51020: असमासे निष्कादिभ्यः

Padacheda: अ-समासे | S | 7 | 1 |

निष्क-आदिभ्यः | S | 5 | 3 |

Sutrartha

प्राग्वतीय-अर्थेषु ‘तदर्हति’ अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये निष्कादिगणस्य शब्देभ्यः समासं विहाय अन्यत्र ठक्-प्रत्ययः भवति ।

प्राग्वतेष्ठञ् (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5.1.19) इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5.1.19) इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः निष्कादिगणस्य शब्दानां विषये वर्तमानसूत्रेण बाध्यते, तथा च तस्य स्थाने ठक्-प्रत्ययविधानम् भवति । निष्कादिगणः अयम् - निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि । अस्मिन् निष्कादिगणे सर्वे शब्दाः परिमाणवाचिनः सङ्ख्यावाचिनः वा सन्ति । अतः एतेषां सर्वेषां आर्हीय-अधिकारे विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययविधानमेव जायते । परन्तु यदि निष्कादिगणस्य शब्दाः समासं विहाय अन्यत्र आर्हीय-अर्थेषु प्रयुज्यन्ते, तर्हि तेभ्यः ठक्-प्रत्ययः कर्तव्यः, न हि ठञ्-प्रत्ययः - इति वर्तमानसूत्रेण स्पष्टीभवति । यथा, ‘निष्क’ (सुवर्णमुद्रा) इति परिमाणवाची शब्दः । तेन क्रीतम् (5.1.37) इति प्रथमः आर्हीयः अर्थः । अस्मिन् अर्थे ‘निष्केन क्रीतम्’ इति स्थिते निष्क-शब्दात् ठञ्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः भवति । यथा - निष्क + ठक् → नैष्किक । निष्केन क्रीतम् नैष्किकम् रत्नम् । अन्यानि उदाहरणानि एतानि - 1. पणेन (ताम्रमुद्रया) क्रीतम् = पण + ठक् → पाणिक । 2. पादेन (मुद्रायाः 1/4-भागः पाद-नाम्ना ज्ञायते । यथा - 25 paisa) क्रीतम् = पाद + ठक् → पादिक । 3. माषेन (माष इति मापनस्य परिमाणम्) क्रीतम् = माष + ठक् → माषिक । 4. वाहः (जलस्य किञ्चन परिमाणम् - यथा liter etc) अस्य परिमाणम् = वाह + ठक् → वाहिक । अत्र तदस्य परिमाणम् (5.1.57) इति दशमः आर्हीयः अर्थः प्रयुक्तः अस्ति । 5. द्रोणः (= परिमाणवाचिशब्दः) यस्य परिमाणम् = द्रोण + ठक् → द्रौणिक । 6. षष्ट्या (= सङ्ख्यावाचिशब्दः) क्रीतम् = षष्टि + ठक् → षाष्टिक । परन्तु यदि निष्कादिगणस्य शब्दाः समासे विद्यन्ते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवतीति स्मर्तव्यम् । यथा, परमनिष्केन क्रीतम् = → परमनिष्क + ठञ् → परमनिष्क + इक [ठस्येकः (7.3.50) इति इक-आदेशः] → परमनैष्क + इक [परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इति उत्तरपदवृद्धिः] → परमनैष्क् + इक [यस्येति च (6.4.148) इति अकारलोपः] → परमनैष्किक तथैव - 1. द्विपादेन क्रीतम् = द्विपाद + ठञ् → द्विपादम्। अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन लुक् भवति । 2. द्विषष्ट्या क्रीतम् = द्विषष्टि + ठञ् → द्विषाष्टिक । अत्र संख्यायाः संवत्सरसंख्यस्य च (7.3.15) इत्यनेन उत्तरपदवृद्धिः भवति । ज्ञातव्यम् - वस्तुतः ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते अनया परिभाषया प्रत्ययविधौ तदन्तविधिः नैव इष्यते, अतः ‘निष्कादिभ्यः’ इति उच्यते चेदपि ‘परमनिष्क’ आदिभ्यः शब्देभ्यः वर्तमानसूत्रस्य प्रसक्तिः तादृशी एव न स्यात् । तर्हि अत्र पुनः ‘असमासे’ इति किमर्थमुक्तम् - इति प्रश्नः जायते । अस्य उत्तरार्थम् काशिकायाम् भाष्ये च वार्त्तिकद्वयम् दीयते । तदित्थम् - 1. <!निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य!> । इत्युक्ते, अस्मिन् सूत्रे ‘असमास’ग्रहणम् ‘पूर्वसूत्रेषु तदन्तविधिः अनुमन्यते’ इत्यस्य ज्ञापकमस्ति । पूर्वसूत्रेषु इत्युक्ते कुत्र कुत्र ? सम्पूर्णा आवली तु शास्त्रेषु न विद्यते, परन्तु कानिचन उदाहरणानि एतानि - [1] प्राक्क्रीतीय-अधिकारे उगवादिभ्यो यत् (5.1.2) इत्यनेन उगवादिगणस्य शब्दानां विषये यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि भवति । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् । [2] प्राक्क्रीतीय-अधिकारे विभाषा हविरपूपादिभ्यः (5.1.4) इत्यनेन यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि स्यात् । यथा, अपूपेभ्यो हितमपूप्यमपूपीयम् वा । यवापूपेभ्यो हितम् यवापूप्यपम् यवापूपीयम् वा । [3] प्राक्क्रीतीय-अधिकारे शरीरावयवात् यत् (5.1.6) इत्यनेन शरीरस्य अवयववाचिभ्यः शब्देभ्यः पाठितः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् । [4] प्राक्क्रीतीय-अधिकारे खलयवमाषतिलवृषब्रह्मणश्च (5.1.7) इत्यनेन उक्तः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । यथा - कृष्णतिलेभ्यो हितः कृष्णतिल्यः , राजमाषेभ्यो हितं राजमाष्यम् । 2. <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> । इत्युक्ते, प्राग्वतीय-अधिकारे अपि सङ्ख्यापूर्वपदवाचिभ्यः अलुगन्तेभ्यः प्रातिपदकेभ्यः तदन्तविधिः भवति । यथा - [अ] पारायणतुरायणचान्द्रायणं वर्तयति (5.1.72) अस्मिन् अर्थे पारायणशब्दात् तु औत्सर्गिकः ठञ्-प्रत्ययः भवत्येव, परन्तु ‘द्विपारायञण’ शब्दात् अपि तदन्तविधिना ठञ्-प्रत्ययः एव भवति । द्विपारायणं वर्तयति सः द्वैपारायणिकः । यदि अत्र तदन्तविधिः न अभविष्यत्, तर्हि’ द्विपारायणं वर्तयति’ इत्यत्र कस्यापि प्रत्ययस्य प्रसक्तिः न अजनिष्यत - यतः पारायणतुरायणचान्द्रायणं वर्तयति (5.1.72) इत्यत्र पाठितः ‘वर्तयति’ इति अर्थः पारायण-तुरायण-चान्द्रायण-एतेभ्यः त्रिभ्यः प्रातिपदिकेभ्यः एव उक्तः अस्ति । [आ] ‘अलुगन्तेभ्यः’ इति किम् तत् पश्यामः - द्वाभ्यां शूर्पाभ्यां क्रीतम् = द्वि + शूर्प + अञ् [तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इत्यनेन द्विगुः समासः, शूर्पादञन्यतस्याम् (5.1.26) इति अञ्-प्रत्ययः । अत्रापि सङ्ख्यापूर्वपदत्वात् तदन्तविधिना अञ्-प्रत्ययः भवति] → द्विशूर्प [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इति अञ्-प्रत्ययस्य लुक्] एतादृशम् निर्मितः ‘द्विशूर्प’ अयम् शब्दः ‘लुप्तप्रत्ययान्तः’ अस्ति । अग्रे ‘द्विशूर्पेण क्रीतम्’ इति स्थिते द्विशूर्प-शब्दात् अपि तदन्तविधिना शूर्पादञन्यतस्याम् (5.1.26) इत्यनेन वैकल्पिकः अञ् भवेत् वा - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - ‘लुगन्तायाः प्रकृतेः न इष्यते’ । इत्युक्ते, अत्र प्रकृतिः स्वयं लुप्तप्रत्ययान्ता अस्ति, अतः अत्र तदन्तविधिः न कर्तव्यः, इति । अतः अत्र तु औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । द्विशूर्पेण क्रीतम् द्विशौर्पिकम् ।

