51011: माणवचरकाभ्यां खञ्¶
Padacheda: माणव-चरकाभ्याम् | S | 5 | 2 |
खञ् | S | 1 | 1 |
Sutrartha¶
चतुर्थीसमर्थात् ‘माणव’शब्दात् ‘चरक’शब्दात् च ‘हितम्’ अस्मिन् अर्थे खञ्-प्रत्ययः भवति ।
तस्मै हितम् (5.1.5) अनेन सूत्रेण ‘हितम्’ अस्मिन् अर्थे सर्वेभ्यः शब्देभ्यः औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण ‘माणव’ तथा ‘चरक’ शब्दात् खञ्-प्रत्ययः भवति । 1. माणवाय हितम् = माणव + ख → माणव + ईन [आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → माणव् + ईन [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः ; यस्येति च (6.4.148) इति अकारलोपः] → माणवीन 2. चरकाय हितम् = चरक + ख → चरक + ईन [आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → चारक + ईन [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः ] → चारक् + ईन [यस्येति च (6.4.148) इति अकारलोपः] → चारकीण [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्]
Vasu English Summary¶
The affix खञ् comes in the sense of ‘good for that’ after the words माणव and चरक।
Vasu English Translation¶
The affix खञ् comes in the sense of ‘good for that’ after the words माणव and चरक। This debars छ. As माणवाय हितं = माणवीनम्. So also चारकीणम् ॥
Kashika¶
माणवचरकशब्दाभ्यां खञ् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। माणवाय हितं माणवीनम्। चारकीणम्॥
Siddhanta Kaumudi¶
माणवाय हितं माणवीनम् । चारकीणम् ॥
Balamanorama¶
माणवचरकाभ्यां खञ् - माणवीनमिति । मनोः कुत्सितमपत्यं माणवः ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण्स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॑ इत्यपत्याधिकारवार्तिकात् । माणवाय हितमिति विग्रहः । चारकीणमिति चरतीति चरः । पचाद्यच् । ततः स्वार्थिकः कः । [चरकाः] । चरकाय हितमिति विग्रहः ।
Tattvabodhini¶
माणवचरकाभ्यां खञ् - माणव । खञो ञित्करणं वृद्द्यर्थं स्वरार्थं च । यद्यपि माणवे वृद्धिः स्वतः सिद्धैव, तथापिमाणविनाभार्य॑इत्यत्रवृद्धिनिमित्तस्य चे॑ति पुंवद्भावप्रतिषेधार्थमिति ज्ञेयम् । माणवायेति । मनोः कुत्सितमपत्यं माणवः ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिद्द्यति माणवः॑इत्यपत्याधिकारस्थवार्तिकाण्णत्वम्, तच्च वार्तिकमेतत्सूत्रस्थनिर्देशसिद्धार्थकथनपरमित्याहुः । चारकीणमिति । चरतीति चरः । पचाद्यच् ।चरिचलिपतिवदीना॑मिति द्विर्वचनं विकल्पितत्वादिह नभवति । ततः संज्ञायां कनि -चरकः ।
Padamanjari¶
मनोरपत्यं कुत्सितं माणवः, ठपत्ये कुत्सिते मूढःऽ इति णत्वम्, चरतीति चरः,’पचाद्यच्’ ‘चरिचलिपतिवदीनाम्’ इति द्विर्वचनं विकल्पितत्वादिह न भवति, ततः संज्ञायां कन्-चरकः। खञो ञित्करणं वृद्धयर्थं स्वरार्थं च। चरके वृद्ध्यर्थम्, माणवे’वृद्धिनिमितस्य च’ इति पुंवद्भावप्रतिषेधार्थम्-माणवीभार्यः ॥
Nyaas¶
उभयस्मिन्? ञित्करणं स्वरार्थम्। चरके वृद्ध्यर्थं च। माणवे तु वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6.3.39) इति पुंवद्भावप्रतिषेधार्थम्। माणवीना बार्यां यस्य स माणवीनाभार्य इति॥