वक् (विषु + अंच्) loses its second member, before न, and the change caused by sandhi (उ in to व्) is undone. Otherwise the form would be विष्णः (वक् being elided), as विष्वञ्जितानि सन्ति अस्य = विषुणम् ‘moving variously’.
Vart:- The affix न comes after लक्ष्मी, before which ई is changed to अ, as लक्ष्मीरस्यास्ति = लक्ष्मणः ॥
Vart:- The affix ilach comes after jata, ghata, and kala, when censure is meant, as जटिलः, घटिलः कलिलः but जटावान् when no censure is meant.
1 लोमन्, 2 रोमन्, 3 बभ्रु, 4 हरि, 5 गिरि, 6 कर्क, 7 कपि, 8 मुनि, 9 तरु ॥
1 पामन्, 2 वामन्, 3 वेमन्, 4 हेमन्, 5 श्लेष्मन्, 6 कद्र (कद्रु), 7 वाल, 8 सामन्, 9 ऊष्मन्, 10 कृमि, 11 अङ्गात् कल्याण, 12 शाकीपलालीदद्रूणां (शाकीपलालीद्द्रूवां), हृस्वत्वं च, 13 विष्वगित्युत्तरपदलोपश्चाकृतसंधेः (विषुण), 14 लक्ष्म्या अच्च (लक्ष्मणः), 15 श्रेष्ठ, 16 पलल ॥
1 पिच्छा (पिच्छ), 2 उरस, 3 घुवक (क्षुवक), 4 ध्रुवक (ध्रुवका), 5 जटाघटाकलः (जटाघटाकलान्), क्षेपे, 6 वर्ण, 7 उदक, 8 पङ्क, 9 प्रज्ञा ॥
Bhashya¶
लोमादिपामादिपिच्छादिभ्यः शनेलचः (2118) (5767 उपसंख्यानवार्तिकम्॥ 1 ॥) - नप्रकरणे दद्रवा ह्रस्वत्वं च - (भाष्यम्) नप्रकरणे दद्रवा उपसंख्यानं कर्तव्यम्, ह्रस्वत्वं च वक्तव्यम्। दद्रुणः। अत्यल्पमिदमुच्यते। शाकीपलालीदद्रूणां ह्रस्वत्वं चेति वक्तव्यम्। शाकिनम्। पलालिनम्। दद्रुणम्॥ (5768 उपसंख्यानवार्तिकम्॥ 2 ॥) - विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः - (भाष्यम्) विष्वगित्युपसंख्यानं कर्तव्यम्, उत्तरपदलोपश्चाकृतसन्धेर्वक्तव्यः। विष्वग्गतान्यस्य विषुणः॥
Kashika¶
लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च त्रिभ्यो गणेभ्यो यथासंख्यं श न इलच् इत्येते प्रत्यया भवन्ति मत्वर्थे, मतुप् च। लोमादिभ्यः शो भवति। लोमशः, लोमवान्। पामादिभ्यो नो भवति। पामनः, पामवान्। पिच्छादिभ्य इलच् भवति। पिच्छिलः, पिच्छवान्। उरसिलः, उरस्वान्॥ लोमन्। रोमन्। वल्गु। बभ्रु। हरि। कपि। शुनि। तरु। लोमादिः॥ पामन्। वामन्। हेमन्। श्लेष्मन्। कद्रु। बलि। श्रेष्ठ। पलल। सामन्। अङ्गात् कल्याणे (ग०सू० १३०)। शाकीपलालीदद्र्वां ह्रस्वत्वं च (ग०सू० १३१)। विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (ग०सू० १३२)। लक्ष्म्या अच्च (ग०सू० १३३)। पामादिः॥ पिच्छ। उरस्। ध्रुवका। क्षुवका। जटाघटाकलाः क्षेपे (ग०सू० १३४)। वर्ण। उदक। पङ्क। प्रज्ञा। पिच्छादिः॥
