52096: प्राणिस्थादातो लजन्यतरस्याम्¶
Padacheda: प्राणिस्थात् | S | 5 | 1 |
आतः | S | 5 | 1 |
लच् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्राणिनामङ्गवाचिभ्यः आकारान्तशब्देभ्यः प्रथमासमर्थेभ्यः विकल्पेन लच्-प्रत्ययः भवति, पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः प्रथमासमर्थेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन मतुँप्-प्रत्यये प्राप्ते ; ये आकारान्ताः शब्दाः प्राणिस्थवाचकाः सन्ति (= प्राणिनामवयवस्य निर्देशं कुर्वन्ति) तेभ्यः वर्तमानसूत्रेण विकल्पेन लच्-प्रत्ययः अपि भवति । पक्षे मतुँप्-प्रत्ययः तु विधीयते एव । यथा - 1. चूडा (apex / crest / crown of head) अस्य अस्ति सः = चूडा + लच् → चूडालः (कश्चन पक्षी यस्य मस्तिष्के चूडा अस्ति । white cockato इति) । पक्षे मतुँप्-प्रत्यये कृते मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इत्यनेन मकारस्य वकारादेशं कृत्वा चूडावान् इत्यपि सिद्ध्यति । 2. कर्णिका (specific type of long ears) अस्य अस्ति सः कर्णिकालः कर्णिकावान् वा शृगालः । विशेषः - 1. अस्मिन् सूत्रे ‘प्राणिस्थ’ इति उच्यते । अस्य शब्दस्य अर्थः ‘प्राणिषु तिष्ठति तत्’ इति भवति । अतः ‘प्राणिषु विद्यमाना चिकीर्षा, इच्छा, माया, मेधा’ - एतेषाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः उद्भवति । परन्तु अस्य सूत्रस्य प्रयोगः केवलम् ‘प्राणिनामङ्गवाचिभ्यः शब्देभ्यः’ एव क्रियते, चिकीर्षादिभ्यः अन्येभ्यः शब्देभ्यः न । अस्य स्पष्टीकरणार्थमेव वार्त्तिककारः वदति - <!प्राण्यङ्गात् इति वक्तव्यम्!> । अङ्गवाचिभ्यः शब्देभ्यः एव प्रत्ययः विधीयते, इति अस्य वार्त्तिकस्य आशयः । अतः ‘चिकीर्षा, इच्छा, माया, मेधा’ - एतादृशानां शब्दानां विषये केवलम् मतुँप्-प्रत्ययः एव भवति । यथा - चिकीर्षावान्, मेधावान् - आदयः । 2. अस्य सूत्रस्य प्रसक्तिः आकारान्तशब्दानाम् विषये एव अस्ति - इति स्मर्तव्यम् । अतएव ‘हस्त’, ‘दन्त’, ‘पाद’ एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण लच्-प्रत्ययः न भवति । 3. अस्मिन् सूत्रे ‘लच्’ इति प्रत्यये चकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् ‘तद्धितस्य (6.1.164) इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वविधानम्’ इति अस्ति । इत्युक्ते, ‘चुडाल’ इति शब्दस्य अन्तिमः स्वरः (= लकारोत्तरः अकारः) अनेन उदात्तत्वं प्राप्नोति । यदि अस्मिन् प्रत्यये चकारः इत्संज्ञकः न स्यात्, अपितु केवलं ‘ल’ इत्येव प्रत्ययः उच्येत, तर्हि आद्युदात्तश्च (3.1.3) इत्यनेन प्रत्ययस्य आदिस्वरः (लकारोत्तरः अकारः) प्रारम्भे उदात्तः एव भवेत्, परन्तु ‘चूडालोऽस्ति’ एतादृशेषु वाक्येषु अयमुदात्तस्वरः उत्तरपदस्य अनुदात्तस्वरेण सह एकादेशं कृत्वा स्वरितो वाऽनुदात्ते पदादौ (8.2.6) इत्यनेन विकल्पेन स्वरितत्वं प्राप्नुयात् । अस्य बाधनार्थम् एव प्रत्यये चकारः इत्संज्ञकः पाठितः अस्ति । 4. लच्-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - चूडाला, कर्णिकाला ।
Vasu English Summary¶
The affix लच् comes optionally in the sense of मतुप् after a stem ending in long आ the word expressing something which is found only in a living being.
