52090: अनुपद्यन्वेष्टा¶
Padacheda: अनुपदी | S | 1 | 1 |
अन्वेष्टा | S | 1 | 1 |
Sutrartha¶
‘अन्वेष्टा’ अस्मिन् अर्थे ‘अनुपदी’ शब्दः निपात्यते ।
अन्वेषणम् करोति सः अन्वेष्टा (detective इत्याशयः) । अस्मिन् अर्थे ‘अनुपदी’ इति शब्दः निपात्यते । यथा - अ) गवामनुपदी - गवामन्वेषणम् करोति सः । (One who searches for cows) आ) उष्ट्राणामनुपदी - उष्ट्राणामन्वेषणम् करोति सः । विशेषः - ‘अनुपदी’ शब्दस्य निर्माणम् ‘अनुपद’ इत्यस्मात् शब्दात् ‘इनि’ प्रत्ययं कृत्वा क्रियते । अनुपद + इन् → अनुपदिन् । ‘अनुपद’ इति शब्दः ‘पदस्य पश्चात्’ इति अव्ययीभावसमासेन जायते ; अतः अनेन निर्मितः ‘अनुपदी’ शब्दः ‘पदस्य पश्चात्’ (= by following the footprints) इत्यस्मिन्नेव सन्दर्भे प्रयुज्यते । इत्युक्ते, पदचिह्नान् दृष्ट्वा यः अन्वेषणम् करोति (One who searches for say cows using their footprints - rather than by following their sound) तस्य निर्देशः ‘अनुपदी’ इत्यनेन भवति ।
Vasu English Summary¶
The word अनुपदिन् formed anomalously by इनि denotes ‘who goes after, who searches’.
Vasu English Translation¶
The word अनुपदिन् formed anomalously by इनि denotes ‘who goes after, who searches’. Thus अनुपदी गवाम, अनुपदी उष्ट्राणाम् “going after or searching the cows and camels”.
Kashika¶
अनुपदीति निपात्यतेऽन्वेष्टा चेत् स भवति। पदस्य पश्चादनुपदम्। अनुपदी गवाम्॥ अनुपदी उष्ट्राणाम्॥
Siddhanta Kaumudi¶
अनुपदमन्वेष्टा अनुपदी गवाम् ॥
Balamanorama¶
अनुपद्यन्वेष्टा - अनुपद्यन्वेष्टा । पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुपदमित्यस्मादन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते ।
Tattvabodhini¶
अनुपद्यन्वेष्टा - अनुपद्यन्वेष्टा । अन्वेष्टरि इनिः प्रत्ययो निपात्यते । अनुपदमिति । पदस्य पश्चात् । पश्चादर्थेऽव्ययीभावः । अनुपदीगवामिति । पदापेक्षया षष्ठी गोपदात् । पश्चादन्वेषणं गवामेव । तेन हिरण्यादावन्येष्ये न भवतीति हरदत्तः ।
Padamanjari¶
पदस्य पश्चादनुपदम्, पश्चादर्थेऽव्ययीभावः, अन्वेष्टरीनिप्रत्ययो निपात्यते। अनुपदी गवाभिति। पदापेक्षया षष्ठी, गोपदस्य पश्चादन्वेषणं गवामेव, हिरण्यादावन्वेष्ये न भवति; पदाभावात्। यदि त्वन्वेष्टशब्दात्स्वार्थे इनिप्रत्ययः, एष्ट्ःअशब्दस्य च पदशब्द आदेसो निपात्येत; यदि वा - श्रोत्रियवदविद्यमानप्रकृतिप्रत्यमन्वेष्टरि निपात्येत, ततो गवामिति षष्ठी न प्राप्नोतिकृतपूर्वी कटम्, अनुको भार्यामभिको दासीमितिवत् द्वितीया प्राप्नोति; हिरण्यादौ चान्वेष्ये - अनुपदी हिरण्यमिति। तस्माद्यथोक्तमेव साधीयः ॥
Nyaas¶
अनुपदी इति। पश्चात्? पदस्यानुपदम्, पश्चादर्थेऽव्ययीभावः। तस्मादिनिप्रत्ययो निपात्यते॥
Prakriyasarvasvam¶
पदचिह्नं दृष्ट्वान्वेष्टा अनुपदी । तेन हिरण्याद्यन्वेष्टरि न । स्वामी त्वन्वेष्टानुपदी समावित्याह ॥