51004: विभाषा हविरपूपादिभ्यः¶
Padacheda: विभाषा | S | 1 | 1 |
हविर्-अपूप-आदिभ्यः | S | 5 | 3 |
Sutrartha¶
हविर्विशेषवाचिभ्यः शब्देभ्यः तथा अपूपादिगणस्य शब्देभ्यः प्राक्क्रीतीय-अर्थेषु यत्-प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः छ-प्रत्ययः (उत तस्य अन्यः यथाविहितः अपवादः) विधीयते ।
‘हविस्’ इत्युक्ते यज्ञः । हविर्विशेषवाची शब्दः इत्युक्ते यज्ञक्रियाविशिष्टः शब्दः - यथा - पुरोडाशः, आमीक्षा - आदयः । एतादृशेभ्यः हविर्विशेषवाचिभ्यः शब्देभ्यः, तथा च ‘अपूपादि’गणे ये शब्दाः विद्यन्ते, तेभ्यः सर्वेषु प्राक्क्रीतीय-अर्थेषु वर्तमानसूत्रेण विकल्पेन यत्-प्रत्ययः भवति । पक्षे यथायोग्यमन्यः प्रत्ययः अपि भवति । अपूपादिगणः अयम् - अपूप, तण्डुल, अभ्यूष, अभ्योष, पृथुक, अभ्येष, अर्गल, मुसल, सूप, कटक, कर्णवेष्टक, किण्व, अन्नविकारेभ्यः (गणसूत्रम्), पूप, स्थूणा, पीप, अश्व, पत्र । उदाहरणानि - 1. आमीक्षायै हितम् = आमीक्षा + यत् → आमीक्ष्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - आमीक्षीयम् । 2. पुरोडाशाय हितम् = पुरोडाश + यत् → पुरोडाश्य । पक्षे - औत्सर्गिकः छ-प्रत्ययः - पुरोडाशीयम् । 3. अपूपाय हितम् = अपूप + यत् → अपूप्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - अपूपीयम् । 4. तण्डुलेभ्यः हितम् = तण्डुल + यत् → तण्डुल्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - तण्डुलीयम् । अपूपादिगणे ‘अन्नविकारेभ्यः’ इति गणसूत्रमपि विद्यते । अत्र ‘अन्न’ इत्युक्ते धान्यम् (grains / cereals) । अनेन गणसूत्रेण अन्नस्य विकाराणां विषये अपि प्राक्क्रीतीय-अर्थेषु विकल्पेन यत्-प्रत्ययः भवति । यथा - भक्ताय हितम् भक्त्यम् भक्तीयम् वा ओदनम् । ज्ञातव्यम् - 1. ये उवर्णान्तशब्दाः ‘अन्नविकारवाचिनः / ‘हविर्विशेषवाचिनः’ सन्ति, तेषां विषये वर्तमानसूत्रेण विहितम् पाक्षिकं यत्-विधानम् बाधित्वा उगवादिभ्यो यत् (5.1.2) इत्यनेन नित्यमेव यत्-प्रत्ययविधानम् भवति । यथा, चरु + यत् → चरव्य । सक्तु (= crushed grains) + यत् → सक्तव्य । अत्र वस्तुतः द्वावपि एतौ शब्दौ ‘अन्नविकारौ’ स्तः, अतः एतयोर्विषये केवलं विकल्पेन एव यत्-प्रत्ययस्य प्रसक्तिः अस्ति । परन्तु एतौ शब्दौ उवर्णान्तौ अपि स्तः, अतः अत्र विभाषा हविरपूपादिभ्यः (5.1.4) इति बाधित्वा उगवादिभ्यो यत् (5.1.2) इत्यनेन नित्यमेव यत्-प्रत्ययः विधीयते । 2. यद्यपि अस्मिन् सूत्रे ‘हविस्’ इति उच्यते, तथापि स्वयम् हविस्-शब्दः तु तु ‘गवादिगणे’ विद्यते, अतः उगवादिभ्यो यत् (5.1.2) अनेन सूत्रेण हविस्-शब्दात् सर्वेषु प्राक्क्रीतीय-अर्थेषु नित्यमेव यत्-प्रत्ययः भवति । अतः अस्मिन् सूत्रे विद्यमानेन ‘हविस्’ इत्यनेन स्वरूपस्य ग्रहणं न भवति अपितु यज्ञविशेषवाचिनां शब्दानां ग्रहणं भवति । अयमंशः सूत्रात् स्पष्टः न भवति परन्तु व्याख्यानेषु स्पष्टीकृतः वर्तते । 3. वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तदन्ते अपि विधीयते । यथा - अपूपेभ्यो हितमपूप्यमपूपीयम् वा ; यवापूपेभ्यो हितम् यवापूप्यम् यवापूपीयम् वा । अस्मिन् विषये असमासे निष्कादिभ्यः (5.1.20) इत्यत्र निरूपितमस्ति ।
Sutrartha (English)¶
Vasu English Summary¶
The affix यत् comes optionally after the words denoting ‘offering’ and etc., in the sense of प्रक्क्रितीय।
Vasu English Translation¶
The affix यत् comes optionally after the words denoting ‘offering’ and etc., in the sense of प्रक्क्रितीय। Thus आमिक्ष्यं दधि “fit for making आमिक्षा” i. e. curd :- or आमिक्षीयं with छ ॥ So also पुरोडाश्याः or पुरोडाशीया स्तण्डुलाः, ‘suitable for making Purodasa’ i.e. a kind of rice. The word हवि occurs in the गवादि class (5.1.2) and it necessarily takes यत्, there being no option. The हवि here, therefore, means things denoting sacrificial offerings, and not the word-form ‘havi.’
