51012: तदर्थं विकृतेः प्रकृतौ¶
Padacheda: तदर्थम् | S | 1 | 1 |
विकृतेः | S | 5 | 1 |
प्रकृतौ | S | 7 | 1 |
Sutrartha¶
चतुर्थीसमर्थात् विकृतिवाचकशब्दात् तस्य कारणभूतां प्रकृतिं निर्देशयितुम् यथाविहितं प्रत्ययः भवति ।
अस्य सूत्रस्य अर्थम् ज्ञातुमादौ पदपरिचयं पश्यामः । 1. ‘प्रकृतिः’ इत्युक्ते उपादानस्य (निर्माणस्य) कारणम् । यथा, अङ्गाराणाम् निर्माणम् काष्ठेभ्यः भवति (काष्ठानाम् दहनेन अङ्गाराः जायन्ते) । अतः अङ्गाराणाम् प्रकृतिः काष्ठम् - इति उच्यते । तथैव, जलस्य प्रकृतिः कूपः, यतः कूपे जलं उद्भवति । 2. ‘विकृतिः’ इत्युक्ते अवस्थान्तरम् / परिवर्तनम् । यथा, अङ्गारः इति काष्ठस्य विकृतिः (दहनात् अनन्तरम् काष्ठस्य अवस्थायां परिवर्तनम् जायते इत्याशयः) । 3. यदि प्रकृत्याः कस्यचन पदार्थस्य निर्माणम् भवति परन्तु तत्र प्रकृत्याः अवस्थान्तरं न जायते, तर्हि निर्मितः पदार्थः ‘विकृतिः’ इत्यपि अभिधानम् न प्राप्नोति । यथा, ‘जलस्य प्रकृतिः कूपः’ इति उच्यते (यतः जलम् कूपात् उद्भवति), परन्तु जलम् इति कूपस्य विकृतिः न, यतः जलस्य निर्माणार्थम् कूपस्य अवस्थान्तरम् न भवति । अस्मिन् सूत्रे ‘विकृतेः प्रकृतौ’ इति द्वयोः ग्रहणेन अयमेव बिन्दुः निर्दिष्टः अस्ति - यत्र काचन प्रकृतिः विकृतिं जनयति तत्रैव अस्य सूत्रस्य प्रयोगः भवितुमर्हति । सर्वासाम् प्रकृतीनाम् विकृतीनाम् विषये च सूत्रमिदम् न विहितम्, इति आशयः । इदानीम् सूत्रार्थं पश्यामः - यत्र काचन प्रकृतिः विकृतिम् जनयति, तत्र प्रकृत्याः निर्देशं कर्तुम् चतुर्थीसमर्थात् विकृतिवाचिशब्दात् छ-प्रत्ययः औत्सर्गिकरूपेण विधीयते । उदाहरणत्रयं पश्यामश्चेत् स्पष्टतरम् स्यात् - 1. काष्ठम् इति प्रकृतिः, अङ्गाराः इति विकृतिः, काष्ठानां दाहनेन च अङ्गाराः जायन्ते । अतः काष्ठस्य निर्देशार्थम् ‘अङ्गार’-शब्दात् छ-प्रत्ययः भवति । यथा - अङ्गारेभ्यः एतानि अङ्गारीयाणि काष्ठानि । प्रक्रिया इयम् - अङ्गार + छ → अङ्गार + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईय्-आदेशः] → अङ्गार् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → अङ्गारीय 2. प्राकारः (fence) इति विकृतिः, इष्टका (bricks) इति प्रकृतिः । प्राकाराय एताः प्राकारीयाः इष्टकाः । प्रक्रिया इयम् - प्राकार + छ → प्राकार + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईय्-आदेशः] → प्राकार् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → प्राकारीय 3. पिचुः (वस्त्रम्) इति विकृतिः, कार्पासः इति प्रकृतिः । अत्र औत्सर्गिकं छ-प्रत्ययं बाधित्वा उगवादिभ्यो यत् (5.1.2) इत्यनेन यत्-प्रत्ययः भवति । पिचवे अयम् पिचव्यः कार्पासः । प्रक्रिया इयम् - पिचु + यत् [उगवादिभ्यो यत् इति यत्] → पिचो + य [ओर्गुणः (6.4.146) इति गुणः] → पिचव् + य [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] → पिचव्य । ज्ञातव्यम् - 1. यत्र प्रकृत्याः ‘विकृतिः’ न जायते, अपितु अन्यः कश्चन पदार्थः निर्मीयते, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, कूपम् इति जलस्य प्रकृतिः, परन्तु कूपस्य विकृतिः जलम् न - यतः कूपस्य परिवर्तनं कृत्वा जलं न जायते । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । 2. अस्मिन् सूत्रे ‘तदर्थम्’ इति शब्दः प्रयुज्यते । ‘तदर्थम्’ अनेन शब्देन प्रकृति-विकृत्योर्मध्ये विद्यमानः सम्बन्धः अत्र निर्दिश्यते । कः अस्य अर्थः? प्रकृतिविकृत्योर्मध्ये वस्तुतः भिन्नाः सम्बन्धाः भवितुमर्हन्ति , तेभ्यः केवलं ‘तादर्थ्यसम्बन्ध’स्य विषये एव अस्य सूत्रस्य प्रयोगः भवति, न अन्येषाम् - इति अत्र आशयः । यथा, यवागूसेवनेन मूत्रनिर्माणम् भवति, अतः अत्र ‘यवागूः’ इति प्रकृतिः अस्ति, ‘मूत्रम्’ इति च विकृतिः । परन्तु अयम् सम्बन्धः ‘योग्यता’सम्बन्धः अस्ति (यवागूः मूत्रनिर्माणार्थम् योग्या - इत्याशयः), न हि ‘तादर्थ्य’सम्बन्धः (यतः यवागूः न सेव्यते चेदपि मूत्रनिर्माणम् भवत्येव) । अतः अत्र अस्य सूत्रस्य प्रयोगः न क्रियते । अन्यदेकमुदाहरणम् एतत् - यवानामावरणम् निष्कास्यते चेत् धानाः जायन्ते । (When the outer coating of यव is removed, what is obtained is referred as धाना) । अत्र यवः इति प्रकृतिः, धाना इति विकृतिः । परन्तु अत्र द्वयोर्मध्ये विद्यमानः सम्बन्धः ‘अन्तरव्यावृतिः’ (‘removal’) इति अस्ति, न हि ‘तादर्थ्यम्’ । अतः अत्रापि अस्य सूत्रस्य प्रयोगः न भवति । काष्ठ-अङ्गाराणाम् विषये तु तादर्थ्य-सम्बन्धः (‘अनन्यार्थता) दृश्यते - काष्ठानि अङ्गाराश्च मूलरूपेण एकम् एव वस्तु । अतः अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति । अस्मिन् विषये अधिकं पिपठिषवः न्यासम् पदमञ्जरीं च पश्यन्तु । 3. ‘तदर्थम्’ इत्यनेन निर्दिष्टः ‘तादर्थ्य’सम्बन्धः यदि प्रकृतिविकृतिसम्बन्धस्य विषये नास्ति, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा, खड्गस्य कोशः ‘खड्गार्थम्’ एव विद्यते - इत्युक्ते, खड्गकोशयोर्मध्ये ‘तादर्थ्य’सम्बन्धः अस्ति, परन्तु ‘कोशः’ इति खड्गस्य प्रकृतिः न । अतः अत्रापि अस्य सूत्रस्य प्रसक्तिः नास्ति । 4. काशिकाकारस्य मतेन केचन पण्डिताः तस्मै हितम् (5.1.5) इत्यस्मात् ‘हितम्’ इत्यस्य अप्यत्र अनुवृत्तिं कारयन्ति । यथा - अङ्गारेभ्यः हितानि अङ्गारीयानि काष्ठानि । अस्यापि अर्थः समानः एव । 5. यत्र यत्र विकृतिः अस्ति, तत्र तत्र तस्याः काचन प्रकृतिः भवेदेव । अतः केवलम् ‘तदर्थं विकृतेः’ इति उच्यते चेदपि प्रायः सम्पूर्णः अर्थः विधीयेत । तथाप्यत्र ‘प्रकृतौ’ इति स्पष्टरूपेण निर्दिष्टमस्ति । अस्य कारणम् काशिकाकारः वदति - ‘द्वयोरपि प्रकृतिविकृत्योर्ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते’ । इत्युक्ते, प्रकृति-विकृत्योः द्वयोः ग्रहणम् - ‘केवलम् विशिष्टेषु अर्थेषु एव अस्य सूत्रस्य प्रसक्तिः स्यात्’ - एतत् प्रतिपादयितुम् कृतमस्ति ।
Vasu English Summary¶
After the word being the name of a product, the above-mentioned affix comes, to denote a thing which is the primitive that is serviceable for that.
