51013: छदिरुपधिबलेर्ढञ्¶
Padacheda: छदिर्-उपधि-बलेः | S | 5 | 1 |
ढञ् | S | 1 | 1 |
Sutrartha¶
चतुर्थीसमर्थात् विकृतिवाचकेभ्यः ‘छदिष्’, ‘उपधि’, ‘बलि’ एतेभ्यः शब्देभ्यः कारणभूतां प्रकृतिं निर्देशयितुम् ढञ्-प्रत्ययः भवति ।
तदर्थम् विकृतेः प्रकृतौ (5.1.12) इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण ‘छदिष्’ (= गृहस्य छत्रम्), ‘उपधि’ (रथस्य चक्रम्), तथा ‘बलि’ (यज्ञे यस्य आहूतिः दीयते तत्) एतेभ्यः चतुर्थीसमर्थेभ्यः शब्देभ्यः ढञ्-प्रत्ययः भवति । 1. छदिषः निर्माणम् तृणानां परिवर्तनेन भवति, द्वयोर्मध्ये ‘तादर्थ्य’सम्बन्धः अपि अस्ति - अतः ‘छदिषे एतानि तृणानि’ इत्यत्र ‘छदिः’ इति विकृतिः अस्ति, तृणम् इति प्रकृतिः अस्ति । अतः तृणानाम् निर्देशार्थम् ‘छदिष्’ शब्दात् ढञ्-प्रत्ययः भवति । छदिष् + ढञ् → छदिष् + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय्-आदेशः] → छादिष् + एय [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → छादिषेय छदिषे एतानि छादिषेयानि तृणानि । 2. ‘उपधिः’ (रथस्य चक्रम्) इत्यस्य निर्माणम् दारुणः (wood) भवति, अतः ‘उपधये इदम् दारु’ इत्यत्र दारुणः निर्देशार्थम् ‘उपधि’ शब्दात् ढञ्-प्रत्ययः भवति । उपधि + ढञ् → उपधि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय्-आदेशः] → औपधि + एय [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → औपध् + एय [यस्येति च (6.4.148) इति अकारलोपः] → औपधेय । उपधये इदम् औपधेयम् दारु । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!उपधिशब्दात्स्वार्थे इष्यते !> - इत्युक्ते, ‘उपधि’ शब्दात् स्वार्थे अपि छ-प्रत्ययः भवति । उपधिः एव औपधेयम् । 3. ‘बलिः’ (यज्ञे दीयमाना आहूतिः) तण्डुलैः निर्मीयते । अत्र ‘बलिः’ इति विकृतिः, तण्डुलाः इति प्रकृतिः । अतः ‘बलये एते तण्डुलाः’ इत्यत्र तण्डुलानाम् निर्देशार्थं बलि-शब्दात् ढञ्-प्रत्ययः भवति । बलि + ढञ् → बलि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय्-आदेशः] → बालि + एय [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → बाल् + एय [यस्येति च (6.4.148) इति अकारलोपः] → बालेय बलये एते बालेयाः तण्डुलाः । विशेषः - ‘प्रकृतिः’, ‘विकृतिः’ तथा ‘तदर्थम्’ - एतेषामर्थः तदर्थम् विकृतेः प्रकृतौ (5.1.12) इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः ।
Vasu English Summary¶
The affix ढञ् (+/- एय) comes, in the sense of a primitive serviceable for a product after the words छदिस् , उपधि and बालि, denoting the product.
Vasu English Translation¶
The affix ढञ् (+/- एय) comes, in the sense of a primitive serviceable for a product after the words छदिस् , उपधि and बालि, denoting the product. This debars छ. Thus छादिषेयाणि तृणानि, औषधेयं दारु, बालेयास्तण्डुलाः ॥
The affix comes after the word उपाधि without changing the sense. उपधीयत इत्युपधिः = रथांगम् ‘part of a wheel between the nave and the circumference or the wheel istelf’. The word औषधेय also means the same.
