51018: प्राग्वतेष्ठञ्¶
Padacheda: प्राक् | S | 0 | 0 |
वतेः | S | 5 | 1 |
ठञ् | S | 1 | 1 |
Sutrartha¶
प्राक्-वतीय-अर्थेषु ठञ्-प्रत्ययः औत्सर्गिकरूपेण भवति ।
तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः पञ्चम (अन्तिमः) महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इति यावत्सु सूत्रेषु आहत्य सप्तविंशतिः अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः ‘प्राक्-वतीय-अर्थाः’ नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । अस्य ठञ्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । ठञ्-प्रत्ययस्य कानिचन उदाहरणानि - अ) शूर्पेण क्रीतम् = शूर्प + ठञ् = शौर्पिक आ) योजनं शतं गच्छति = योजन + ठञ् = यौजनिक इ) मासं ब्रह्मचर्यं यस्य = मास + ठञ् = मासिक प्रक्रिया इयम् - शूर्प + ठञ् → शूर्प + इक [ठस्येकः (7.3.50) इति ठकारस्य इक-आदेशः] → शौर्प + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → शौर्प् + इक [यस्येति च (6.4.148) इति अकारलोपः] → शौर्पिक 27 प्राग्वतीयाः अर्थाः एते - 1. तेन क्रीतम् (5.1.37) 2. तस्य निमित्तं संयोगोत्पातौ (5.1.38) 3. तस्येश्वरः (5.1.42) 4. तत्र विदित इति च (5.1.43) 5. तस्य वापः (5.1.45) 6. तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते (5.1.47) 7. तद्धरति वहत्यावहति भाराद्वंशादिभ्यः (5.1.50) 8. सम्भवत्यवहरति पचति (5.1.52) 9. सोऽस्यांशवस्नभृतयः (5.1.56) 10. तदस्य परिमाणम् (5.1.57) 11. तद् अर्हति (5.1.63) 12. पारायणतुरायणचान्द्रायणं वर्तयति (5.1.72) 13. संशयमापन्नः (5.1.73) 14. योजनं गच्छति (5.1.74) 15. उत्तरपथेनाहृतं च (5.1.77) 16. तेन निर्वृत्तम् (5.1.79) 17. तमधीष्टो भृतो भूतो भावी (5.1.80) 18. षष्टिकाः षष्टिरात्रेण पच्यन्ते (5.1.90) 19. तेन परिजय्यलभ्यकार्यसुकरम् (5.1.93) 20. तदस्य ब्रह्मचर्यम् (5.1.94) 21. तस्य च दक्षिणा यज्ञाख्येभ्यः (5.1.95) 22. तत्र च दीयते कार्यं भववत् (5.1.96) 23. सम्पादिनि (5.1.99) 24. तस्मै प्रभवति (5.1.101) 25. समयस्तदस्य प्राप्तम् (5.1.104) 26. प्रकृष्टे ठञ् (5.1.108) 27. प्रयोजनम् (5.1.109)
Sutrartha (English)¶
The ठञ् प्रत्यय is used as a default for the प्राग्वतीय meanings.
Vasu English Summary¶
Up to sutra (5.1.115) (excluding that) the affix ठञ् (+/- इक or +/- क) bears rule.
Vasu English Translation¶
Up to sutra (5.1.115) (excluding that) the affix ठञ् (+/- इक or +/- क) bears rule. The affix ठञ् governs all the succeeding sutras upto तेन त्य्ल्यं क्रिय चेद्वात, and has the senses given to it in Sutras (5.1.37) &c. Strictly speaking the affix ठञ् governs only upto (5.1.110) and not upto (5.1.115). Thus in Sutra (5.1.72), the affix ठञ् must be read as पारायणिकः, तौरायणिकः, चान्द्रायणिकः ॥
Kashika¶
तेन तुल्यं क्रिया चेद् वतिः (५.१.११५) इति वक्ष्यति। प्रागेतस्माद् वतिसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, ठञ् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — पारायणतुरायणचान्द्रायणं वर्तयति (५.१.७२) — पारायणिकः। तौरायणिकः। चान्द्रायणिकः॥
Siddhanta Kaumudi¶
तेन तुल्यम् (SK1778) इति वर्तिं वक्ष्यति ततः प्राक्ठञधिक्रियते ॥
Laghu Siddhanta Kaumudi¶
तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते ॥
Balamanorama¶
प्राग्वतेष्ठञ् - अथ आर्हीयाः । प्राग्वतेः । वतिशब्दस्तद्धटितसूत्रपरः । तदाह — तेन तुल्यमिति ।तेनतुल्य॑मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु प्रत्ययाः, तत्र ठञित्युपतिष्ठत इति यावत् ।
Tattvabodhini¶
प्राग्वतेष्ठञ् - प्राग्वतेष्ठञ् ।ठ॑ञित्येव वक्तव्येप्राग्वते॑रिति वचनं मध्ये योऽगदिकारवानपवादः,सर्वभूमिपृथिवीभ्यामणञौ॒॑शीर्षच्चेदाद्यच्चे॑त्येवमादिः, तेन विच्छेदेऽपिपारायणतुरायणे॑त्यादौ ठञेव यथा स्यादित्येवमर्थम् । न चैवं पारायणादिसूत्र एव ठञ्निर्दिश्यतामिति वाच्यम्, उत्तरसूत्रे येषां पर्युदासः क्रियते गोपुच्छादीनां तेभ्याष्ठञः प्रकृतसूत्रं विनाऽलाभात् । तथा च गौपुच्छिकः साप्ततिक इत्यादौ ठञर्थमिदं सूत्रमत्र प्रदेशे आरब्धमिति बोध्यम् ।
Padamanjari¶
वक्ष्यति पारायणतुरायणेति। अत्र तु प्रदेशेऽस्य करणमुतरसूत्रे येषां पर्यु दासस्तेभ्यष्ठञ्यथा स्यादिति - गौपुच्छिकः, साम्प्रतिकः। ठञित्येवाधिकारे सिद्धे’प्राग्वतेः’ इति वचनं मध्ये योऽधिकारवानपवादः’सर्वभूमिपृथिवीभ्यामणञौ’ ,’शीर्षच्छेदाद्यच्च’ इत्येवमादिस्तेन विच्छेदेऽपि’पारायणतुरायण’ इत्येवमादौ ठञेव यथा स्यादित्येवमर्थम्। यद्यप्यत्र प्रत्ययोऽवधित्वेन गृहीतः, तथाप्यर्थेष्वेवोपतिष्ठते, न तु प्रकृतिषु; तेनापवादविषये न भवति। तता च’शूर्पादञन्यतरस्याम्’ इत्यन्यतरस्यांग्रहणमर्थवद्भवति ॥
Nyaas¶
प्राग्वचनं शीर्षच्छेदाद्यच्च (5.1.65) , दण्डादिभ्यः (5.1.66) इत्येवमादिनाधिकारवता ठञि विच्चिन्ने पारायणतुरायणचान्द्रायणं वर्तयति (5.1.72) इत्येवमादावर्थनिर्देशे ठञेव यथा स्यादित्येवमर्थम्॥
Prakriyasarvasvam¶
<karika>ये तेन क्रीतमित्याद्या अर्था वतिविधेः पुरा । ठञधिक्रियते तेषु ठगादिरहिते स्थले ॥ २९२ ॥</karika> सप्तत्या क्रीतं साप्ततिकम् । प्रास्थिकम् ॥