Vasu English Translation¶
The affix लच् comes optionally in the sense of मतुप् after a stem ending in long आ the word expressing something which is found only in a living being. Thus from चूडा ‘a crest’, we have चूडालः or चूडावान्. So also कर्णिकालः or कर्णिकावान् ॥ Why do we say ‘which is found in a living being’? Observe शिखावान् प्रदीपः ‘the crested flame of a lamp’. Why do we say “ending in आ”? Observe हस्तवान्, पादवान् ॥
Vart:- It should be stated that the affix लच् comes only after what denotes member or limb of a living being, (and not anything like love, passion, intelligence &c, that are also found in living being). Hence there is no affixing of लच् here : चिकीर्षाऽस्यास्ति = चिकीर्षावान्, जिहीर्षावान् ॥
Every affix is udatta (3.1.3), unless contrary is indicated by some anubandha. The लच् would have been udatta by (3.1.3), even without the indicatory च् (V1.1. 163). The employment of this anubandha, however indicates that this udatta will never be changed into svarita, as other udattas are by rule (8.2.6), as चूडालोऽसि ॥
Bhashya¶
प्राणिस्थादातो लजन्यतरस्याम् (2114) (अतिव्याप्त्याशंकाभाष्यम्) इह कस्मान्न भवति - चिकीर्षाऽस्यास्ति, जिहीर्षाऽस्यास्तीति? (एकदेशिसमाधानभाष्यम्) प्राण्यङ्गादिति वक्तव्यम्। तत्तर्हि वक्तव्यम्। न वक्तव्यम्॥ (सिद्धान्तभाष्यम्) कस्मान्न भवति - जिहीर्षाऽस्यास्ति, चिकीर्षाऽस्यास्तीति? अनभिधानात्॥
Kashika¶
प्राणिस्थवाचिनः शब्दादाकारान्तात् लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। चूडालः, चूडावान्। कर्णिकालः, कर्णिकावान्। प्राणिस्थादिति किम् ? शिखावान् प्रदीपः। आदिति किम्? हस्तवान्। पादवान्॥ प्राण्यङ्गादिति वक्तव्यम्॥ इह मा भूत् — चिकीर्षास्यास्ति चिकीर्षावान्, जिहीर्षास्यास्ति जिहीर्षावान्। प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारश्चूडालोऽस्तीत्यत्र स्वरितो वानुदात्ते पदादौ (८.२.६) इति स्वरितबाधनार्थः॥
Siddhanta Kaumudi¶
चूडालः । चूडवान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥<!प्राण्यङ्गादेव !> (वार्तिकम्) ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ स्वरितो वानुदात्ते पदादौ (SK3659) इति स्वरितबाधनार्थश्चकारः ॥
Laghu Siddhanta Kaumudi¶
चूडालः। चूडावान्। प्राणिस्थात्किम्? शिखावान् दीपः। प्राण्यङ्गादेव। मेधावान्॥
Balamanorama¶