Bhashya¶
छदिरुपधिबलेर्ढञ्ञ् (1895) (ढञ्ञोऽधिकरणम्) (5607 आक्षेपवार्तिकम्॥ 1 ॥) - उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्य भावात् - (भाष्यम्) उपध्यर्थमिति प्रत्ययस्यानुपपत्तिः। किं कारणम्? उपध्यभावाद्। विकृतेः प्रकृतावभिधेयायां प्रत्ययेन भवितव्यम्, न चोपधिसंज्ञिकाया विकृतेः प्रकृतिरस्ति। यद्धि तद्रथाङ्गं तदौपधेयमित्युच्यते॥ (5608 एकदेशिसमाधानवार्तिकम्॥ 2 ॥) - सिद्धं तु कृदन्तस्य स्वार्थेऽञ्ञ्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? कृदन्तस्य स्वार्थे अञ्ञ्वक्तव्यः। उपधीयते - उपधेयम्, उपधेयमेवौपधेयम्। सिद्ध्यति। सूत्रं तर्हि भिद्यते॥ (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तम् - उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्यभावात् इति। नैतदस्ति। अयमुपधिशब्दोऽस्त्येव कर्मसाधनः - उपधीयते - उपधिरिति। अस्ति भावसाधनः - उपधानमुपधिरिति। तद्यो भावसाधनस्तस्येदं ग्रहणम्। एवमपि न सिध्यति। किं कारणम्? विकृतेः प्रकृताविति वर्तते। प्रकृतिविकृतिग्रहणं निवर्तिष्यते। तच्चावश्यं निर्वत्यम्, इहार्थमुत्तरार्थं च। इहार्थं तावत् - बालेयास्तण्डुलाः। उत्तरार्थम् - ऋषभोपानहोर्ञ्ञ्यः (5.1.14) आर्षभ्यो वत्स इति॥ (अनुवृत्तिनिश्चायकभाष्यम्) अथ तदर्थमित्यनुवर्तते, उताहो न। किं चार्थोऽनुवृत्त्या? बाढमर्थः - तदस्य तदस्मिन् स्यादिति (5.1.16) तदर्थे यथा स्यात्, इह मा भूत् - प्रासादो देवदत्तस्य स्यादिति, प्राकारो नगरस्य स्यादिति। यदि तदर्थमित्यनुवर्तते ऋषभोपानहोर्ञ्ञ्यः ऋषभार्थः घासः, उपानदर्थस्तिलकल्क इत्यत्रापि प्राप्नोति। एवं तर्हि - अनुवर्तते प्रकृतिविकृतिग्रहणम्। ननु चोक्तं बल्यृषभयोर्न सिध्यतीति। कं पुनर्भवान् विकारं मत्वाऽऽह - वल्यृषभयोर्न सिध्यतीति? (विकारपदार्थबोधकं भाष्यम्) यदि तावद्यः प्रकृत्युपमर्देन भवति स विकारः, वैभीतिको यूपः, खादिरं चषालमिति न सिध्यति। अथ मतमेतत्तदेव गुणान्तरयुक्तं विकार इति, बल्यृषभयोरपि सिद्धं भवति। गुणान्तरयुक्ता हि तण्डुला बालेयाः, गुणान्तरयुक्तश्च वत्स आर्षभ्यः। औपधेयं तु न सिध्यति। वचनात्स्वार्थिको भविष्यति॥
Kashika¶
छदिरादिभ्यः शब्देभ्यो ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये। छस्यापवादः। छादिषेयाणि तृणानि। औपधेयं दारु। बालेयास्तण्डुलाः। उपधिशब्दात् स्वार्थे प्रत्ययः। उपधीयत इत्युपधिः रथाङ्गम्। औपधेयमपि तदेव दारु॥
Siddhanta Kaumudi¶
छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ।<!उपधिशब्दात्स्वार्थे इष्यते !> (वार्तिकम्) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥
Balamanorama¶
छदिरुपधिबलेः ढञ् - छदिरुपधिबलेर्ढञ् । छदिष्, उपधि, बलि-एषां समाहारद्वन्द्वे सौत्रं पुस्त्वम् । एभ्यस्तादथ्र्यचतुथ्र्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः । छादिषेयाणीति । छदिस्तृणपटलः । तस्मै इमानीति विग्रहः । छदिरर्थानीत्यर्थः । ढञि एयादेशे षात्परत्वाण्णत्वम् । बालेयास्तण्डुला इति । बलये इमे इति विग्रहः । बल्यर्था इत्यर्थः ।करोपहारयोः पुंसि बलि॑रित्यमरः ।भागधेयः करो वलि॑रिति च । उपधिशब्दादिति । वार्तिकमिदम् । उपधीयते इति । अक्षदण्डाग्रे उपधीयते=प्रोतं क्रियते इत्युपधिः । ‘उपसर्गे घोः किः’ इति धाञः किप्रत्ययः ।आता लोप इटि चे॑त्याल्लोपः । उपधी रथाङ्गमिति । तथा भाष्यादिति भावः ।
Tattvabodhini¶
छदिरुपधिबलेः ढञ् - छदिरुपधि । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । छस्यापवादोऽयम् । छादिषेयाणीति । छाद्यतेऽनेनेति छदिः ।अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः॑ ।इस्मन्त्रन्क्विषु च॑इति ह्रस्वत्वम् । यदा तु चर्मविकारश्छदिस्तदा परत्वात्चर्मणोऽ॑ञित्यञ् प्राप्नोति । पूर्वविप्रतिषेधेन तु ढञेवेष्यते । छादिषेयं चर्म । आह चयञ्ञ्यावञः पूर्वविप्रतिषिद्धम्ढञ् चे॑ति । यत उदाहरणं स्त[स]नङ्गव्यं । स्त[स]नङ्गुश्चर्मविकारस्तदर्थं चर्म ।उगवादिभ्यः॑इति यत् । ञ्यस्योदाहरणमौपानह्रमिति अनुपदं वक्ष्यति । बालेया इति ।करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्तरिया॑मित्यमरः ।उपधिशब्दात्स्वार्थे इष्यते । उपधिरिति ।उपसर्गे घोः कि॑रिति धाञःकिः ।॒आतो लोप इति चे॑त्यलोपः विप्रतिषेधेनेति ।यञ्ञ्यावञ॑इत्यादिवार्तिकेनेत्यर्थः । ननु ढञ्विधौ छदिरित्यस्य, ञ्यविधौ उपानहश्च विशिष्य ग्रहणेनप्रतिपदोक्तं बलीयः॑इति सिद्धे किमनेन पूर्वविप्रतिषेधेन । अत्राहुः — ॒निरवकाशत्वे सत्येव प्रतिपदविधित्वं बलीयस्त्वे प्रयोजकं॑, न तु सावकाशत्वे॑इत्यनेन मुनिवचनेनाऽनुमीयते । तेनस्वम्पि तडाकानि॑इत्येव युक्तं, परत्वान्नुम्प्वृत्तेः । प्रतिपदोक्तत्वाद्दीर्घमाश्रित्यस्वाम्पि तडाकानी॑ति मतं दुर्बलम् ।अप्तृन् इति दीर्घस्यआपस्तिष्ठन्ती॑त्युदाहरणे सावकाशतया प्रतिपदोक्तत्वस्याऽबलीयस्त्वादिति ।
Padamanjari¶
छाद्यतेऽनेनेति च्छदिः, ठर्चिशुचिहुसृपिच्चदिभ्य इसिःऽ ठिस्मन्त्रन्क्विषु चऽ इति ह्रस्वत्वम्। छादिषेयाणि तृणानीति। यधा तु चर्मविकारश्च्छदिस्तदा परत्वात्’चर्मणो’ ञ्ऽ इत्यञप्राप्नोति, तत्र पूर्वविप्रतिषेधेन ढञेवेष्यते-छादिषेयं चर्मेति, आह च’यञ्ञ्यावञः पूर्वविप्रतिषेधेन ढञ्च’ इति। वृत्तिकारेण तु प्रतिपदविधेर्बलीयस्त्वान्नैतदुपन्यस्तमित्याहुः। नेति