Sutras 1 - 20¶
- 51001: प्राक् क्रीताच्छः
- 51002: उगवादिभ्यो यत्
- 51003: कम्बलाच्च संज्ञायाम्
- 51004: विभाषा हविरपूपादिभ्यः
- 51005: तस्मै हितम्
- 51006: शरीरावयवाद्यत्
- 51007: खलयवमाषतिलवृषब्रह्मणश्च
- 51008: अजाविभ्यां थ्यन्
- 51009: आत्मन्विश्वजनभोगोत्तरपदात् खः
- 51010: सर्वपुरुषाभ्यां णढञौ
- 51011: माणवचरकाभ्यां खञ्
- 51012: तदर्थं विकृतेः प्रकृतौ
- 51013: छदिरुपधिबलेर्ढञ्
- 51014: ऋषभोपानहोर्ञ्यः
- 51015: चर्मणोऽञ्
- 51016: तदस्य तदस्मिन् स्यादिति
- 51017: परिखाया ढञ्
- 51018: प्राग्वतेष्ठञ्
- 51019: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
- 51020: असमासे निष्कादिभ्यः