52086: पूर्वादिनिः¶
Padacheda: पूर्वात् | S | 5 | 1 |
इनिः | S | 1 | 1 |
Sutrartha¶
‘अनेन (कृतम्)’ अस्मिन् अर्थे कालवाचकात् ‘पूर्व’ शब्दात् इनि-प्रत्ययः भवति ।
अनेन सूत्रेण ‘पूर्व’ इति शब्दात ‘इनि’ इति प्रत्ययं कृत्वा ‘पूर्विन्’ इति प्रातिपदिकस्य निर्माणम् क्रियते । इदम् प्रातिपदिकम् कस्मिन् अर्थे प्रयुज्यते इति सूत्रात् तु न स्पष्टीभवति परन्तु व्याख्यानैः अस्य स्पष्टीकरणम् दीयते । केनचन मनुष्येन काचन क्रिया यदि ‘पूर्वस्मिन् काले’ कृता विद्यते, तर्हि तस्य मनुष्यस्य निर्देशः ‘पूर्वी’ इत्यनेन भवति । यथा - 1. पूर्वमनेन गतम् सः पूर्वी । One who has left in past. 2. पूर्वमनेन पीतम् सः पूर्वी । One who has drank in past. 3. पूर्वमनेन भुङ्क्तम् सः पूर्वी । One who has ate in past. 4. पूर्वमनेन कृतम् सः पूर्वी । One who has done in past.
शिष्टप्रयोगं दृष्ट्वैव अस्य सूत्रस्य प्रयोगः करणीयः इति स्मर्तव्यम् ।
Vasu English Summary¶
The affix इनि (इन्) comes in the sense of ‘by whom something was done formerly’ after the word पूर्व।
Vasu English Translation¶
The affix इनि (इन्) comes in the sense of ‘by whom something was done formerly’ after the word पूर्व। The word अनेन of the last sutra is understood here. But what is the verb of which अनेन is the agent. The भुक्त does not come to be read into this sutra. Therefore we must supply some general verb such as ‘doing’ &c, to complete the sense. Thus पूर्वं गतमनेन = पूर्वी ॥ So also पूर्वं भुक्तं, पीतं &c. अनेन = पूर्वी s. पूर्विणौ d. पूर्विणः pl. In fact पूर्विन् means by whom some thing was done &c, formerly.
Kashika¶
अनेनेति प्रत्ययार्थः कर्तानुवर्तते। न च क्रियामन्तरेण कर्ता संभवतीति यां कांचित् क्रियामध्याहृत्य प्रत्ययो विधेयः। पूर्वादनेनेत्यस्मिन्नर्थ इनिः प्रत्ययो भवति। पूर्वं गतमनेन भुक्तं पीतं वा पूर्वी, पूर्विणौ, पूर्विणः॥
Siddhanta Kaumudi¶
पूर्वं कृतमनेन पूर्वी ॥
Laghu Siddhanta Kaumudi¶
पूर्वं कृतमनेन पूर्वी॥
Balamanorama¶
पूर्वादिनिः - पूर्वादिनिः । अनेनेति कर्तृतृतीयान्तमनुवर्तते । कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम् । उपस्थितत्वात् कृञर्छभूतं क्रियासामान्यमेव प्रतीयते । ततश्च पूर्वं कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दादनेनेत्यर्थे इनिः स्यादित्यर्थः ।
Tattvabodhini¶
पूर्वादिनिः - पूर्वादिनिः । पूर्वमिति क्रियाविशेषणाद्द्वितीयान्तात्प्रत्ययः ।अनेने॑ति कर्तृवाचकमनुवर्तते । न च क्रियामन्तरेण कर्ता संभवतीति कांचित्क्रियामध्याह्मत्य प्रत्ययो विधेयस्तदाह -पूर्व कृतमनेनेति ।
Padamanjari¶
पूर्वं गतमनेनेत्यादि। क्रियाविशेषणाद् द्वितीयान्तात्प्रत्ययः ॥
Nyaas¶
पूर्व गतं पीतं भूक्तम् इति। पूर्वशब्दोऽत्र क्रियाविशेषणत्वात्? कर्म भवतीति द्वितीयासमर्थात्? प्रत्ययो विज्ञायते। पूर्वो इति। सौ च (6.4.13) इति दीर्घः॥
Prakriyasarvasvam¶
अस्मादनेनेत्यर्थ इनिः । प्रकरणात् क्रियाविशेषं प्रकल्प्य क्रियाविशेषणानां कर्मत्वाद् द्वितीयान्तात् पूर्वादिनिः कार्यः । पूर्वं भुक्तं गतं वानेनेति पूर्वी ॥