51019: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्¶
Padacheda: आ | S | 0 | 0 |
अर्हात् | S | 5 | 1 |
अ-गोपुच्छ-संख्या-परिमाणात् | S | 5 | 1 |
ठक् | S | 1 | 1 |
Sutrartha¶
प्राग्वतीय-अर्थेषु ‘तदर्हति’ अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये ‘गोपुच्छ’ इति शब्दम् , संख्यावाचिशब्दम् तथा परिमाणवाचिशब्दं विहाय अन्येभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।
प्राग्वतेष्ठञ् (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेषां शब्दानां विषये अनेन सूत्रेण केषुचन अर्थेषु ठक्-प्रत्ययविधानम् क्रियते । अस्मिन् विषये बिन्दुत्रयं क्रमेण पश्यामः - 1. केषु अर्थेषु ठक्-प्रत्ययविधानं कृतमस्ति? सूत्रे उच्यते - ‘आ अर्हात्’ । इत्युक्ते, तेन क्रीतम् (5.1.37) इत्यस्मात् प्रथमात् अर्थात् आरभ्य तदर्हति (5.1.63) इति एकादशमर्थं यावत् ये केऽपि अर्थाः प्राग्वतीय-अधिकारे पाठ्यन्ते, तेषाम् विषये अनेन सूत्रेण औत्सर्गिकं ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः पाठ्यते । अस्मिन् सूत्रे ‘आ’ (= ‘आङ्’) इति अव्ययम् ‘अभिविधि’ (till and including) अस्मिन् अर्थे कृतमस्ति, अतः अत्र आवल्याम् तदर्हति (5.1.63) इतस्य अपि समावेशः क्रियते इति स्मर्तव्यम् । अतः आहत्य एकादश-अर्थेषु वर्तमानसूत्रेण ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः प्रोच्यते । 2. केषाम् शब्दानाम् विषये एतत् ठक्-प्रत्ययविधानम् कृतमस्ति? ‘अ-गोपुच्छ-संख्या-परिमाणात्’ । इत्युक्ते, संख्यावाचिशब्दान्, परिमाणवाचिशब्दान् (unit of measurement) तथा ‘गोपुच्छ’ एतम् शब्दम् विहाय अन्येषां सर्वेषां शब्दानां विषये ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः विधीयते । 3. को भेदः ठञ्-ठक्-प्रत्यययोः? ठञ्-प्रत्ययः ञित्-अस्ति, अतः ठञ्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्ताः भवन्ति । परन्तु ठक्-प्रत्ययः तु कित्-अस्ति, अतः ठक्-प्रत्ययान्तशब्दाः कितः (6.1.165) इत्यनेन अन्तोदात्ताः जायन्ते । द्वयोरपि प्रयोगेण रूपम् तु समानमेव भवतीति स्मर्तव्यम् । यथा, तेन क्रीतम् (5.1.37) इति प्राग्वतीय-अधिकारस्य प्रथमः अर्थः । अस्मिन् अर्थे गोपुच्छशब्दात्, संख्याशब्दात् तथा च परिमाणवाचिशब्दात् ठञ्-प्रत्ययः भवति, अन्येभ्यः शब्देभ्यः च ठक्-प्रत्ययः भवति । उदाहरणानि - [अ] गोपुच्छेन क्रीतम् = गोपुच्छ + ठञ् → गौपुच्छिक । [आ] सप्तत्या क्रीतम् = सप्तति + ठञ् → साप्ततिक । [इ] प्रस्थेन (Kilogram) क्रीतम् = प्रस्थ + ठञ् → प्रास्थिक । विशेषः - किम् नाम परिमाणम् ? येन वस्तुनः मापनम् क्रियते, तस्य निर्देशः ‘परिमाणम्’ इत्यनेन क्रियते । अस्मिन् विषये भाष्ये एका कारिका उक्ता अस्ति - ‘ऊर्ध्वमानं किल उन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्या बाह्या तु सर्वतः ॥’ अस्यां कारिकायाम् ‘सङ्ख्या’ तथा ‘परिमाण’ एतयोर्मध्ये विद्यमानः भेदः स्पष्टीकृतः अस्ति । जडत्वस्य मापनार्थम् यत् प्रयुज्यते तत् ‘उन्मानम्’ नाम्ना ज्ञायते (उन्मान is a unit of measurement of weight. The reference here is that the weighing balance needs to be heldd vertically for assessing the correct weight. Hence the word ‘ऊर्ध्वमान’ is used in the वार्त्तिक) । सर्वप्रकारस्य मापनार्थम् यत् प्रयुज्यते तत् ‘परिमाणम्’ नाम्ना ज्ञायते । (परिमाण is a general term used for the unit of measurement) । आयामस्य (breadth / height / depth) मापनार्थम् यत् प्रयुज्यते तत् प्रमाणम् इति कथ्यते । उन्मान-प्रमाणयोः तु परिमाणेनैव ग्रहणम् भवति, अतः सूत्रे केवलम् ‘परिमाण’ इत्येव उच्यते । परन्तु एतेभ्यः सर्वेभ्यः सङ्ख्या भिन्ना अस्ति, अतः ‘परिमाण’ शब्देन सङ्ख्याशब्दानां ग्रहणं न भवति; अतः च तेषां निर्देशः अस्मिन् सूत्रे विशिष्टरूपेण कृतः अस्ति ।
Vasu English Summary¶
Up to sutra (5.1.63), inclusive, the affix ठक् (+/- इक or +/- क)
Vasu English Translation¶
Up to sutra (5.1.63), inclusive, the affix ठक् (+/- इक or +/- क) Karika
ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः ॥
Strictly speaking ठक् governs upto sutra (5.1.65). The word आर्हाद् is made up of आ + अर्हात् The force of आ here is अभिविधि or inclusive, so that in the Sutra तदर्हति (5.1.63) also, the ठक् will be employed. The affix ठक् debars ठञ् ॥ The sense will be the same as given in (5.1.37) &c. the difference between ठक् and ठञ् being in accent only. Thus निष्कया क्रीतं = नैष्किकम्, So also पाणिकम् ॥
But गोपुच्छेन क्रीतम् = गोपुच्छिकम्, the accent falling on गौ; so also with words denoting Numbers and Measures, as षाष्टिकम्, प्रास्थिकम्, कौडविकम् ॥
The word परिमाण in this sutra has its technical signification, and not its etymological sense. Technically परिमाण does not include संख्या, etymologically it does. Panini has used this word परिमाण in some sutras in its technical sense, in others in its etymological sense. Thus in sutras (4.1.22), and (5.1.19) the technical sense is taken, while in sutras (4.3.156) and (5.1.57) the etymological sense is meant. Technically परिमाण means सर्वतो मानं or a measure of capacity, and surface namely length and breadth and height or depth, such as प्रस्थः &c, i.e. a cubic measure and a square measure. In this sense it is to be distinguished from the measures of length or lineal measure, technically called प्रमाण, such as a वितस्त्य ‘a cubit’ &c, on the one side, and the measures of weight, technically called उन्माण such as पल, &c on the other side. In short उन्मान means a measure of weight or gravity, परिमाण means a measure of volume or capacity, प्रमाण means a lineal measure, and a संख्या is beyond all these.
