51008: अजाविभ्यां थ्यन्¶
Padacheda: अज-अविभ्याम् | S | 7 | 1 |
थ्यन् | S | 1 | 1 |
Sutrartha¶
‘हितम्’ अस्मिन् अर्थे चतुर्थीसमर्थात् ‘अज’शब्दात् ‘अवि’शब्दात् च थ्यन्-प्रत्ययः भवति ।
चतुर्थीसमर्थात् ‘अज’शब्दात् तथा ‘अवि’ (= सूर्यः / ईश्वरः) शब्दात् ‘हितम्’ अस्मिन् अर्थे थ्यन्-प्रत्ययः भवति । 1. अजाय हितमजथ्यम् पुष्पम् । अज + थ्यन् → अजथ्य । स्त्रीत्वे टाप् - अजथ्या यूथिः (jasmine flower). 2. अवये हितमविथ्यम् चन्दनम् । अवि + थ्यन् → अविथ्य । ज्ञातव्यम् - प्रत्यये विद्यमानः इत्संज्ञकः नकारः स्वरार्थः अस्ति । नित्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्ताः भवन्ति ।
Vasu English Summary¶
The affix थ्यन् comes in the sense of ‘good for that’ after the words अज and अवि।
Vasu English Translation¶
The affix थ्यन् comes in the sense of ‘good for that’ after the words अज and अवि। This debars ‘chha.’ Thus अजथ्या यूथिः ‘the yellow jasmine called yuthi’ अविथ्या यूथिः ॥
Kashika¶
अज अवि इत्येताभ्यां थ्यन् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। अजथ्या यूथिः। अविथ्या॥
Siddhanta Kaumudi¶
अजथ्यायूथिः । अविथ्या ॥
Balamanorama¶
अजाविभ्यां थ्यन् - अजाविभ्यां थ्यन् । अजश्च अविश्चेति द्वन्द्वः । अविशब्दस्य धित्वेऽपिअजाद्यदन्त॑मित्यजशब्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्योऽजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्यपरिभाषा अजाशब्दादपि थ्यन् ।तसिलादिष्वि॑ति पुंवत्त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्त्रीत्वं लोकात् ।
Tattvabodhini¶
अजाविभ्यां थ्यन् - अजादिभ्याम् । अजशब्द इह पुंलिङ्ग उपात्तः । अतएवद्वन्द्वे घी॑त्यविशब्दस्य पूर्वनिपातं बाधित्वाअजाद्यदन्त॑मिति अजशब्दस्य पूर्वनिपातः कृतः ।प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापी॑ति स्त्रीलिङ्गादपि थ्यन् । तसिलादिषु थ्यनः परिगणनात्पुंवद्भावे रूपं तुल्यम् । अजथ्येति । अजेभ्यो आजाङ्यो वा हितेति विग्रहः ।
Padamanjari¶
अजशब्दोऽयमिह पुंल्लिङ्ग उपातः, अत एव’द्वन्द्वे घि’ इत्यविशब्दस्य पूर्वनिपातं बाधित्वा ठजाद्यदन्तम्ऽ इत्यजशब्दस्य पूर्वनिपातः कृतः,’प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ इति स्त्रीलिङ्गादपि थ्यन्भवत्येव - अजायै हितमजथ्यम्,’तसिलादिषु थ्यन्तालौ’ इति परिगणनात्पुंवद्भावः ॥
Nyaas¶
अजशब्दोऽयमिह पुंल्लिङ्ग उपात्तः; अविशब्दस्य ध्यन्तशब्दस्यापूर्वनिपातात्। आबन्तस्य ग्रहणे हृदिशब्दस्य पूर्वनिपातः स्यात्। अदन्तस्य ग्रहणे द्वन्द्वे धि (2.2.32) इत्येतस्य बाधितत्वात्? अजाद्यदन्तम् (2.2.33) इत्यजब्दस्य पूर्वनिपातो युज्यते। तस्मात्? पुंल्लिङ्गस्य ग्रहणम्। तथा व प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति (व्या।प।29) इति स्त्रीलिङ्गादपि प्रत्ययो भवत्येव-अजाभ्यो हितमजथ्यम्। तसिलादिष्वाकृत्वसुचः (6.3.35) इति पुंवद्भावः। परिसंख्यायन्ते हि तत्र तसिलादयः, तेषाञ्च मध्ये परिसंख्यातौ
Prakriyasarvasvam¶
अजाय हितं अजथ्यम् । अविथ्यम् । थ्यनि पुंवत्वमिष्टम् । अजायै हितमप्यजथ्यम् ॥