So also after अपूपादि, as, अपूप्यम् or अपूपीयं, तण्डुल्यम् or तण्डुलीयं ॥
1 अपूप, 2 तण्डुल, 3 अभ्यूष (अभ्युष), 4 अभ्योष, 5 अवोष, 6 अभ्येष, 7 पृथुक, 8 ओदन, 9 सूप, 10 पूप, 11 किण्व, 12 प्रदीप, 13 मुसल, 14 कटक, 15 कर्णवेष्टक, 16 इर्गल, 17 अर्गल, 18 अन्नविकारेभ्यश्च, 19 यूप, 20 स्थूणा, 21 दीप (पीप), 22 अश्व, 23 पत्र, 24 कट, 25 अयः स्थूण,
Vart:- The affix यत् comes optionally after words denoting modifications of food: such as सक्तु ॥ In the case of ‘saktu’ however, no of option is allowed. See (5.1.2).
Bhashya¶
विभाषा हविरपूपादिभ्यः (1886) (अप्राप्तविभाषानिश्चायकं भाष्यम्) किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते। अथं च प्राप्ते? कथं वाऽप्राप्ते?ऊर्णान्तादिति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते॥ (5595 सिद्धान्तवार्तिकम्॥ 1 ॥) - हविरपूपादिभ्योऽप्राप्ते - (भाष्यम्) हविरपूपादिभ्योऽप्राप्ते विभाषा, प्राप्ते नित्यो विधिः। चरव्यास्तण्डुलाः॥
Kashika¶
हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति। आमिक्ष्यं दधि, आमिक्षीयं दधि। पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः। हविश्शब्दात्तु गवादिपाठाद् नित्यमेव भवति। अपूपादिभ्यः — अपूप्यम्, अपूपीयम्। तण्डुल्यम्, तण्डुलीयम्॥ अपूप। तण्डुल। अभ्यूष। अभ्योष। पृथुक। अभ्येष। अर्गल। मुसल। सूप। कटक। कर्णवेष्टक। किण्व। अन्नविकारेभ्यश्च (ग०सू०१११)। पूप। स्थूणा। पीप। अश्व। पत्र। अपूपादिः॥
Siddhanta Kaumudi¶
आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्याम्तण्डुलाः । पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥
Balamanorama¶
विभाषा हविरपूपादिभ्यः - विभाषा हविः । हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः । पक्षे छः । आमिक्ष्यं दधीति । आमिक्षायै हितमित्यर्थः । तप्ते पयसि दध्नि निक्षिप्ते सति यद्ध्नीभूतं निष्पद्यते सा आमिक्षेत्युच्यते ।
Tattvabodhini¶
विभाषा हविरपूपादिभ्यः - विभाषा हविरपूपादिभ्यः । गवादिषु हविःशब्दस्य पाठादिह हविविशेषणां ग्रहणम् । न च गवादिष्वेव हविर्विशेषणां ग्रहणं किं न स्यादिति वाच्यम्, असंजातविरोधित्वेन तत्र स्वरूपग्रहणस्य न्याय्यत्वात् । अपूप्यमिति । अपूपेभ्यो हितं चूर्णमित्यर्थः । अपूप, तण्डुल, पृथक्, मुसल, कर्णवेष्टकेत्याद्यपूपादिगणे अन्नविकारेभ्येश्चेति पठते । अन्नविकाराः=अन्नप्रकारा अदनीयविशेषास्तेभ्यो यद्वा स्यादिति तदर्थः । आदन्या ओदनीयास्तण्डुलाः । एवं चानेनैव गणसूत्रेण सिद्धे अपूपादीनां केषाचिद्गणे पाठः प्रपञ्चार्थः ।
Padamanjari¶