Siddhanta Kaumudi¶
लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः ॥ (गणसूत्रम् -) अङ्गात्कल्याणे । अङ्गना ॥ (गणसूत्रम् -) लक्ष्म्या अच्च । लक्ष्मणः ।<!विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः !> (वार्तिकम्) ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥
Laghu Siddhanta Kaumudi¶
लोमादिभ्यः शः। लोमशः। लोमवान्। रोमशः। रोमवान्। पामादिभ्यो नः। पामनः। <=अङ्गात्कल्याणे=> (गणसूत्रम्) । अङ्गना । <=लक्ष्म्या अच्च=> (गणसूत्रम्) । लक्ष्मणः। पिच्छादिभ्य इलच्। पिच्छिलः। पिच्छवान्॥
Balamanorama¶
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः - प्रज्ञाश्रद्धार्चाभ्योणः । प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः । प्राज्ञो व्याकरणमिति । प्रज्ञानं प्रज्ञा । स्त्रियामित्यधिकारे प्रपूर्वकाज्ज्ञाधातोः ‘आतश्चोपसर्गे’ इति भावे अङ् । प्रज्ञा अस्यास्तीति विग्रहः । उपसर्जनभूतामपि प्रज्ञानतन्निषेधात् । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम् । नच प्रजानातीति प्रज्ञः ।इगुपधे॑ति कः । प्रज्ञशब्दात्स्वार्थे अणि प्राज्ञ इति सिध्यतीति शङ्क्यं, तथा सति स्त्रिया ङीप्प्रसङ्गात् । तदाह — प्राज्ञेति । श्राद्ध इति । श्रद्धा अस्यास्तीति विग्रहः । आर्चेति । अर्चा अस्यास्तीति विग्रहः ।वृत्तेश्चेति । वार्तिकमिदम् । ‘मत्वर्थे णप्रत्यय’ इति शेषः । वार्त इति । वृत्तिरस्यास्तीति विग्रहः ।
Tattvabodhini¶
लोमादिपामादिपिच्छादिभ्यः शनेलचः - लोमादि । इहनन्दिग्रहिपचादिभ्यः॑इतिवत्लोमपामपिच्छादिभ्यः॑इति सुपठम् ।अङ्ग कल्याणे॑इति गणसूत्रमर्थतः पठति — — अङ्गादिति ।शाकीपलालीदद्र्वा ह्रस्वत्वं च । शाकीपलालीदद्र्वा ह्रस्वत्वं च । चान्नप्रत्ययः । महच्छाकं शाकी । तद्वत् -शाकिनम् । महत्पलालं पलाली । तद्वत् पलालिनम् ।दरिद्रातेर्यालोपश्चे॑त्युणादिसूत्रेण इकाराकारयोर्लोपश्चादूप्रत्ययः । दर्द्रूस्त्वग्रोगविशेषऋ । तद्वान् -दद्र्रुणः ।विष्वगित्युत्तरपदलोपश्चाऽकृतसन्धेः । विष्वगिति ।समर्थाना॑मित्यस्यापवादोऽयम् । अकृत सन्धेरकृतयणादेशस्याऽञ्चतेर्लोपः, चकारान्नप्रत्यय इत्यर्थः । यदि तु कृते यणादेशे उत्तरपदलोपः स्यात्तदा विलिलोपे सतिविष्ण॑इति स्यात् । विषुण इति । विषु=नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्ति विषुणः=विषुवदाख्यः कालः । तस्य हि नानागतानि दिनानि सन्ति । दिनान्तराणां न्यूनाधिकभावस्य तन्मूलत्वात् । अयं भावः — — विषुवति दिनानां समतायां जातायामग्रे न्यूनान्यधिकानि च दिनानि भवेयुरिति नानागतदिनवत्त्वं यद्यपि विषुवति नास्ति तथापि नानागतदिमूलङूतदिनानां सत्त्वात्तथोच्यत इति । तथा नानागमनवत्त्वान्मृत्युर्वायुरव्यवस्थितचितश्चविषुण॑शब्देनोच्यते ।प्रज्ञाश्रद्धा । प्राज्ञो व्याकरणमिति । गुणभूतया क्रियया कर्मत्वेन संबन्धः । कृद्ग्रहणात्तद्धितप्रयोगे षष्ठी न, कृतपूर्वी कटमितिवत् । ननु प्रकर्षेण जानातीति प्रज्ञः, स एव प्रज्ञा इत्यणि कृते सिद्धमिष्टं, किमत्र प्रज्ञाग्रहणेनेत्याशङ्कां निराकुर्वन्नाह -प्राज्ञेति । स्त्रियां टाप् ।प्रज्ञादिभ्यश्चे॑त्यणि तुङीप् स्यादिति भावः ।वृत्तेश्च । वृत्तेश्चेति । वार्तिकमिदम् । काशिकाकृता तु वृत्तिशब्दः सूत्रे प्रक्षिप्तः । विच्छिन्नस्य प्रतिविधानं -वृत्तिः ।
Padamanjari¶
अङ्ग कल्याण इति। ठङ्गऽ इत्येतत् कल्याणविशिष्टेऽर्थे वर्तमानं प्रत्ययमुत्पादयति - कल्याणान्यङ्गान्यस्य अङ्गना, स्त्रिया एवाभिधानम्। कल्याण इति किम् ? अङ्गवती। शाकीपलालीदद्रवां ह्रस्वत्वं चेति। शाक्यादीनां नप्रत्ययो भवति ह्रस्वत्वं च-शाकिनम्, पलालिनम्। महच्छाकं शाकी, नानाजातीय एकसमाहारो वा। पलालक्षोदःउपलाली, भिन्नानि वा शलिकोद्रवादिपललानि।’दरिद्रातेर्यालोपश्च’ इति दरिद्रातेरूकारः प्रत्ययो भवति, रिकाराकारयोश्च लोपः। दद्रूःउत्वग्रोगविशेषः, स यस्यास्ति स दद्रुणः। विष्वगिति। विष्वक्शब्दान्नप्रत्ययो भवति उतरपदलोपश्च, स चाकृतसन्देरकृतसन्धिकार्यस्य, अकृतयणादेशस्येत्यर्थः। विषु नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्तीति विषुणःउ विषुषुवदाख्यः कालः, तस्य हि नानागतीनि दिनानि सन्ति, तदाश्रयत्वाद्दिवसान्तराणां न्यूनाधिकभावस्य। तथा मृत्युः, वयुः, अनवस्थितप्रकृतिर्मनुष्यादिश्च विषुणः, तत्र वृत्तिविषये गमनक्रियान्तर्भावाद्विष्वग्गमनमस्यास्कतीत्येवं वाक्यदेरभिदानमिच्छन्ति। यदि तु कृते यणादेशे उतरपदलोपः स्याद्, वलि लोपे सति विष्ण इति प्राप्नोति। लक्ष्म्या अच्चेति। लक्ष्मीशब्दान्नप्रत्ययो भवति अकअरश्चान्तादेशः, लक्षामीरस्यास्ति लक्ष्मणः। जटाघटाकलाः क्षेप इति। जटादयः क्षेपे गम्यमाने इलचमुत्पादयन्ति - जटिलः, घटिलः, कलिलः। क्षेपादन्यत्र जटावान् ॥
Nyaas¶
पामादिषु अङ्गात् इति पठते, तत्र कल्याणग्रहणमङ्गविशेषणम्। कल्याणानि शोभनान्यङ्गान्यस्याः सन्तीत्यङ्गना। कल्याम इति किम्? अङ्गवती। शीकीपलालीदद्रवां ह्रस्वत्वञ्च इति। शाक्यादीनाञ्च प्रत्ययो भवति ह्रस्वत्वञ्च - शाकिनः, पलालिनः दद्रुणः। महच्छाकं शाकी, महापलालं पलालौति केचित्। नानाजातीयानां शाकानां समाहारः शाकी, पलालानां समाहारः पलालीति। विष्वक् इत्यादि। विष्वक्शब्दान्न प्रत्ययो भवति, उत्तरपदलोपश्च। स चाकृतसन्धेः अकृतयणादेशस्य। विष्वञ्चतीति विषुशब्द उपपदेऽञ्चते; ऋत्विक् (3.2.59) इत्यादिना क्विन्, अनुनासिकलोपः, ततो विषु+अच्? इति स्थिते विष्वञ्चो यस्य सन्तीति न प्रत्ययः, अकृतयणादेशस्योत्तरपदलोपः - विषुण इति भवति। विषुणशब्दोऽयं निपात्यते। नानार्थे वर्तते। लक्ष्म्या अच्च इति। लक्ष्माशब्दान्नप्रत्यो भवति, अकारश्चान्तादेशः लक्ष्मीरस्यास्तीति लक्ष्मणः। जटा घट इत्यादि। जटादिभ्यः क्षेपे गम्यमान इलच्प्रत्ययः। जटिलः, घटिलः, कलिलः। क्षेप इति किम्? जटावान्, घटावान्, कलावान्॥
Prakriyasarvasvam¶
लोमरोमभ्रुवभ्लुभुरुहुरुहरिकपिकर्केभ्यः शः (स० ५-२-१४३) । लोमशः रोमशः बभ्रुवर्णवान् बभ्रुशः । स एव बभ्लुशः भुरुशः रुरुशः हरिशः कपिशः कर्कशः । ‘पामवामहेमश्यामश्लेष्मोष्मदद्रुकृमिवलिभ्यो नः (स० ५-२-१४४) । पामनः वामनः हेमनः श्यामनः श्लेष्मणः ऊष्मणः दद्रूणः कृमिणः बलिनः । दद्रूवा ह्रस्वश्चेति माधवः । दद्रुणः । कुष्ठभेदो दद्रवाख्यः । ‘शाकीपलालीकद्रूणां ह्रस्वश्च’ (स० ५-२-१४५) । महच्छाकं शाकसमूहो वा शाकी । महत्पलालं तच्चूर्णं वा पलाली । नागमाता गृहगोधा वा कद्रूः । शाकिनं पलालिनं कद्रुणम् । ‘विष्वचोऽ- कृतसन्धेरुत्तरपदलोपश्च’ (स० ५-२-१४६) विषु अच् इत्यत्र अच्शब्दलोपः । विष्वञ्चो जना अस्य सन्तीति विषुणः । विष्वग्गमनवानपीति हरः । ‘अङ्गात्कल्याणे’ (स० ५-२-१४७) कल्याणाङ्गवत्यङ्गना । ‘लक्ष्म्या अ च’ (स० ५-२-१४८) ईकारस्यात्वम् । वा लक्ष्मीवान् लक्ष्मणः । ‘पिच्छोरःपर्णोदकध्रुवकाधुवकाप्रज्ञाभ्य इलच्’ (स० ५-२-१३९) पिच्छा स्त्रिग्धांशोऽस्यास्तीति पिच्छिलं दधि । उरसा बलं लक्ष्यते उरसिलः । पर्णिलः उदकिलः । ध्रुवकिलः । ध्रुवकिलः ध्रुवकाधुवके पात्रभेदौ । प्रज्ञिलः । पङ्ककाकग्रहगुहाभ्यश्च’ । पङ्किलः । काकिलः । आग्रहवान् ग्राहिलः । गुहिलः । ‘जटाघटाकलाभ्यः क्षेपे’ (स० ५-२-१४०) सिध्मादौ पिच्छादौ चैवमेव हरोक्तम् । जटालः घटालः कलालः जटिलः घटिलः कलिलः । अक्षेपे तु जटावान्मुनिः । घटावान्नृपः । कलावान् विटः ।।
Vartika¶
विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः ।
Sutra Prayogas¶
वलितापाङ्गलोचनः (किरातार्जुनीयम्): लोमादिपामादिपिच्छादिभ्यः शनेलचः इति सूत्रेण पामादित्वात् प्रत्ययः।