51007: खलयवमाषतिलवृषब्रह्मणश्च¶
Padacheda: खल-यव-माष-तिल-वृष-ब्रह्मणः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘हितम्’ अस्मिन् अर्थे चतुर्थीसमर्थात् खल,यव,माष, तिल, वृष, ब्रह्मन् - एतेभ्यः शब्देभ्यः यत् प्रत्ययः भवति ।
‘हितम्’ इत्युक्ते ‘योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ‘ । ‘हितम्’ अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् प्राक्क्रीतात् छः (5.1.1) इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते; ‘खल’, ‘यव’, ‘माष’, ‘तिल’, वृष’ ( वृषभः), ‘ब्रह्मन् ‘ - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः भवति । 1. खलाय हितम् खल्यम् । 2. यवाय हितम् यव्यम् । 3. माषाय हितम् माष्यम् । 4. तिलाय हितम् तिल्यम् । 5. वृषाय हितम् वृष्यम् । 6. ब्रह्मणे हितम् ब्रह्मण्यम् । अत्र नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते ये चाभावकर्मणोः (6.4.168) इत्यनेन सः निषिध्यते । अत्र अल्लोपोऽनः (6.4.135) इत्यस्य तु प्रसक्तिरेव नास्ति - न संयोगाद्वमन्तात् (6.4.137) इति निषेधात् ।] ज्ञातव्यम् - 1.अस्मिन् सूत्रे ‘वृष’ शब्दः स्वीक्रियते, न हि ‘वृषन्’ इति नकारान्तशब्दः । तथा च, ‘ब्रह्मन्’ इति नकारान्तशब्दः एव स्वीक्रियते, न हि ‘ब्राह्मण’ इति अकारान्तशब्दः । 2. अस्मिन् सूत्रे ‘च’ इति उक्तमस्ति । अयम् चकारः ‘अनुक्तसमुच्चयार्थः’ अस्तीति काशिकाकारः वदति । इत्युक्ते, केचन अन्ये शब्दाः अपि शिष्टप्रयोगमनुसृत्य तस्मै हितम् (5.1.4) इत्यस्मिन् अर्थे ‘यत्’ प्रत्ययं स्वीकुर्वन्ति । यथा - रथाय हितम् रथ्यम् । 3. अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्तस्य विषये अपि भवति । यथा, कृष्णतिलेभ्यो हितः कृष्णतिल्यः , राजमाषेभ्यो हितं राजमाष्यम् । अस्मिन् विषये असमासे निष्कादिभ्यः (5.1.20) इत्यत्र विस्तारेण निरूपितमस्ति ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘good for that’ after the word खल, यव, माष, तिल, वृष and ब्रह्मण।
Vasu English Translation¶
The affix यत् comes in the sense of ‘good for that’ after the word खल, यव, माष, तिल, वृष and ब्रह्मण। This debars छ. Thus ख꣡ल्यम् ‘suitable for threshing floor.’ So also य꣡व्यम्, मा꣡ष्यम्, ति꣡ल्यम्, वृ꣡ष्यम् and ब्रह्मण्य॑म् ॥
No secondary derivatives can, however, be formed of the following वृष्णे हितम्, ब्राह्मणेभ्यो हितम्; the full phrases must be used in these cases, for these words take neither छ nor यत् though वृष is वृषन् and ब्रह्मन् is = ब्राह्मण ॥
The word च in the sutra indicates that the rule applies to words other than those enumerated. Thus रथाय हिता = रथ्या ॥
Bhashya¶