हविर्विशेषवाचिभ्य इति। स्वरूपस्य ग्रहणं न भवति; तस्य गवादिषु पाठात्। विपरर्ययस्तु न भवति-तत्र विशेषाणं ग्रहणमिह स्वरूपस्येति; असञ्जातविरोधित्वेन तत्रैव स्वरूपग्रहणस्य न्याय्यत्वात्। अन्नविकारेभ्यश्चेति। अन्नविकाराःउअन्नप्रकाराः, अदनीयविशेषा इत्यर्थः, तेभ्यश्च विभाषा यद् भवति-ओदन्याः, ओदनीयाः। यद्येवम्, अपूपादीनां किण्वपर्यन्तानां पाठोऽनर्थकः, अन्नविकारत्वादेव सिद्धेः, सुराप्रकृतिद्रव्यं किण्वम् ? नानर्थकः, प्रापञ्चार्थत्वात्। अपर आह-यदा सादृश्यादिनापूपादिभ्योऽर्थान्तरे उपचर्यन्ते, तदर्थ एषां पाठ इति ॥
Nyaas¶
हविःशब्दो गवादिषु पठते, तेन तस्मान्नित्यं यता भवितव्यम्। अत्र हविंर्विशेषाणां ग्रहणम्, नस्वरूपस्येति; उगवादिसूत्रे स्वरूपपरिभाषाया उपस्थानात्। न हि तत्र सोपतिष्ठमाना केनचिनिंनवार्यते, तेन स्वरूपस्यैव ग्रहणम्। तत्र स्वरूपग्रहणे सतीह स्वरूपपरिभाषा नोपतिष्ठते; अन्यथा हि यद्यत्रापि स्वरूपग्रहणं स्यात्, ततः स्वतन्त्र एकस्मात्? शब्दात्? नित्यश्च यतो विधिः स्यादनित्यश्चेत्युभयमेकत्र नोपपद्यत इति न भवति विपर्ययः। अथ वा-हविःशब्दस्येहि पृथगुपादानादर्थप्रधानत्वमवसीयते, अन्यथा ह्रपूपादिष्वेव पठेदिति। अन्नविकारेभ्यश्च इति। अन्नविकारः=अन्नप्रकाराः, ते च प्रत्ययमुत्पादयन्ति विभाषा-उदन्याः, उदनीया इति। यद्येवम्, अपूपादीनां किण्वपर्यन्तानामत्र विकारत्वादेव सिद्धत्वात्? पाठोऽनर्थको जायते? यदा तर्हि केनचिदाकारसादृश्येनापूपादयोऽर्थान्तरे उपचर्यन्ते, तदर्थमेषां पाठः। किंञ्चान्नविकारग्रहणेनापूपादिषु प्रत्यमिच्छत इहापि स्यात् - यवापूपाः, व्रीहितण्डुला इति। प्रतिपदपाठे तु ग्रहणवत्त्वात्? तदन्दविधिः पर्युदस्तो भवति। ननु च असमासे निष्कादिभ्यः (5.1.20) इत्यसमासग्रहणाद्भवितव्यमेवात्र तदन्तविधिना, एतेनासमासग्रहणेन पूर्वत्र तदन्तविधिरस्तीत्येषोऽर्थः प्रतिपाद्यते? सत्यमेतत्; अपूपादिषु प्रतिपदपाठसामर्थ्यान्न भविष्यति॥
Prakriyasarvasvam¶
हविर्विशेषेभ्योऽपूपादिभ्यश्च हितादौ वा यत् । पुरोडाशार्थस्तण्डुलाः पुरोडाश्याः । पुरोडाशीयाः । अपूपयूपदीपाश्वपत्रस्थूगार्गलमुसलकटककर्णवेष्टक- सूपौदनपृथकाभ्यूषावोपतण्डुलकिण्वेभ्यः (स० ४-४-१८९) अपूप्यम् । यूप्यं दारु । दीप्यम् । अश्व्यम् । पत्र्यम् । स्थूण्यम् । अर्गल्यम् । मुसल्यम् । कटक्यम् । कर्णवेष्टक्यं च हेम । सूपादयोऽन्नभेदाः । सूप्यम् । ओदन्यम् । पृथुक्यम् । अभ्यूष्यम् । अवोष्यम् । तण्डुल्यम् । किण्व्यम् । विकल्पाच्छः । अपूपीयं यूपीयमित्यादि । तदन्तविधिना प्रदीप्यादि च । अन्नविशेषेभ्यश्च । पिष्टचः पिष्टीयो वा तण्डुलः । अन्नविशेषेणामेषां तदन्तविधिर्नास्ति । पठितानां त्वपूपादीनामस्तीति भेदः । गुलापूप्यं क्षीरौदन्यमित्यादि ॥
Sutra Prayogas¶
पुरोडाश्यं (भट्टिकाव्यम्): विभाषा हविरपूपादिभ्यः इति छयतौ।