Vasu English Summary

The affix ठक् comes after the words निष्क etc., when they are not parts of a compound, the sense of the affix being that taught in the subsequent sutras up to (5.1.63).

Vasu English Translation

The affix ठक् comes after the words निष्क etc., when they are not parts of a compound, the sense of the affix being that taught in the subsequent sutras up to (5.1.63). The word आर्हात् is understood in this sutra also. This ठक् debars ठञ्. Thus नैष्किक꣡म्, पाणिक꣡म्, पादिक꣡म्, माषिक꣡म् ॥

Why do we say असमासे ‘when not compounds’? Observe प꣡रमनैष्किकम् उ꣡त्तमनैष्किकम् formed by ठञ् (V. I.18.) Compare (7.3.17) by which the Vriddhi of the second term takes place and not of the first.

  1. Is not the employment of the word असमासे in the Sutra redundant? For by the maxim ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति “that which cannot possibly be anything but a pratipadika, does, contrary to (1.1.72), not denote that which ends with it, but it denotes only itself;” the pratipadika निष्क being especially mentioned in the sutra, the rule will apply to the word निष्क and not to a word ending with निष्क ॥

  1. The employment of the word असमासे in this Sutra, indicates by implication jnapaka), that in spite of the above maxim, the तदन्तविधिः (1.1.72) applies in the previous sutras, while in the subsequent sutras its does not. As उगवादिभ्यो यत् (5.1.2), the यत् applies not only to गो &c but to words ending in गो &c. As गव्यम् and सुगव्यम्, अतिसुगव्यम् ॥ Not only अपूप्यम् अपूपीयम् (V. I.4.) but also यवापूप्यम्, यवापूपीयम् ॥ Not only दन्त्यम् (5.1.6) but also राजदन्त्यम् ॥

While in the sutras subsequent to this (5.1.20), the tadanta-vidhi applies only to words preceded by a Sankhya and that also in Sutras upto (5.1.115) and not there after as, द्वैपारायणिकः and त्रैपारायणिक (5.1.72). Even in this latter case, when an affix is elided by लुक् the tadanta vidhi does not apply. Thus द्वाभ्यां शूर्पाभ्यां क्रीतं = द्वि शूर्प + ठञ् (V. I 18) = द्विशूर्पम्, the affix being elided by (5.1.28). Now in forming a tertiary derivative from this word द्विशूर्पम्, the tadanta vidhi will not apply. Thus द्विशूर्पेण क्रीतं, here what affix are we to subjoin? If tadanta vidhi applied, we get the affix अञ् (5.1.26) in the alternative. But tadanta vidhi not applying, we get the general affix ठञ् (5.1.8) and have द्विशौर्पिकम् ॥ Here the affix ठञ् is not elided by (5.1.28), as there is no Dvigu compounding. The above rule is summarised in the following ishti प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि ॥

The words 1. निष्क, 2. पण, 3. माष, 4. वाहद्रोण and 5. षष्टि belong to निष्कादि class.