प्राणिस्थादातो लजन्यतरस्याम् - प्राणिस्थात् । आदन्तात्प्राणिस्थवाचिनः शब्दान्मत्वर्थे लज्वा स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य दीपाग्रवाचिनः प्राणिस्थवाचित्वाऽभावान्न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचिश्चत्करणं व्यर्थं, चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धेरित्यत आह — प्रत्ययस्वरेणेति । चूडालोऽसीति । तत्र असीत्येतत् ‘तिङ्ङतिङः’ इति निहतम् । चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनाऽनुदात्तस्याद्गुणस्यएकादेश उदात्तेने॑त्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्ते सहैकादेशत्वात्स्वरितो वाऽनुदात्ते॑ इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः ।
Tattvabodhini¶
प्राणिस्थादातो लजन्यतरस्याम् - प्राणिस्थात् । शिखावान्दीप इति । प्रत्युदाहरणदिगियं दर्शिता । शिखशब्दस्य व्रीह्रादिपाठेन लचोऽप्रसङ्गात् ।चूडावान् वृक्षः॑इति प्रत्युदाहार्यमिति हरदत्तः । न च वृक्षस्य प्राणित्वमस्तीति शङ्क्यम्, मुखनासासंचारी वायुः प्राणः, तद्वानेव प्राणीति तदाशयात् । प्राण्यङ्गादेवेति । एतच्चेतिकरणानुवृत्त्या लभ्यते । चूडालोऽसीति ।असी॑त्यस्यतिङ्ङतिङः॑इति निगातः । चूडालशब्दात्सोरुत्वे तस्यअतो रोरप्लुता॑दित्युकारे कृते, हलां स्नंसनधर्मत्वात्तत्स्थानिकोऽकारोऽनुदात्तः । सुप्स्थानिकस्यापि सुप्त्वात्अनुदात्तौ सुप्पितौ॑इत्यनुदात्त इत्यन्ये । पूर्वेण सह आद्गुणे सतिएकादेश उदात्तेने॑त्योकार उदात्तः । ततःएङः पदान्तादती॑ति पूर्वरूपमेकादेशस्तस्यस्वरितो वाऽनुदात्ते॑इत्यादिना स्वरिते प्राप्ते तद्बाधनाय चकार इत्यर्थः ।
Nyaas¶
कणिकालः इति। कणिकादिशब्दोऽयं प्राण्यङ्गस्य वाचकः, नालङ्कारविशेषस्य। प्राण्यङ्गादेव हीष्यते, अत आह - प्राण्यङ्गादिति वक्तव्यम् इति। प्राण्यङ्गत्वादेवाकारान्तल्लज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - इतिकरणो विवक्षार्थोऽनुवर्तते। तेन प्राण्यङ्गदेव भविष्यतीति, नान्यस्मात्। अनभिधानाद्वाऽप्राण्यङ्गान्न भविष्यतीति। ननु चैकाचो लचः प्रत्ययस्वरेणान्तोदात्तत्वं सिद्धम्, तत्किमर्थं चकारः? इत्याह - प्रत्ययस्वरेणैव इत्यादि। चूडालशब्दात्? प्रथमैकवचनान्तात्? परतोऽसिशब्दे व्यवस्थिते तस्य तिङ्ङतिङः (8.1.28) इति निघातः, सोः ससजुषो रुः (8.2.66) इति रुत्वम्, अतो रोरप्लुतादप्लुते (6.1.113) इत्युत्वम्,ाद्गुणः` (6.1.84) , तस्य च एकादेश उदात्तेनोदात्तः (8.2.5) इत्युदात्तत्वम्, एङः पदान्तादति (6.1.109) इति पररूपमेकादेशः। असति तु वकारे स्वरितो वानुदात्तेऽपदादौ (8.2.6) इति स्वरितः स्यात्। अतस्तद्बाधनार्थ चकारः क्रियते॥
Prakriyasarvasvam¶
प्राणिस्थादादन्ताल्लज्वा । चूडालः चूडावान् । अप्राणिस्थे तु चूडावान् स्तम्भः । ‘प्राण्यङ्गादेवेष्टम्’ । तेन शोभावानिच्छावान् नर इत्यादौ न । छाया- लतनुवल्लरी चूडालं शशिलेखयेत्यादौ च्छायां लात्यादत्त इति ‘आतोऽनुपसर्गे कः’ (३-२-३) ‘केसरालमित्यलेरणीति वामनः । केसराण्यलति भूषणीकरोतीति कर्मण्यणि केसरालं नलिनम् ॥
Vartika¶
प्राण्यङ्गादेव ।
Sutra Prayogas¶
शिराल (भट्टिकाव्यम्): प्राणिस्थादातो लजन्यतरस्याम् इति लच्।