व्यम्; ढञोऽपि छादिषेयाणि तृणानीत्यत्र चरितार्थत्वात्। बालेयास्तण्कडुला इति। कथं पुनरत्र प्रकृतिविकृतिभावः, यदा बल्यवस्थायामपि त एव तण्कडुलाः ? नावश्यं यत्प्रकृत्युपमर्दनेनैव भवति स एव विकारः, तदेव गुणान्तरयुक्तमपि विकारः। अस्ति च बल्यवस्तायां हरिद्रायोगेन तण्डुलानां गुंणान्तरयोगः, अन्ततः प्रक्षालनेन श्वैत्यमार्द्रता मार्दवं सान्निवेशविशेषो वा भवति। उपधिशब्दात्स्वार्थे प्रत्यय इति। इष्टिरेषा। किं पुनः कारणमधिकारप्राप्तो नेष्यते ? इत्या - उपधीयत् इत्युपधिरित्यादि। यदेव हि तद्रथाङ्गमुपधीयमानत्वादुपधिशब्देन कर्मणि किप्रत्ययान्तेनोच्यते, यद्यपि तस्य प्रकृतिरस्ति, तथापि तत्र न ढञन्तं वर्तते, किं तर्हि? तत्रैव हि रथाङ्गे। स्वभावश्चात्र हेतुः, न च तदेव तस्य प्रकृतिर्भवति, अतः स्वार्थे प्रत्यय एषितव्यः। अथायमुपधानमुपधिरिति ? क्रियावचन उपधिशब्दस्तादर्थ्यमपि सम्भवति, उपधानक्रियार्थत्वाद् द्रव्यस्येत्युच्यते। एवमपि क्रियाविकारो न भवति, क्रियापि विकारो बवति; बहुविकारोऽयं मनुष्यो हसति नृत्यति गायतीति दर्शनात् ? सत्यम्;’तदर्थ विकृतेः प्रकृतौ’ इत्यत्र तु विशिष्ट एव प्रकृतिविकारभावो गृह्यते - यत्र प्रकृतेरुच्छेदः, यत्र वा रूपान्तरापतिः। अत एव तत्र विवक्षितः प्रकृतिविकारभाव इत्युक्तम् ॥ ऋषबोपानहोर्ञ्यः ॥
Nyaas¶
यदा छदिश्चर्मविकारो विवक्ष्यते तदापि ढञेवेष्यते - छादिषेयं चर्मेति। ननु च परत्वात्? चर्मणोऽञ् (5.1.15) इत्यञ्? प्राप्नोति? नैष दोषः; चर्मणोऽञ् इत्यत्र छदिषो ढञनुवर्त्तिष्यते। यथा छदिःशब्दाद्वलिशब्दाच्चतुर्थीसमर्थात्? प्रकृतिविकारभावे प्रत्यय उपजायते, तथोपधिंशब्दादपि भवतिव्यमित्याशङ्क्याह - उपधिशब्दात् इत्यादि। अत्र युक्तिमाह - उपधीयते इत्यादि। तेन कर्मण्युपसर्गे घोः किः इति दर्शयति। तेन च द्रव्यस्यानासादितोत्तरावस्थस्याभिधानम्। यद्युपधिंशब्दाद्विकृतिवाचिनः स्यात्, एवमर्थान्तरे स्यात्। न चासौ प्रकृतिविशेषे भवति। न तूपधिशब्दाद्वाच्यस्य प्रत्यान्तरस्य प्रकृतिविकारभावोऽस्ति, अबेदात्। तथा हि - यदेव रथाङ्गमुपधिशब्देनोच्यते तदेवानासादितोत्तरावस्थमौपधेयशब्देनापि। स्यादेतत् - यदा भावसाधन उपधिंशब्द उपधानमुपधिरिति तदा नास्ति भेदः, क्रियाभिधानात्; यदाप्युपधिशब्देन क्रियाद्रव्यस्य विकार उच्यते तदौपधेयशब्देन च तत्प्रकृति द्रव्यम्, अतः प्रकृतिविशेषे परप्रत्ययौ भविष्यतीति? एतच्चायुक्तम्; न हि क्रियाद्रव्यस्य विकारो युज्यते; अत्यन्तभेदात्। तस्मात्? स्थार्थं एवोपधिंशब्दात्? प्रत्ययो विज्ञायते॥
Sutra Prayogas¶
बालेयं (रघुवंशम्): छदिरुपधिबलेर्ढञ् इति ढञ्प्रत्ययः।