52083: कुल्माषादञ्¶
Padacheda: कुल्माषात् | S | 5 | 1 |
अञ् | S | 1 | 1 |
Sutrartha¶
‘तत् अन्नम् बाहुल्येन विद्यते’ इत्यस्मिन् अर्थे प्रथमासमर्थात् ‘कुल्माष’शब्दात् संज्ञायाः निर्देशार्थमञ् -प्रत्ययः भवति ।
‘तत् अन्नम् बाहुल्येन विद्यते’ इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् तदस्मिन्नन्नं प्राये संज्ञायाम् (5.2.82) अनेन सूत्रेण औत्सर्गिकरूपेण कन्-प्रत्यये विहिते ‘कुल्माष’(a certain type of grain) शब्दात् अस्य अपवादरूपेण ‘अञ्’ प्रत्ययः भवति । कुल्माषाः प्रायेण अन्नमस्याम् पौर्णमास्याम्, सा कौल्माषी पौर्णमासी । प्रक्रिया इयम् - कुल्माष + अञ् → कौल्माष + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कौल्माष् + अ [यस्येति च (6.4.148) इति अकारलोपः] → कौल्माष → कौल्माष + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इति ङीप्] → कौल्माष् + ई [यस्येति च (6.4.148) इति अकारलोपः] → कौल्माषी
Vasu English Summary¶
The affix अण् comes in the sense of ‘this is the principal food on this particular occasion’ after the word कुल्माष when the whole word is a Name.
Vasu English Translation¶
The affix अण् comes in the sense of ‘this is the principal food on this particular occasion’ after the word कुल्माष when the whole word is a Name. The ञ् of अञ् is for the sake of causing Vriddhi and accent. Thus कुल्माषाः प्रायेणान्नमस्यां = कौल्माषी पौर्णमासी ॥
Kashika¶
कुल्माषशब्दादञ् प्रत्ययो भवति तदस्मिन्नन्नं प्राये संज्ञायामित्येतस्मिन्नर्थे। ञकारो वृद्धिस्वरार्थः। कुल्माषाः प्रायेणान्नमस्यां कौल्माषी पौर्णमासी॥
Siddhanta Kaumudi¶
कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥
Balamanorama¶
कुल्माषादञ् - कुल्माषादञ् । कनोऽपवादः ।स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॑ इत्यमरः ।
Padamanjari¶
कुल्माषाःउमुद्गाः ॥
Nyaas¶
संज्ञाग्रहणेन पूर्वेण कनः प्राप्तावसत्यां वाक्येनाभिधाने प्राप्ते मत्वर्थीये मतुबादाविदमुच्यते। व्कौल्माणी इति। टिड्ढाणञ् (4.1.15) इति ङीप्॥
Prakriyasarvasvam¶
कुल्मासो माष इति रामः । मुद्ग इति हरः । तत्प्रायान्ना कौल्मासी । तिथिः ॥