Vasu English Translation¶
After the word being the name of a product, the above-mentioned affix comes, to denote a thing which is the primitive that is serviceable for that. The word प्रकृति means ‘primitive or the material cause of a product’, The word विकृति means ‘the product’ or ‘modification of such primitive’ तदर्थे ‘serviceable for that’ i. e. ‘the primitive being serviceable for the product’. The word तदर्थे shows that the primitive must be serviceable for that particular product and nothing else. That is to say, an affix will not come to denote any product in general, but only when the primitive is serviceable for a particular product and nothing else. The word तदर्थ shows also that the word must be in the 4th case, when the affix is added. Some read the words तस्मै हितं also into this sutra.
Thus अङ्गारेभ्यो हितानि एतानि काष्ठानि = अङ्गारीयाणि काष्ठानि ‘wood serviceable for making charcoal;’ so also प्राकारीया इष्टकाः ‘bricks serviceable for making a wall’. Here अङ्गारीय and प्राकारीय are formed by छ (5.1.1). Similarly शङ्कव्यं दारु ‘wood serviceable for a spear.’, पिचव्यः कार्पासः ‘cotton plant serviceable for cotton’.
Why do we say तदर्थम् ‘serviceable thereto’? Observe यवानां धानाः, धानानां सक्तवः ॥ Here there is modification of primitive, but सक्तु is the product also of other things than धानाः such as लाजा &c.
Why do we say विकृतेः ‘after a product’? Observe उदकार्थः कूपः, there is no affix. For कूपः ‘a well’ and उदक ‘water’ do not stand in the relation of and प्रकृति and विकृति i.e. material cause and effect. As ‘water’ is not the modification or product of ‘the well, though it is found in the well, and therefore, the affix is not employed.
Why do we say प्रकृतौ ‘to denote a primitive’. Observe अस्यर्था कोशी ‘a sheath serviceable for a sword’. The sword is a product of iron, but a sheath is not the primitive of the sword.
By using the words प्रकृति and विकृति it is further shown that the prakriti is liable to modification or vikara.
Bhashya¶
तदर्थं विकृतेः प्रकृतौ (1894) (तदर्थे प्रत्ययविध्यधिकरणम्) (5605 संग्रहवार्तिकम्॥ 1 ॥) - तदर्थमिति कृत्यनामभ्यष्ठञ्ञ् - (भाष्यम्) तदर्थमिति कृत्यनामभ्यष्ठञ्ञ्वक्तव्यः। इन्द्रमहार्थमैन्द्रमहिकम्। गाङ्गामहिकम्। काशेरुयज्ञिकम्॥ (5606 प्रत्याख्यानवार्तिकम्॥ 2 ॥) - न वा प्रयोजनेन कृतत्वात् - (भाष्यम्) न वा वक्तव्यम्। किं कारणम्? प्रयोजनेन कृतत्वात्। यद्धीन्द्रमहार्थम्, इन्द्रमहस्तस्य प्रयोजनं भवति; तत्र प्रयोजनम् (5.1.109) इत्येव सिद्धम्॥
Kashika¶
प्रकृतिरुपादानकारणम्, तस्यैव उत्तरमवस्थान्तरं विकृतिः। विकृतिवाचिनः प्रातिपदिकात् प्रकृतावभिधेयायां यथाविहितं प्रत्ययो भवति। तदर्थमिति प्रत्ययार्थविशेषणम्। तदिति सर्वनाम्ना विकृतिः परामृश्यते। विकृत्यर्थायां प्रकृतौ प्रत्ययः। तदर्थग्रहणेन प्रकृतेरनन्यार्थताख्यायते। न प्रकृतिविकारसंभवमात्रे प्रत्ययः। किं तर्हि? प्रकृतेरनन्यार्थत्वे विवक्षिते। प्रत्ययार्थस्य च तदर्थत्वे सति सामर्थ्याल् लभ्या चतुर्थी समर्थविभक्तिः। केचित् तु तस्मै हितम् (५.१.५) इत्यनुवर्तयन्ति। अङ्गारेभ्यो हितान्येतानि काष्ठानि अङ्गारीयाणि काष्ठानि। प्राकारीया इष्टकाः। शङ्कव्यं दारु। पिचव्यः कार्पासः। तदर्थमिति किम्? यवानां धानाः। धानानां सक्तवः। प्रकृत्यन्तरनिवृत्तिरत्र विवक्षिता न तादर्थ्यम् — धानानां सक्तवः, न लाजानामिति। विकृतेरिति किम्? उदकार्थः कूपः। विकृतिग्रहणेऽक्रियमाणे या काचित् प्रकृतिर्गृह्यते, नोपादानकारणमेव। भवति च कूप उदकस्य प्रकृतिः, तत्रोत्पादनात्। न तूदकं तस्य विकृतिः, अत्यन्तभेदात्। प्रकृताविति किम् ? अस्यर्था कोशी। असिरयसो विकृतिर्भवति, न तु कोशी तस्य प्रकृतिर्भवति। द्वयोरपि प्रकृतिविकृत्योर्ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते॥
Siddhanta Kaumudi¶
विकृतिवाचाकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गरेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ॥
Balamanorama¶
तदर्थं विकृतेः प्रकृतौ - तदर्थं विकृतेः प्रकृतौ । तदर्थमितिसामान्ये नपुंसकम् । तस्मै इदं तदर्थम् । तच्छब्देन विकृतिः परामृश्यते । सप्तम्यर्थे प्रथमा । विकृत्यर्थायां प्रकृताविति लभ्यते । एवं च तच्छब्देन चतुथ्र्यन्तेन विकृतिरेव प्रथमं निर्दिश्यते । तथा च चतुथ्र्यन्ताद्विकृतिवाचकादिति लभ्यते । तदाह — विकृतिवाचकादित्यादिना । प्रत्ययः स्यादिति ।यथाविहित॑मिति शेषः । अङ्गारेब्य एतानीति । अङ्गारार्थानीत्यर्थः । अर्थेन नित्यसमासविधानादस्वपद विग्रहः । अत्र काण्ठानि प्रकृतिद्रव्याणि । अङ्गारा विकृतयः । तद्वाचकादङ्गारशब्दाच्छप्रत्ययेअङ्गारीयाणी॑ति रूपम् । प्राकारीया इष्टका इतदि । प्राकारेभ्य इमा इति विग्रहः । प्राकारार्था इत्यर्थः । शङ्कव्यमिति । शङ्कवे इदमिति विग्रहः । शङ्क्वर्थमित्यर्थः । ‘उगवादिभ्यः’ इति यत् ।
Tattvabodhini¶
तदर्थं विकृतेः प्रकृतौ - तदर्थ विकृतेः ।तस्मै हित॑मित्यतस्तस्मा इत्यनुवर्तते । तदाह -चतुथ्र्यन्तादिति ।तदर्थ॑मितिसामान्ये नपुंसकं॑ । व्यत्ययेन सप्तमीस्थाने प्रथमेत्याशयेनाह — तदर्थायामिति । विकृत्यर्थायामित्यर्थः ।त॑दिति सर्वनाम्ना हि विकृतिः परमृश्यते । एवं च विकृतिरेव प्रथमानिर्दिष्टेतिसमर्थाना प्रथमा॑दित्यधिकारोऽप्यत्र निर्बाध व । शङ्कव्यमिति ।उगवादिभ्यः॑ इति यत् ।
Padamanjari¶
उपादीयतेऽस्मात्कार्यमित्यपादान्म्, उपादानं च तत्कारणं च उपादानकारणम्। कार्यस्य हि त्रीणि कारणानि-उपादानकारणम्, असमावायिकारणम्, निमितकारणमिति, तत्र कार्येणापृथग्देशं यद्बुद्धिः कार्येष्वनुवर्तते, तद्यथा-मृदयं कुम्भः, तन्तघः पट, हिरण्यं कुण्कडलमिति तदुपादानकारणम्। उपादानकारणप्रत्यासन्नमसमवायिकारणम्, यथा-तन्तुसंयोगः पटस्य। तटस्थं तु कारणं निमितकरणम्-तन्तु-वायदि, तदेतेषु त्रिषु यदुपादानं सा प्रकृतिः, तस्यवोपादानकारणस्योतरमवस्थान्तरं विकृतिरिति। अनेन कार्योपादानयोरभेदमाह। यथा हि-शिक्यं रज्जुरिति न तत्वान्तरम्, अथ न च रज्जुमात्रे शिक्यप्रतितिः, एवमत्रापि मृदेव घटः, तन्वव एव पटः, सुवर्णमेव कुण्डलम्, अथ च न मृदादिमात्रे घटादिप्रतीतिः। यद्यपि वृक्षादिषु न बीजादिप्रतीतिर्भवति, या तु बीजस्यानन्तरावस्था तत्र तत्प्रतीतिर्भव्त्येव। एवं तदनन्तरादिष्वप्यवस्थासु पूर्वपूर्वा प्रतीतिर्द्रष्टव्य। वृक्षस्य तु बीजं पर परयोपादानकारणमिति सर्वमवदातम्। विकृतिवाचिन इति। ननु’समर्थानां प्रथमात्’ इति वचनातदर्खस्य चेह प्रथमनिर्देशात्परकृतेश्च तदर्थत्वातद्वाचिन एव प्रत्ययःप्राप्नोतीत्यत आह-तदिति सर्वनाम्ना विकृतिः प्रत्यवभृश्यत इति। तेन विकृतिरेव सर्वतः प्रथमनिर्दिष्टेति भावः। विकृत्यर्थायां प्रकृतौ प्रत्यय इति ॥ ऐतेन तदर्थमिति सप्तम्याः स्थाने प्रथमा, स्त्रीलिङ्गस्य च स्थाने नपुंसकलिङ्गमिति दर्शयति। तदर्थग्रहणेनेत्यादि। इह प्रकृतिविकारवाक्ये क्वचिद्योग्यतामात्रं विवक्ष्यते-मूत्राय कल्पते यवागूरिति; क्वचित्प्रकृत्यन्तरव्यावृत्तिः, यथा - यवानां धानाः, धानानां सक्तव इति; क्वचित्प्रकृतेरनन्यार्थता, यथा - अङ्गरेभ्य एतानि काष्ठानीति, तत्रेह चरमोऽर्थो विवक्षित इति प्रतिपादनाय तदर्थग्रहणं कृतमित्यर्थः। किं सिद्धं भवति ? तदाह - न प्रकृतिविकारेति। प्रत्ययार्थस्य चेत्यादि। विकृत्यर्थायां हि प्रकृतौ प्रत्यय उच्यते, तच्य तस्यास्तादर्थ्यं चतुर्थ्यैव शक्यते बोधयितुमित्येतत्सामर्थ्यम्। केचित्विति । तेषां वचनादेव लभ्या चतुर्थी। यवानां धाना इति। येषां सामर्थ्यलभ्या चतुर्थी तेषामिदं प्रत्युदाहरणाम्। ये तु’तस्मै’ इत्यनुवर्तयन्ति, तेषां मूत्राय कल्पते यवागूरिति द्रष्टव्यम्। या काचिदिति। अनुपदानकारणभूतापीत्यर्थः। तत्रैतत्स्याद् - न कूप उदकस्य काचिदपि प्रकृतिस्तत्राह - भवतदि चेति। कुत इत्याह - तत्रेति। यथैव हि प्रयाजादीनां धर्माणामुत्पत्याधारत्वाद्दर्शपूर्णमासौ प्रकृतिः सौर्यादीनाम, एवमुदकधर्माणां क्षारत्वादीनामुत्पत्याधारत्वात्कूप उदकस्य प्रकृतिरित्यर्थः। यद्येवम्, उदकमपि तस्य विकृतिरेव सौर्यादिवत् ? इत्यत आह - न त्विति। कुत इत्यत आहात्यन्तभेदादिति। तस्यैवोतरमवस्तान्तरं विकृतिरित्यत्र-कार्यकारणयोर्नात्यन्तभेदः, मृदयं कुम्भ इति प्रतीतेः। नाप्येकान्ततस्यत्वमः मृन्मात्रे कुम्भप्रतीतेर भावत्। तस्मात्कथञ्चिद् भेदः, कथञ्चिच्चाभेदः। एतेन जातितद्वतोर्गुणगुणिनोश्च भेदाभेदौ व्याख्यातौ। न तु कोशी तस्य प्रकृतिरिति। अतत्कारणत्वादनुत्पत्याधारत्वाच्च, चर्मपिनद्धं दार्वादिनिर्मितमस्यादीनां प्रक्षेपस्थानं कोशी। ननु च प्रकृतिर्विकृतिरिति च सम्बन्धिशब्दावेतौ, सम्बन्धिशब्दाश्च नियतमेव सम्बन्धिनमुपस्थापयन्ति, तद्यथा - मातरि वर्तितव्यमित्युक्ते न चोच्यते स्वश्यामिति, अथ च या यस्या माता तस्यामिति गम्यते, एवं चात्रान्यतरोपदानेऽप्यन्यतरस्य प्रतीतिः सिद्धयति ? अत आह - द्वयोरपीति। एवं मन्यते - विपूर्वोऽयं करोतिररत्येवापकारे-दैवं मे दौस्थ्ये विकरोतीति, अस्ति चेष्टानानात्वे-विकुर्वते छात्रा इति, अस्त्यनौचित्येविकृतिरेषा स्त्रीणां यत्स्वातन्त्र्यं नामेति, अस्ति कार्ये - तन्तूनां विकारः पट इति; तथा प्रपूर्वोऽपि करोतिरनेकार्थः, आस्ति कारणे-तन्तवः प्रकृतिः पटस्येति, सांक्यास्तु सत्वरजस्तमसां गुणानां साम्यावस्थां प्रकृतिमाहुः, अस्ति दोषापगमेप्रकृतिस्थं मन इति, अस्ति स्वभावे-प्रकृत्याभिरूप इति, अस्ति धर्माणामुत्पत्याधारे - यथोक्तं पुरस्तात्, तदेवमनेकार्थत्वान्नानयोरैकान्तिकं सम्बन्धिशब्दत्वमित्यन्यतरोपादानेन विवक्षितः प्रकृतिविकारभावो लभ्यत इति।’तस्य विकारः’ इत्यत्र तु अभिधातस्वभावादेव कार्यस्य ग्रहणम्, नापकारादेः ॥
Nyaas¶
तस्मै इदं तदर्थम्, चतुर्थी तदर्थ (2.1.35) इत्यादिना समासः। एतदेव वचनं ज्ञापकम् - अर्थोत्तरपदे समासे समुदायार्थस्य लिङ्गं भवति, न च परवल्लिङ्गतेतिं। एतेन यदुक्तं - अर्थेन नित्यसमासः सर्वलिङ्गता च वक्तव्या (वा।78) इति सा सिद्धा भवति। प्रकृतिरुपादानकारणम् इति। समानजातीयमभिन्नसन्तानवृत्ति कारणमुपादनकारणमित्युच्यते। उपादीयत इत्युपादानम्, बहुलवचनात्? कर्मणि ल्युट्, तस्य कारणमिति षष्ठीसमासः। तस्यैव व इत्यादि। तस्यैवोपादानकारणस्योत्तरभाव्यस्थाविशेषो विकृतिः। विकृतिवाचिनः इत्यादि। ननु च समर्थानां प्रथमाद्वा (4.1.82) इति वचनात्तदर्थमिति प्रथमं निर्दिष्टत्वात्? प्रकृतेश्च तदर्थत्वात्? तद्वाचिन एव प्रत्ययः प्राप्नोति? नैष दोषः; प्रथमस्य चाप्रथमस्य च कार्यप्राप्तौ प्रथमादेव यथा स्यादित्येवमर्थं प्रथमग्रहणं नियमार्थं कृतम्। इह तु प्रथमात्? प्राप्तिरेव नास्ति। प्रकृतौ इति। सप्तम्या प्रकृतेः प्रत्ययार्थत्वेन सम्पादितत्वात्। विकृतेः इति। पञ्चम्या विकृतेः प्रकृतित्वेन तस्मान्नायमस्य विषय इति विकृतिवाचिन एव प्रत्ययो भवति। विकृत्यर्थायाम् इति। अनेन तदर्थमित्यत्र सुब्व्यत्ययेन सप्तम्याः स्थाने प्रथमा, लिङ्गव्यत्ययेन च स्त्रीलिङ्गस्य स्थाने नपुंसकलिङ्गं कृतमिति दर्शयति। ननु च छन्दसि व्यत्यय उक्तः, नेदं छन्दः, तत्कुतो व्यत्ययः? छन्दोवत्सूत्राणि भवन्ति (म।भा।1.1.1) इत्यदोषः। तदर्थग्रहणेन इत्यादि। इह प्रकृत्यन्तरनिवृत्तिः - यवानां धानाः, धानानां सक्तव इति। क्वचिद्विकारस्य प्रकृतिसम्बन्धः - धानानां यवाः, सक्तूनां धाना इति। क्वचित्? प्रकृतेरनन्यार्थता, यथा - काष्ठानामङ्गाराः। प्रकृतेरनन्यार्थताख्यानार्थेन यदिष्टं सम्पद्यते, तद्दर्शयति - प्रत्ययार्थस्य च इत्यादि। इह विकृत्यर्थायां प्रकृतौ प्रत्यय उच्यते। तस्य तस्मात्? तादर्थ्ये चतुर्थ्येव शक्यते प्रतिबोधयितुम्। अतः प्रत्ययार्थस्य तदर्थत्वेन सामर्थ्याच्चतुर्थी समर्थविभक्तिर्लभ्यते। केचित्तु इत्यादि। तेषां वचनलभ्यैवु चतुर्थी समर्थविभक्तिः।तदर्थम् इति। किमिति षष्ठी प्रत्युदाह्यियते? षष्ठति तादथ्र्यं ब्रूते, यथा - गुरोरिदं गुर्वर्थमिति। तथा सति षष्ठपि समर्थविभक्तिर्भवति। अङ्गाराणां काष्ठानीति प्रत्युदाहरणं तु प्रकृत्यन्तरनिवृत्त्या, तया यवादेः समर्थ्येते। अङ्गारेभ्यः काष्ठानि, प्राकारेभ्य इष्टका इति। इदमसति तदर्थग्रहणे न ज्ञायते किमर्थं विवक्षितमिति। तस्मादनन्यार्थता प्रकृतेर्विवक्षितेति। एतत्? प्रयोजनं प्रतिपादयितुं तदर्थग्रहणं कृतमिति भावः। तथा च प्रकृत्यन्तरनिवृत्या प्रकृतिरेव सम्बध्यमाना व्यतिरिच्यत इति यवादेरेव व्यतिरेकविभक्तिर्भवति। ये तु चतुर्थींमनुवर्तयन्ति, तेषां तदरथग्रहणं चतर्थीविशेषणं विज्ञायते - तादर्थ्ये चतुर्थीति। तत्र मूत्राय कल्पते यवागूरिति प्रत्युदाहरणम्। तेषां चतुथ्र्यनुवृत्तिरपार्थिका; तदर्थग्रहणेनैव गतार्थत्वात्। तथा च या तादथ्र्यसमानार्था षष्ठी सा चासत्यां विशेष्यते। या काचित् इतचि। न तूपादानकारणभूतापीत्यर्थः। स्यादेतत् - कूपः प्रकृतिरुदकस्य न भवत्येव; ततस्तन्निवृत्त्यर्थं विकृतिग्रहणं न कर्तव्यमित्यत आह - भवति च इत्यादि। चशब्दोवधारणे। ननु चान्येभ्य एव स्वकारणेभ्य उदकमुत्पाद्यते, तत्कथं कूपस्तस्य प्रकृतिः? इत्याह - तत्रोत्पादनात् इति। यथैव हि प्रयाजादीनां धर्माणामुत्पत्त्याधारभूतौ दर्शपौर्णमासौ प्रकृतौ भवतः, एवमुदकस्योत्पत्त्याधारभूतत्वात्? कूपः प्रकृतिर्भवति। यद्येवम्, उदकमपि तस्य विकृतिः? इत्याह - ननु इत्यादि। अत्रैवोपपत्तिमाह - अत्यन्तभेदात् इति। विकारो हि प्रकृतेरुत्तरमवस्थान्तरमिति ततो नात्यन्तभिन्नो भवति, यथा - काष्ठानामङ्गाराः। ते हि पार्थिवेनाभिन्नसन्तानवर्त्तित्वेन काष्ठेभ्यो नात्यन्तं भिद्यन्ते। उदकं तु भिन्नस्वभावत्वाद्भिन्नसन्तानवर्त्तित्वाच्च कूपादत्यन्तं भिन्नम्। अतो न तस्योत्तरमवस्तान्तरमिति न भवति विकृतिः। न तु कोशी तस्य प्रकृतिः इति। अतत्कारणत्वात्, अनुत्पत्त्याधारभूतत्वाच्च। ननु च प्रकृतिर्विकृतिरिति सम्बन्धिशब्दावेतौ। सम्बन्धिशब्दश्च नियत एव प्रतियोगिनि प्रतीतिमुपजनयति, यथा हि - मातरिवर्त्तितव्यम् इत्युक्ते न चोच्यते स्वस्यां मातरि इति, या यस्या माता तस्यामिति प्रतीयते। एवं सति कूपलक्षणायां प्रकृतौ विकृत्यर्थायां प्रत्ययार्थत्वेन विवक्षितायामसत्यपि विकृतग्रहणे तस्यैव कूपस्य या या विकृतिस्तत एव प्रत्ययो विज्ञायते। तथा च विकारवाचिनोऽसिशब्दात्? प्रत्यये विधित्सिते यस्यासौ प्रकृतिस्तस्यामेव तदर्थायां प्रकृतावसत्यपि प्रकृतिग्रहणे प्रत्ययो विज्ञायते। तस्मादन्यतरोपादानेऽपि सर्वमिष्टं सम्पद्यते। न किञ्चिदनिष्टमापद्यत इत्याह - तदर्थं द्वयोरपि इत्यादि। अनेनैवं मन्यते - स्यादेतदेव यदासौ प्रकृतिविकृतिशब्दौ नियोगतः सम्बन्धिशब्दौ, न चेमौ नियोगतः सम्बन्धिशब्दौ। तथा हिं, विपूर्वस्तावदयं करोतिंरस्त्येवापकारे - देवदत्तोऽस्थित्यै विकरोतीति; अस्ति चेष्टानानात्वे - विकुर्वते च्छात्रा इति; अस्त्यनौचित्ये - विकृतिरेषा स्त्रीणां यत्? स्वातन्त्र्यमिति। अस्ति कार्ये - तन्तुनां पटो विकार इति। तता प्रपूर्वोऽप्ययमस्ति कारणे - तन्तवः प्रकृतिः पटस्येति; अस्त चौदासीन्ये - सत्त्वानां प्रकृतिरिति। तान्युच्यन्ते यान्यनारम्भकाणि; अस्ति दोषापगमे - प्रकृतिस्तोऽयमिति। अस्ति स्वभ्वे-प्रकृत्याऽभिरूप इति; अस्ति धर्माणामुत्पत्त्याधारे, यथा-दर्शपौर्णमासौ धर्माणां प्रकृतिस्थोऽयमिति। असति स्वभावे-प्रकृत्याऽभिरूप इति; अस्ति धर्माणामुत्पत्त्याधारे, यथा-दर्शपौर्णमासौ धर्माणां प्रकृतिरिति। तदेवमर्थबहुत्वादनयोः सर्म्बान्धत्वमनैकान्तिकमिति, अतोऽन्यतरग्रहणे न सिध्यति। न चान्यतरेण शक्यते वक्तुं विवक्षितः प्रकृतिविकारभावः। अयमुपादानकारणस्य तदुत्तरावस्थाभूतस्य च यो विकारः स इह वेदितव्यः। यदि तु विपूर्वः करोतिरनेकार्थः, तस्य विकारः (4.3.134) इत्यत्रापि सन्देहापगमाय तर्हि प्रयतितव्यम्? सत्यमेतत्; शैलीयमाचार्यस्य यस्य क्वचिदभिधानमाश्रयति, क्वचन्न्यायम्, क्वचिद्वचनमिति तत्? सर्वमुच्यते। तेन सर्वं प्रत्याय्यते॥