खलयवमाषतिलवृषब्रह्मणश्च (1889) (अनिष्टरूपनिवारकं भाष्यम्) वृषशब्दोऽयमकारान्तो गृह्यते। वृषन्शब्दोऽपि नकारान्तोऽस्ति तस्योपसंख्यानं कर्तव्यम्, वृषशब्दश्चादेशो वक्तव्यः। वृष्णे हितमिति विगृह्य - वृष्यमित्येव यथा स्यात्। तथा ब्रह्मन्शब्दो नकारान्तो गृह्यते। ब्राह्मणशब्दश्चाकारान्तोऽप्यस्ति तस्योपसंख्यानं कर्तव्यम्, ब्रह्मन्शब्दश्चादेशो वक्तव्यः। ब्राह्मणेभ्यो हितमिति विगृह्य - ब्रह्मण्यमित्येव यथा स्यात्। तत्तर्हि वक्तव्यम्। न वक्तव्यम्। समानार्थावेतौ - वृषशब्दो वृषन्शब्दश्च, ब्रह्मन्शब्दो ब्राह्मणशब्दश्च। आतश्च समानार्थौ, एवं ह्याह - कुतो नु चरसि ब्रह्मन् कुतो नुचरसिब्राह्मण - इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यति - अविरविकन्यायेन। तद्यथा - अवेर्मांसमिति विगृह्य अविकशब्दादुत्पत्तिर्भवति - आविकमिति। एवमिहापि वृषाय हितमिति विगृह्य - वृष्यमिति भविष्यति। वृष्णे हितमिति विगृह्य वाक्यमेव। तथा ब्रह्मणे हितमिति विगृह्य ब्रह्मण्यमिति भविष्यति, ब्राह्मणेभ्यो हितमिति - विगृह्य वाक्यमेव भविष्यति। त्रैशब्द्यं चेह साध्यम्, तच्चैवं सति सिद्धं भवति॥ 5-1-1- आ. 7 (833 विधिसूत्रम्)
Kashika¶
खलादिभ्यो यत् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। खलाय हितं खल्यम्। यव्यम्। माष्यम्। तिल्यम्। वृष्यम्। ब्रह्मण्यम्। वृष्णे हितम्, ब्राह्मणेभ्यो हितमिति वाक्यमेव भवति। छप्रत्ययोऽपि न भवति, अनभिधानात्। चकारोऽनुक्तसमुच्चयार्थः। रथाय हिता रथ्या॥
Siddhanta Kaumudi¶
खलाय हितं खल्यम् । यव्यम् । माप्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥
Balamanorama¶
खलयवमाषतिलवृषब्रह्मणश्च - खलयव । खलादिभ्यश्चतुथ्र्यन्तेभ्यो हितमित्यर्थे यत्स्यादित्यर्थः । वृषशब्दोऽत्र अकारान्त एव गृह्रते, नतु नकारान्तः । तेनवृष्णे हित॑मिति वाक्यमेव । ब्राहृन्शब्दो ब्राआहृणवाच्येव गृह्रते, नतु वेदादिवाची । तेनब्राहृणे वेदाय हित॑मिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्राहृण्यमित्यत्रये चाभावकर्मणो॑रिति प्रकृतिभावान्न टिलोपः । चाद्रथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः ।
Tattvabodhini¶
खलयवमाषतिलवृषब्रह्मणश्च - खलयव । अत्र वृषशब्दोऽकारान्तो गृह्रते न तु नकारान्तः । अन्यथा ह्रसदेहार्थं नलोपमकृत्वै निर्दिशेत्,आत्मन्विआजने॑ति वत् । वृषाय हितं वृष्यम् । नान्ताद्यति तु — — वृषण्यमिति स्यात् । ब्राहृण्यमिति । ब्राहृन्शब्दो ब्राआहृणपर्यायः । प्रकृतिभावस्तुये चे॑त्यनेन पूर्ववत् । इह वृषन्शब्दाद्द्ब्राहृणशब्दाच्च यतः प्राप्तिरेव नास्ति । छेऽप्यनभिधानान्नेत्याकरः । तेन -वृष्णे हितं , ब्राआहृणेभ्यो हितमिति वाक्यमेव । चाद्रथ्येत । गवादिषुरथशब्दो न पठितः । हितार्थ एव रथ्येति स्यात्, अर्थान्तरे मा भूदिति ।
Padamanjari¶