Bhashya

असमासे निष्कादिभ्यः (1902) (पदकृत्यभाष्यम्) असमास इति किमर्थम्? परमनिष्केण क्रीतम्-परमनैष्किकम्। नैतदस्ति। निष्कशब्दात्प्रत्ययो विधीयते, तत्र कः प्रसङ्गो यत्परमनिष्कशब्दात्स्यात्। नैव प्राप्नोति, नार्थः प्रतिषेधेन। तदन्तविधिना प्राप्नोति। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते॥ अत उत्तरं पठति - (5613 असमासपदप्रयोजनवार्तिकम्॥ 1 ॥) - निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य - (भाष्यम्) निष्कादिष्वसमासग्रहणं क्रियते ज्ञापकार्थम्। किं ज्ञाप्यम्? एतज्ज्ञापयत्याचार्य्यः - पूर्वत्र तदन्तविधेः प्रतिषेधो न भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? प्राग्वतेष्ठञ्ञ् (5.1.18) इत्यत्र तदन्तविधिः सिद्धो भवति॥ नैतदस्ति प्रयोजनम्। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न च ठञ्ञ्विधौ काचित्प्रकृतिर्गृह्यते। इदं तर्हि प्रयोजनम् - आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5.1.19) - परमगोपुच्छेन क्रीतं पारमगोपुच्छिकम्। अत्र तदन्तविधिः सिद्धो भवति॥ एतदपि नास्ति प्रयोजनम्। विधौ प्रतिषेधः, प्रतिषेधश्चायम्। एवं तर्हि ज्ञापयत्याचार्यः - ःइत उत्तरं तदन्तविधेः प्रतिषेधो न भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? पारायणतुरायणचान्द्रायणं वर्तयति (5.1.72) द्वैपारायणिकः, त्रैपारायणिकः। अत्र तदन्तविधिः सिद्धो भवति॥ एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् - प्राग्वतेः संख्यापूर्वंपदानां तदन्तग्रहणमलुकीति। पूर्वत्रैव तर्हि प्रयोजनम्। खलयवमाषतिलवृषब्रह्मणश्च (5.1.7) इति। कृष्णतिलेभ्यो हितः- कृष्णतिल्यः, राजमाषेभ्यो हितं - राजमाष्यम्॥ (5614 उपसङ्ख्यानवार्तिकम्॥ 2 ॥) - प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि - (भाष्यम्) प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्। पारायणतुरायणचान्द्रायणं वर्तयति। द्वैपारायणिकः। त्रैपारायणिकः। अलुकीति किमर्थम्? द्वाभ्यां शूर्पाभ्यां क्रीतम् - द्विशूर्पम्, त्रिशूर्पम्। द्विशूर्पेण क्रीतम् - द्विशौर्पिकम्, त्रिशौर्पिकम्॥

Kashika

आर्हादित्येव। निष्कादिभ्यः शब्देभ्योऽसमासे ठक् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। असमास इति किम्? द्विनैष्किकम्। त्रिनैष्किकम्। ठञेव भवति,**परिमाणान्तस्या०**(७.३.१७)इत्युत्तरपदवृद्धिः। अथ किमर्थमसमास इत्युच्यते, यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते? निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य। उगवादिभ्यो यत् (५.१.२) — गव्यम्। सुगव्यम्। अतिसुगव्यम्। विभाषा हविरपूपादिभ्यः (५.१.४) — अपूप्यम्, अपूपीयम्। यवापूप्यम्, यवापूपीयम्। शरीरावयवाद् यत् (५.१.६) — दन्त्यम्, राजदन्त्यमित्येवमादि सिद्धं भवति। इत उत्तरं च संख्यापूर्वपदानां तदन्तविधिरिष्यते। पारायणतुरायणचान्द्रायणं वर्तयति (५.१.७२) — द्वैपारायणिकः। त्रैपारायणिकः। लुगन्तायास्तु प्रकृतेर्नेष्यते। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्। त्रिशूर्पम्। द्विशूर्पेण क्रीतमिति तदन्तविधिप्रतिषेधात् शूर्पादञन्यतरस्याम् (५.१.२६) इत्यञ् न भवति। सामान्यविहितष्ठञेव भवति। द्विशौर्पिकम्। ठञो द्विगुं प्रत्यनिमित्तत्वाद् लुगभावः। तथा चोक्तम् — प्राग् वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि (महाभाष्य — वा० ५.१.२०) इति॥ निष्क। पण। पाद। माष। वाह। द्रोण। षष्टि। निष्कादिः ॥