Bhashya¶
आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (1901) (ठगधिकरणम्) (परिमाणतः संख्यायाः पृथग्ग्रहणप्रयोजनभाष्यम्) किमर्थं संख्यायाः पृथग्ग्रहणं क्रियते? न संख्याऽपि परिमाणमेव, तत्र परिमाणपर्युदासेन पर्युदासो भविष्यति। एवं तर्हि सिद्धे सति यत्संख्यायाः पृथग्ग्रहणं करोति तज्ज्ञापयत्याचार्य्यः - अन्या संख्या, अन्यत्परिमाणमिति ॥ किमेतस्य ज्ञापने प्रयोजनम्? अपरिमाणबिस्ताचितकम्बलेभ्यो न तद्धितलुकि (4.1.22) इति - द्वाभ्यां शताभ्यां क्रीता द्विशता, त्रिशता। परिमाणपर्युदासेन पर्युदासो न भवतीति ॥ (परिमाणतः संख्याभेदे दोषभाष्यम्) यद्येतज्ज्ञाप्यते, तदस्य परिमाणम् संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु (5.1.57-58) इति विशेषणं न प्रकल्पते - परिमाणं या संख्येति। इह च क्रीतवत्परिमाणात् (4.3.196) इति संख्याविहितस्य प्रत्ययस्यातिदेशो न प्रकल्पते। शतस्य विकारः - शत्यः, शतिकः, साहस्र इति ॥ (ज्ञापकासम्भवप्रदर्शनभाष्यम्) यत्तावदुच्यते - एतज्ज्ञापयत्याचार्यः - अन्या संख्या, अन्यत्परिमाणमिति। नैतज्ज्ञापकसाध्यम् - अन्या संख्या, अन्यत्परिमाणमिति। न्यायसिद्धमेवैतत्। भेदमात्रं संख्याऽऽह। यच्चेषीकान्तं यच्चापरिमाणं तस्य सर्वस्य संख्या भेदमात्रं ब्रवीति। परिमाणं तु सर्वतः। सर्वतो मानमिति चातः परिमाणमिति। प्रस्थस्य च समानाकृतेर्न कुतश्चिद्विशेषो गम्यते - न चोन्मानतः, न परिमाणतः, न प्रमाणतः ॥ (उन्मानादिलक्षणैः संख्यायाः परिमाणतो भेदबोधकं भाष्यम्) किं पुनरुन्मानम्? किं परिमाणम्? किं प्रमाणम्?ऊर्ध्वमानं किलोन्मानम्ऊर्ध्वं यन्मीयते तदुन्मानम् ॥ परिमाणं तु सर्वतः। सर्वतो मानमिति चातः परिमाणम्। कुत एतत्? परिः सर्वतोभावे वर्तते। आयामस्तु प्रमाणं स्यात् आयामविवक्षायां प्रमाणमित्येतद्भवति ॥ संख्या बाह्या तु सर्वतः ॥ आतश्च सर्वतः संख्या बाह्या - भेदमात्रं ब्रवीत्येषा नैषा मानं कुतश्च न ॥ एवं च कृत्वा संख्यायाः पृथग्ग्रहणं क्रियते ॥ (संख्याया भेदे पूर्वोक्तदोषनिरासभाष्यम्) यदप्युच्यते - तदस्य परिमाणं संख्यायाः संज्ञासङ्घसूत्राध्ययनेष्विति विशेषणं न प्रकल्पत इति आहायम् - परिमाणं या संख्येति, न चास्ति संख्या परिमाणम्, तत्र वचनादियती विवक्षा भविष्यति। यदप्युच्यते - क्रीतवत्परिमाणादिति च संख्याविहितस्य प्रत्ययस्यातिदेशो न प्रकल्पते इति संख्याया इति च तत्र वक्तव्यम् ॥ (ठगाद्यधिकारमर्यादासम्भवभाष्यम्) किं पुनरिमे ठगादयः प्रागर्हाद्भवन्ति, आहो स्वित्सहार्हेण। कश्चात्र विशेषः? (5609 प्रथममर्यादाऽऽक्षेपवार्तिकम् ॥ 1 ॥) - ठगादयः प्रागर्हाच्चेदर्हे तद्विधिः - (भाष्यम्) ठगादयः प्रागर्हाच्चेदर्हे तद्विधिः। अर्हे ठगादयो विधेयाः। शतमर्हति - शत्यः - शतिकः, साहस्र इति। वस्ने वचनात्सिद्धम्। इह यः शतमर्हति शतं तस्य वस्नो भवति। तत्र सोऽस्यांशवस्नभृतयः (5.1.56) इत्येव सिद्धम् ॥ (5610 आक्षेपवार्तिकम् ॥ 2 ॥) - वस्ने वचनात्सिद्धमिति चेन्मांसौदनिकादिष्वप्राप्तिः - (भाष्यम्) वस्ने वचनात्सिद्धमिति चेन्मांसौदनिकादिष्वप्राप्तिः। मांसौदनिकोऽतिथिः, श्वैतच्छत्रिकः, कालायसूपिकः ॥ तथा गुणानां परिप्रश्नो भवति - किमयं ब्राह्मणोऽर्हति। शतमर्हति - शत्यः, शतिकः, साहस्रः, नैष्किक इसि न सिध्यति ॥ (द्वितीयमर्यादाक्षेपवार्तिकावतरणभाष्यम्) सन्तु तर्हि सहार्हेण ॥ (5611 द्वितीयमर्यादाक्षेपवार्तिकम् ॥ 3 ॥ ) - आर्हाच्चेद्भोजनादिष्वतिप्रसङ्गः - (भाष्यम्) आर्हाच्चेद्भोजनादिष्वतिप्रसङ्गो भवति - भोजनमर्हति, पानमर्हतीति। किमुच्यते भोजनादिष्वतिप्रसङ्ग इति, यदा छेदादिभ्य इत्युच्यते। अवश्यं मांसौदनिकाद्यर्थं योगविभागः कर्तव्यः - तदर्हति, ततः - छेदादिभ्यो नित्यमिति। तस्मिन् क्रियमाणे भोजनादिष्वतिप्रसङ्गो भवति ॥ (5612 समाधानवार्तिकम् ॥ 4 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? अनभिधानादिति। अनभिधानाद्भोजनादिष्वतिप्रसङ्गो न भवति। अथ वा योगविभागो न करिष्यते। कथं मांसौदनिकोऽतिथिः, श्वैतच्छत्रिकः, कालायसूपिकः? अस्मिन् दीयते, अस्मा इति च, एवमेतत्सिद्धम्। अथ वा पुनः सन्तु प्रागर्हात्। ननु चोक्तं ठगादयः प्रागर्हाच्चेदर्हे तद्विधिरिति। परिहृतमेतद् - वस्ने वचनात्सिद्धमिति। ननु चोक्तं वस्ने वचनात्सिद्धमिति चेन्मांसोदनिकादिष्वप्राप्तिरिति, तथा गुणानां परिप्रश्नो भवति - किमयं ब्राह्मणोर्हति, शतमर्हति शत्यः, शतिकः, साहस्रः, नैष्किक इति न सिध्यतीति। अस्मिन् दीयते, अस्मा इति च - एवमेतत् सिद्धम् ॥
Kashika¶
तदर्हति (५.१.६३) इति वक्ष्यति। आ एतस्मादर्हसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, ठक् प्रत्ययस्तेष्वधिकृतो वेदितव्यो गोपुच्छादीन् वर्जयित्वा। अभिविधावयमाकारः, तेनार्हत्यर्थेऽपि ठग् भवत्येव। ठञधिकारमध्ये तदपवादः ठग् विधीयते। वक्ष्यति — तेन क्रीतम् (५.१.३७) — नैष्किकम्। पाणिकम्। अगोपुच्छसंख्यापरिमाणादिति किम्? गोपुच्छेन क्रीतं गौपुच्छिकम्। संख्या — षाष्टिकम्। परिमाण — प्रास्थिकम्। कौडविकम्। ठञ् प्रत्युदाह्रियते। संख्यापरिमाणयोः को विशेषः? भेदगणनं संख्या एकत्वादिः। गुरुत्वमानमुन्मानं पलादि। आयाममानं प्रमाणं वितस्त्यादि। आरोहपरिणाहमानं परिमाणं प्रस्थादि ।
ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः।
आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः॥
Siddhanta Kaumudi¶
तदर्हति (SK1728) इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥
Balamanorama¶
आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् - आर्हादगो । तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हेति, तच्च तद्घटितसूत्रपरम्, आङभिव्याप्तौ, व्याख्यानात् । तदाह — तदर्हतीति । इत्येतदभिव्याप्येति । इदमपि सूत्रं प्रत्ययविशेषाऽश्रवणे उपतिष्ठते । अत्र सङ्ख्यापरिमाणयो पृथग्ग्रहणात्सङ्ख्या न परिमाणम् । तथा च वार्तिकम् — ॒ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः ।॑ इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं=गुञ्जामाषनिष्कसुवर्णपलादि । येन काष्ठादिनिर्मितेन आयतविस्तृतोच्छ्रितेन पात्रविशेषेण पात्रगतायामविस्तारोच्छ्रायैः व्रीह्रादि परिच्छिद्यते तत्परिमाणं=प्रस्थादि । आयामो दैध्र्यं येन परिच्छिद्यते तत्प्रमाणम्रत्निप्रादेशादि । सङ्ख्या तु उक्तत्रितयापेक्षया बाह्रा=भिन्ना एकत्वद्वित्वादीत्यर्थः ।
Tattvabodhini¶
आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् - आर्हादगोपुच्छ । तदर्हतीति । इहतदर्ह॑मिति सूत्रान्तर्गतमच्प्रत्ययान्तं नाऽनुक्रियते किं तु तिङन्तस्यैकदेशः शबन्त एव, व्याख्यानादिति भावः । अभिव्याप्येति । तेनऔतच्छत्रिक॑इत्यत्रार्हत्यर्थे ठग्भवतीति भावः । ननु परिमाणत्पृथक्सङ्ख्याग्रहणं व्यर्थं, परिमीयते परिच्छिद्यते येन तत्परिमाणं, सङ्ख्ययापि च परिच्छिद्यत इति सापि परिमाणमेवेति चेत् । अत्र श्लोकवार्तिकम् -॒ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः॑ । अस्यार्थः — तुलादावारेप्य येन द्रव्यान्तपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादिगुरुत्वमुन्मीयते तदुन्मानम् । आरोहः=उच्छ्रायः । परिणाहो=विस्तारः । ताभ्यामारोहपरिणाहाभ्यां स्वगताभ्यां येन काष्ठादिनिर्मितेन व्रीह्रादिः परिमीयते तत्परिमाणं=प्रस्थादि, । परिः सर्वतोभावे । आयामो=दैघ्र्यं, स येन मीयते तत्प्रमाणम् । तच्च क्वचित्तिर्यगवस्थितस्य वस्तुनो भवति -यथा वस्त्रादेर्हस्तादिः । क्वचिदूध्र्याधोबागावस्थितस्य भवति — — यथा हास्तिनमुदकम् । ऊरुद्धयसमुदकमिति । सङ्ख्या तु उन्मानपरिमाणप्रमाणेभ्यः पलादिप्रस्थादिहस्त्रादिभ्यस्त्रिभ्यो बहुर्भूता एकत्वद्वित्वादिरिति । इह सङ्ख्यापरिमाणयोरेव प्रकृतत्वेऽप्युन्मानप्रमाण्योर्विवेचनं प्रसङ्गात्कृतमिति बोध्यम् ।
Padamanjari¶
तदर्हतीति वक्ष्यतीति। तदेकदेशोऽर्हशब्दो निर्दिश्यत इति भावः, तदाह - आ एतस्मादर्हसंशब्दनादिति। तदर्हमित्ययंत्ववधिर्न भवति, यदि स्यादार्हादित्यनर्थकम्; प्राग्वतेरित्येव सिद्धत्वात्। ननु च वत्यर्थेऽपि ठको विधिर्यथा स्यादित्येवमर्थमार्हादिति वचनं स्याद् ? एवमप्याङ् एव निर्देशः कर्तव्यो वतेरित्येवाभिविधावाकारः। एवमपि ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्रापि वत्यर्थे ठक्प्राप्नोति। तस्माद्व्याख्यानमेवात्र शरणम्। गोपुच्छादीन्वर्जयित्वेति। अगोपुच्छशब्दात्सङ्खयावाचिनः परिमाणशब्दाच्चेत्ययं त्वर्थो न भवति। यदि स्यान्निष्कादिष द्रोणशब्दस्य परिमाणवाचिनः षष्ठिशब्दस्य सङ्ख्यावाचिनः पाठोऽनर्थकः स्याद् ? अनेनैव सिद्धत्वान्नानर्थकः। नियमार्थ पुनर्वचनं स्यात्-असमासएव यथा स्यादिति ? नैतदस्ति; विधिनियमसम्भवे विदेरेव ज्यायस्त्वात्। अभिविधो वायमाकार इति। यदि तु मर्यादायां स्यातस्य ग्रहणमनर्थकं स्यात्, प्राग्ग्रहणानुवृत्यैव सिद्धत्वात्, तेन किं सिद्धं भवति ? तदाह - अर्हत्यर्थेऽपि ठग्भवत्येवेति। सङ्ख्यापरिमाणयोः को विशेष इति। परिमीयते परिच्छिद्यते येन तत्परिमाणम्, सङ्ख्यापि च परिचिच्छिद्यते इति प्रशनः। भेदगणनं सङ्खयेति। भिद्यत इति भेदः, मिथो भिन्नाः पदार्थाः ते गण्यन्ते येन तद् भेदगणनम्। एकत्वादिसङ्खषासामान्योपक्रमत्वाद् भेदगणनी संख्येति न भवति, भेदगणनमित्यनेन पृथक्तवनिवेशितत्वमाह। यथोक्तं पृथक्तवनिवेशितत्वात्सङ्यया कर्मभेदः स्यादिति। एकत्वसङ्खयापि बहुषु बुद्ध्या सन्निवेशितेषु भेदमेकमस्हायमाह। गुरुत्वमानमुन्मानमिति। तुलादावारोप्य येन द्रव्यान्तरपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादेर्गुरुत्वमुन्मीयते, तदुन्मानमित्यर्थः। आयामामानं प्रमाणमिति। आयामःउदैर्घ्यम्, स येन मीयते तदायाममानम्। एतच्च क्वचित्रियगभिमुखस्य वस्तुनो भवति, यथा - वस्त्रादेर्हस्तादि, क्वचिदूर्ध्वाधरदिगवस्थितस्य भवति - हास्तिनमुदकम्, ऊरुद्वयसमुदकमिति। आरोहपरिणाहमानं परिमाणमिति। आरोहःऊच्छ्रायः, परिणाहःउ विस्तारः; ताभ्यामारोहपरिणाहाभ्यां स्वगताभ्यां येन काष्ठादिनिर्मितेन व्रीह्यादि परिमीयते तत्परिमाणम्। परिः सर्वतोभावे, संख्यापरिमाणयोर्विशेषे पृष्ठे उन्मानादविशेवप्रदर्शनं प्रसङ्गेन तद्विशेषस्याप्यज्ञानस्यापनयनार्थम्। ऊर्ध्वमानमिति। ऊर्ध्वारोपणाद् गुरुत्वमानमुन्मानमिति पूर्वोक्त एवार्थः। किलशब्दः प्रसिद्धौ। परिमाणं तु सर्वत इति। ऊर्ध्वमानमित्युपसमस्तमपि मानमित्येतदत्रापेक्ष्यते। एतदर्थमे केचिद् ऊर्ध्वं मानमिति व्यस्तं पठन्ति। आयामस्तेति। मानमित्यपेक्ष्यते, कर्मणि षष्ठी। प्रसिद्धस्तु पाठः आयामस्त्विति। तत्रायामपरिच्छेद्यर्थ उपचारादायामशब्देनोक्तः। सह्ख्या बाह्य तु सर्वत इति। पूर्वोक्तादुन्मानादेः सर्वतो बाह्या, तत्रानन्तर्भावात्। तस्याश्च संख्यायतेऽनयेति निर्वचनं भेदगणनलक्षणत्वं व्याख्यातव्यमित्यनुसन्धातव्यम् ॥
Nyaas¶
तदर्हति (5.1.62) इत्येको विधिः, तदर्हम् (5.1.117) इति द्वितीयः, तत्? कस्येहावधित्वेनोपादानम्? इत्याह - तदर्हति इत्यादि। इतरस्य ग्रहणं कस्मान्न भवति? एवं मन्यते यदि तस्य ग्रहणभिप्रेतं स्यात्? प्राग्वतेः (5.1.18) इत्यनेनैव सम्बन्धं कुर्यात्, न आर्हात् इत्यनेन। ननु च वत्यर्थेऽपि नैतदस्ति; यद्यपि वत्यर्थेऽपि ठगधिक्रियते, तथापि तत्र तेन न भवितव्यम्; प्रतिपदविहितेन वतिना बाधितत्वात्, अनभिधानाद्वा। तस्मादर्हतिशब्दैकदेशस्यैवार्हशब्दस्यावधित्वं न्याय्यम्। गोपुच्छादीन्? वर्जयित्वा इति। कथं पुनरेतज्ज्ञायते - अगोपुच्छादिति प्रतिषेधोऽयमिति? अन्यस्यार्थस्येहासम्भवात्। ननु चायमर्थः स्यात् - अगोपुच्छशब्दात्? संख्यायाः परिमाणाच्चेति? अशक्योऽयमर्थं इह सम्भावयितुम्। यदि ह्रयमर्थः स्यात्, निष्कादिभ्यः परिमाणादेव सिद्धत्वात्? पुनर्वचनमनर्थकं स्यात्। ननु च नियमार्थं पुनर्वचनं स्यात् - असमास एव यथा स्यादिति? नैतदस्ति; न हि विधौ सति नियमार्थता युक्ता। नियमे हि सत्यवक्तव्यस्य त्यागाच्छब्दबाधनम्। किञ्च, सिद्धञ्च पुनर्वचनमुपादीयत इति, उक्तानुवादे दोषश्च। विधौ तु न शब्दबाधनम्, नानुवाद#ओष इतदि। विधिनियमसम्भवविचारे विधिनैव युक्तं भवितुम्। तस्मादन्यस्येहार्थस्यासम्भवात्? अगोपुच्छात् इति प्रतिषदोऽयमिति विज्ञायते। ज्ञापकात्प्रकृतरतर न विवक्ष्यते, यदयम्? लोकसर्वलोकाट्ठञ् (5.1.44) इति ठको निवृत्त्यर्थं ठञं करोति। अभिविधावयमाकारः इति। मर्यादायां हि वर्तमानस्याकारस्यात्र ग्रहणमनर्थकं स्यात्, प्राग्ग्रहणानुवृत्त्यैव सिद्धत्वात्। अभिविधिवृत्तेराकारस्य ग्रहणे सत यदिष्टं सम्पद्यते, तद्दर्शयितुमाह - अर्हत्यर्थेऽपि ठग्भवति इति। भेदगणनं संख्या ति। भिद्यन्त इति भेदाः, भिन्नाः पदार्थाः, ते गण्यन्ते संख्यायन्ते परिच्छिद्यन्ते येन तद्भेदगणनम्, एकत्वादि। संख्याभेदे हि सति पदार्थनुसङ्कल्पनमेकत्वादिभिः क्रियते। एकत्वसंख्याऽपि बहुषु सन्निवेशितेषु भेदमेकमसहायमाह। गुरुत्वमानमुन्मानम् इति। सुवर्णादेर्वस्तुनो गुरुत्वमुत्क्षिप्यते, येन तदुन्मानं तुलादि। आयाममानं प्रमाणम् इति। तिर्यगभिमुखस्य वस्तुनो येनायामपरिच्छेदः क्रियते तत्? प्रमाणम्, वितस्त्यादि। आरोहपरणाहमानं परिमाणम् इति। आरोहतः परिणाहतश्च मीयते व्रीह्राद्यर्थो येन तत्परिमाणम्। आरोहः उच्छ्रायः, परिणाहः विस्तारः। संख्यापरिमाणयोर्भेदे पृष्टे यदुन्मानादीनां विशेषप्रदर्शनं तत्प्रसङ्गेन तद्विषयस्याज्ञानस्यापनयनार्थम्। संग्रहेण किलशब्द एवमादिमतमाचार्याणामित्यर्थं सूचयति। सर्वतः इति। आरोहतः परिणाहतश्चेत्यर्थः। संख्या बाह्रा तु सर्वतः इति। उन्मानात्? परिमाणात्? प्रमाणाच्च संख्या बाह्रा; तत्रानन्तर्भावात्॥
Prakriyasarvasvam¶
<karika>तदर्हतीत्येतदन्तं ठगेवाधिकृतो भवेत् । गोपुच्छादेस्तु ठक्नेति तेषु ठञ् परिशिष्यते ॥ २९३ ॥</karika> मुद्गैः क्रीतं मौद्गीकम् । गोपुच्छादेस्तु ठञ् । गौपुच्छिकम् । साप्तातिकम् । प्रास्थिकम् । स्वर एव भेदः ॥