पूववट्टिलोपाभावः। वृषशब्दोऽयमकारान्तो गृह्यते, न तु नकारान्तः; अन्यथाऽसन्देहार्थं नकारलोपमकृत्वैव निर्दिशेत, यथा-आत्मन्विश्वजनेति। अस्ति च नकारान्तस्तत्र वक्तव्यम्, ततोऽपि यद्भवतीति, अन्यथा तत्र छे टिलोपे च वलृषीयमिति प्राप्नोति, तस्य च वृषशब्दे आदेशो वक्तव्यः, अन्यथा वृषण्य इति स्यात्; ब्रह्मशब्दो नकारान्तो गृहीतः, ब्राह्मणशब्दश्चाकारान्तोऽस्ति, तत्र वक्तव्यम्-ब्राह्मणशब्दादपि यद्धवतीति, अन्यथा ततश्च्छः स्यात्, तस्य च ब्रह्मन्-शब्द आदेशो वक्तव्यः; अन्यथा ब्राह्मयण्यमिति प्राप्नोति ? इत्यस्मिन्पूर्वपक्षे इदमाह - वृष्णो हितमित्यादि। च्छप्रत्ययोऽपि न भवतीति। यत्प्रत्ययस्तु तावत्सूत्रेऽनुपादानादेव न भवति, न केवलं स एव, अपि तु च्छप्रत्ययोऽपीत्यपिशब्दस्यार्थः। कुत इत्याह - अनभिधानादिति। तदनेनाप्यव्यविकन्यायो दर्शितः। त्रैशब्द्यं हि नः साध्यम् - वृषाय हितम्, वृष्णे हितम्; तथा व्रह्मणे हितम्, व्रह्मण्यम्, ब्राह्मणाय हितमिति; तत्र द्वयोः शब्दयोः समानार्थयोरेकत्र विग्रह एव, अपरत्र विग्रहश्च वृत्तिश्च भविष्यति, तद्यथा - अविकस्य मांसम्, आविकम्, अवेर्मांसमिति। रथाय हितारथ्येति। हितार्थ एव यथा स्यादर्थान्तरे मा भूदित्येवमर्थं गवादिषु पाठो नाङ्गीकृतः। केचितदन्तविधिमिच्छन्ति - रथसीताहलेभ्यो यद्विधाविति। अपरे तुहलसीताभ्यां साहचर्याच्चातुरर्थिक एव तदन्तविधिर्भवति, न त्वस्मिन्निति ॥
Nyaas¶
खलादीनां वृषपर्यन्तानां यस्येति (6.4.148) लोपः। ब्राहृण्यम् इति। न संयोगाद्वमन्तात् (6.4.137) इति प्रतिषेधात्? अल्लोपोऽनः (6.4.134) इत्यकारलोपो न भवति। नस्तद्धिते (6.4.144) इति टिलोपोऽपि न भवित; ये चाभावकर्मणोः (6.4.168) इति प्रकृतिभावात्। वृषशब्दोऽयमत्राकारान्तो गृह्रते, न तु ब्राआहृणशब्दोऽकारान्त इति। ननु चाशङ्का वृषशब्दे युक्ता-नलोपे सति किमयमकारान्तः? आहोस्विन्नकारान्तः? इति, ब्राहृन्शब्दाच्च यतो निवृत्तिप्रसङ्गाद्? ब्राहृञ्शब्दादपि यचच प्रत्ययो निवर्तत इति भावः। अत एवाह - छप्रत्ययोऽपि इत्यादि। यत्प्रत्ययापेक्षयापिरयम् - न केवलं यत्प्रत्ययो न भवति, अपि तु च्छप्रत्ययोऽपीति। ब्राआहृणशब्दाच्छप्रत्ययाभावो योज्यः। ननु चाभ्यामिहानुपादनाद्? यत्प्रत्ययो न भवति, तस्मै हितम् (5.1.5) इति च्छप्रत्ययस्तु कस्मान्न भवति? इत्याह-अनभिधानात् इति। न हीह वृषीयम्, ब्राआहृणीयमित्युक्ते विवक्षितोऽर्थः प्रतीयते; यतोऽर्थप्रतिपादनं प्रति नियता एव शब्दशक्तयो भवन्तीति क्वचित्? प्रत्ययान्तेनार्थस्याभिधानम्ष क्वचिद्वाक्येनेति। अतो वाक्यमेवावतिष्ठते-वृष्णे हितम्, ब्राआहृणेभ्यो हितम् इति। वाक्यसमधिगम्यस्यार्थस्य तद्धितेनानभिधानादितदि यावत्॥
Prakriyasarvasvam¶
खलाय हितं खल्यम् । यव्यम् । माष्यम् । तिल्यम् । वृषाय हितं वृष्यम् । ब्रह्मण्यम् । चकाराद् रथाय हिता रथ्या विस्तीर्णपद्धतिः । प्राक्क्रीतीयेषु तदन्तविधेरिष्टत्वात् कृष्णतिल्यमित्यादि ॥