Siddhanta Kaumudi

आर्हादित्येतत् तेन क्रीतम् (SK1702) इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥

Balamanorama

असमासे निष्कादिभ्यः - असमासे । इति यावदिति ।तेनक्रिती॑मित्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । आर्हीयेष्विति ।तदर्हती॑त्येतत्पर्यन्तमनुक्रान्तेषुतेन क्रीत॑मित्याद्यर्थेष्वित्यर्थः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः । समासे तु ठञ्ेव]इति । परमनिष्कादिशब्दादित्यर्थः ।

Tattvabodhini

असमासे निष्कादिभ्यः - असमासे निष्कादिभ्यः । निष्क, पण, पाद, माष,वाह,द्रोण, षष्टि — इति सप्त निष्कादयः । तत्र द्रोणशब्दः परिमाणवाची, षष्टिशब्दः सङ्ख्यावाची, ताभ्यां ठञि प्राप्ते वचनम् । इतरेषां तु पञ्तानामुन्मानवाचित्वेन पूर्वसूत्रेणैव ठकि सिद्धे समासप्रतिषेधार्थं वचनमित्येके । अन्ये त्वाहुः — — पूर्वसूत्रे परिच्छेदकमात्रं सङ्ख्याभिन्नं परिमाणशब्देन गृह्रते । तेन सर्वेभ्यष्ठञि प्राप्ते ठग्विधानार्थं वचनम् । न चैवंपरिमाणं तु सर्वतः॑इति भेदेन व्युत्पादनं व्यर्थमिति वाच्यं,प्रमाणपरिमाणाभ्या सङ्ख्यायाश्चापि संशये॑इत्यादावस्योपयोगादिति पक्ष द्वयमप्येतत्पदमञ्जार्यां स्पष्टम् ।

Padamanjari

ठञोऽपवाद इति। येन नाप्राप्तिन्यायेन निष्कादिभ्यो हि द्रोणपर्यन्तेभ्यः परिमाणशब्दात्षष्ठिशब्दाट्ठकः पर्युदासे ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। तदन्ताप्रतिषेधस्येति। तदन्तविधावप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्प्रत्ययो विज्ञायते, एवं तर्हि’व्यपदेशिवद्भावो’ प्रातिपदिकेनऽ इति केवलेभ्यो नोपपद्यते ? नैष दोषः; अस्मासग्रहणेन हि ग्रहणवत्परिभाषाया निवृत्तिराख्याता, तन्निवृतौ’येन विधिस्तदन्तस्य’ इति तदन्तता, अत्र स्वस्य च रूपस्य प्रकृतत्वात्केवलादपि भवति। यस्तु मन्यते - पूर्वत्रोपादानसामर्थ्यात्केवलादपि स्यादिति, तस्य हि लाघवार्थं केवलानां पाठः स्यादिति यत् किञ्चिदेतत्। इत उतरं चेति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता’ग्रहणत्रता प्रातिपदिकेन तदन्तविधिर्न भवति’ इति प्रतिष्ध्यते ? अस्याः परिभाषाया अनित्यत्वं च तस्या गर्गादिषु’वाजासे’ इति समासप्रतिषेधाद् गम्यते। नित्यत्वे हि सति वाजशब्दादुत्प्द्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति समासे प्रतिषेधं न कुर्यात्। द्विशूर्पमिति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा न तावगदेषा लुगन्ता प्रकृतिरिति’संख्यापूर्वपदादपि’शूर्पादञ्न्यतरस्याम्’ इत्यञेव क्रियते, तस्य ठध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्’ इति लुक्। द्विशोर्पिकमिति।’परिमाणान्तस्यासंज्ञाशाणयोः’ इत्युतरपदवृद्धिः। यदुक्तम् - ठित उतरं संख्यापूर्वपदानं तदन्तविधिरिष्यतेऽ इति, यच्चोक्तम् -‘लुगन्तायास्तु प्रकृतेर्नेष्यते’ इति, तदुभयमाप्तागमेन स्थिरीकर्तुमाह - तथा चोक्तमित्यादिना ॥

Nyaas

ठञोऽपवादः इति। येन नाप्राप्तित्यायेन (व्या।प।49)। निष्कादिभ्यो द्रोणपर्यन्तेभ्यः परिमाणशब्दत्वात्? षष्ठिशब्दस्य संख्याशब्दत्वाट्ठकि पर्युदस्ते ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। तेदन्ताप्रतिषेधस्य इति तदन्तविधेरप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्? प्रत्ययो विज्ञायते, एवं तर्हि व्यपदेशिवद्भावोऽप्रातिपदिकेन (शा।प।65) इति केवलेभ्य- प्रत्ययो नोपपद्यते? नैष दोषः; असमासगरहणेन हि ग्रहणवत्परिभाषाया (व्या।प।89) निवृत्तिराख्याता, निवृत्तायाञ्च येन विधिस्तदन्तस्य (1.1.72) इति तदन्ताद्भवति। तत्र च स्वस्य च रूपस्य (काशिका।1.1.73) इति प्रकृतत्वात्? केवलादपि भवति। यत्तु मन्यते-अपूर्वोपादानसामर्थ्यात्? केवलादिति लाघवार्थं केवलानां पाठः स्यात् इति, यत्किञ्चदेतत्। इत उत्तरञ्च इत्यादि। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न (व्या।प।89) इति प्रतिषिध्यते? अस्याः परिभाषाया अनित्यत्वात्। अनित्यत्वं तु तस्या गर्गादिषु वाजासे इति समासे प्रत्ययप्रतिषेधाद्गम्यते। नित्यत्वे हि वाजशब्दादुत्पद्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति प्रतिषेधं कुर्यात्। द्विशूर्पम् इति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा। न तावदेषा लुगन्ता प्रकृतिरिति संख्यापूर्वपदादपि शूर्पादञन्यतरस्याम् (5.1.26) इत्यञेव क्रियते, तस्य अव्यद्र्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इति लुक्। द्विशौर्पिकम् इति। परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इत्युत्तरपदवृद्धिः। यदुक्तम् - संख्यापूर्वपदानां तदन्तविधिरितीष्यते इति, यच्चोक्तम् - लुगन्तायास्तु प्रकृतेर्नेष्यते इति, तदुभयमाप्तागमेन स्थिरीकर्त्तुमाह - तथा चोक्तम् इत्यादि॥कनोऽपवादः इति। उत्तरसूत्रेण प्राप्तस्य। शतिकम् इति। तदस्य परिमाणम् (5.1.57) इति वर्तमाने संख्यायाः संज्ञासंघसूत्राध्ययनेषु (5.1.58) इति सङ्घे प्रत्ययार्थे विविक्षित उत्तरसूत्रेण कन्नेव भवति। प्रत्ययार्थोऽत्र सङ्घः इति। शतमध्यायानां परिमाणं यस्य निदानख्यग्रन्थस्य, स चेह प्रत्ययार्थः। स च शतसंख्याव्यवच्छिन्नाव्यायसमुदायात्मक इति सङ्घ एव परत्ययार्तो भवति। शतमेव वस्तुतः इति। अव्यायशतस्यानन्यार्थत्वात् ततस्च प्रकृत्यर्थात्? न भिद्यते। तदेव ह्रध्यायानां शतं प्रकृत्याभिधीयते, प्रत्ययान्तेनापि तदेवेति नेह प्रकृत्यर्थात्? प्रत्ययार्थभेदः। तदेतेन यत्र चाव्यतिरिक्तः प्रकृत्यार्थात्? प्रत्ययार्थस्तत्र प्रतिषेधो भविष्यति। न च व्यतिरिक्त इत्येतदाख्यातम्। ननु च सङ्घे चानौत्तराधर्ये (3.3.42) , संख्यायाः संज्ञासंघसूत्राध्ययनेषु (5.1.58) इत्यत्र च प्राणिसमूहे सङ्घशब्दो गृह्रते, ततर कथं ग्रन्थविषयो गृह्रते/ उपचारेणेत्यदोषः। यदि वा संख्यासूत्रे संज्ञाशब्दसाहचर्याद्विशिष्टः सङ्घो गृह्रते। सङ्घे चानौत्तराधर्ये इत्यत्रापि छन्दोनाम्नि च (8.3.94) इत्यतो नामग्रहणानुवृत्तेः प्राणिसङ्घो गृह्रते। इह तु यत्वाभावाद्? गन्थस्यापि ग्रहणमित्यविशेषः। इह तु इत्यादि। ननु च शतेऽभिधेये प्रतिषेधेन भवितव्यम्, इह च शतद्यं शाटकशतम्, शतिकं शाटकशतमित्युक्ते शतं प्रतीयत एव, तत्किमिति प्रतिषेधो न भवति? इत्याह - वाक्येन इत्यादि। शत्यशतिकशब्दौ हि सायान्यशब्दौ, सामान्यशब्दाश्च न प्रकरणादिकमन्तरेण विशेषे वर्तन्ते। तेन यावच्छाटकशतिमित्येतत्पदान्तरं न प्रयुज्यते, तावत्? प्रत्ययार्थस्य शतत्वं नावसीयते। तस्मात्? पदान्तरसन्निधौ गम्यमानत्वात्? पदान्तरार्थो भवति, न प्रत्यायार्थः। न श्रुत्या इति। गम्यत इति सम्बन्धः। यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रत्ययार्थस्य शतताऽऽख्यायते, तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते, यथा - प्रत्युदाहरणे शतं परिमाणमस्य शतकमित्युक्ते गम्यत एवैतत् - प्रत्ययार्थोऽपि शतमेवेति। इह तु वाक्याच्छतत्वं प्रतीयते। न च पदसंस्कारकाले वाक्यार्थस्तयाङ्गभावोऽस्ति। तदा तस्योपसर्जनत्वात्? प्रकृत्यर्थादतिरिक्ते प्रत्ययार्थे प्रतिषेधो भवति, न तु व्यतिरिक्तवाक्यगम्य इति। तदाप्तवचनेन द्रढयितुमाह - तथा चोक्तम् इत्यादि। शतप्रतिषेधे कर्तव्ये प्रकृत्यर्थादन्यस्य प्रत्ययार्थस्य शतत्वेऽप्रतिषेध इत्येतदुक्तं भवति। तत्रान्यत्? प्रकृत्यर्थः शतम्, अन्यत्? प्रत्ययार्थः शतम्। तत्र विधिरेव भवति; न प्रतिषेध इति। केन पनः समासे प्राप्नोति, यतस्तत्प्रतिषेदार्थोऽसमासानुकर्षणार्थश्चकारः क्रियते? इत्याह - प्राग्वतेः इत्यादि॥

Prakriyasarvasvam

एभ्यो समास एव ठक् । निष्कपणपादमाषवाहद्रोणषष्टिभ्यः (स० ५-१-४) । निष्कादयः परिमाणभेदा वक्ष्यन्ते । नैष्किकं, पाणिकमित्यादि । समासे तु ठञ् ॥

Vartika

इत ऊर्ध्वं तु संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि ।