51006: शरीरावयवाद्यत्

Padacheda: शरीर-अवयवात् | S | 5 | 1 |

यत् | S | 1 | 1 |

Sutrartha

‘हितम्’ अस्मिन् अर्थे चतुर्थीसमर्थात् शरीरस्य अवयववाचि-प्रातिपदिकात् यत्-प्रत्ययः भवति ।

‘हितम्’ इत्युक्ते ‘योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ‘ । ‘हितम्’ अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् प्राग्क्रीतात् छः (5.1.1) इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते; शरीरस्य अवयवस्य विषये तस्य अपवादरूपेण यत्-प्रत्ययः भवति । 1. दन्ताय हितम् दन्त्यम् मञ्जनम् । 2. कण्ठाय हितम् कण्ठ्या ओषधिः । 3. ओष्टाभ्यां हितम् ओष्ठ्यम् घृतम् । अत्र वार्त्तिकद्वयं ज्ञातव्यम् - 1. <!नस् नासिकायाः!> । इत्युक्ते, नासिकाशब्दस्य यत्-प्रत्यये परे नस्-आदेशः भवति । यथा - नासिकायै हितम् = नासिका + यत् → नस् + य [<!नस् नासिकायाः!> इति नासिका-इत्यस्य नस्-आदेशः] → नस्य । 2. <!यत्प्रकरणे रथाच्चोपसंख्यानं कर्तव्यम्!> । इत्युक्ते, ‘रथ’शब्दात् अपि ‘हितम्’ अस्मिन् अर्थे यत्-प्रत्ययः भवति । रथाय हितम् रथ्यम् चक्रम् । ज्ञातव्यम् - 1. शरीरावयवाच्च (4.3.55) इति किञ्चन सूत्रम् तत्र भवः (4.3.53) अस्मिन् अर्थे पाठितमस्ति । अनेन सूत्रेण अपि शरीरस्य अवयववाचिशब्दात् यत्-प्रत्ययः एव भवति, परन्तु सः ‘भवः’ अस्मिन् अर्थे जायते । यथा - दन्ते भवः दन्त्यः । वर्तमानसूत्रेण तु ‘हितम्’ अस्मिन् अर्थे प्रत्ययः विधीयते । 2. अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्तस्य विषये अपि भवति । यथा, दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् । अस्मिन् विषये असमासे निष्कादिभ्यः (5.1.20) इत्यत्र विस्तारेण निरूपितमस्ति ।

Vasu English Summary

The affix यत् comes in the sense of ‘good for that’ after a word denoting a part of the body.

Vasu English Translation

The affix यत् comes in the sense of ‘good for that’ after a word denoting a part of the body. The word शरीर means animal organism. This debars छ, thus, द꣡न्त्यम् ‘good for the teeth.’ क꣡ण्ठ्यम्, ओ꣡ष्ठ्यम्, ना꣡भ्यम्, न꣡स्यम् such as dentrifice, snuff, oil &c. See (6.1.213).

Bhashya

शरीरावयवाद्यत् (1888) (5596 संग्राहकवार्तिकम्॥ 1 ॥) - यत्प्रकरणे रथाच्च - (भाष्यम्) यत्प्रकरणे रथाच्चोपसंख्यानं कर्तव्यम्। रथाय हिता-रथ्या॥

Kashika

शरीरं प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकाद् यत् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। दन्त्यम्। कण्ठ्यम्। ओष्ठ्यम्। नाभ्यम्। नस्यम्॥

Siddhanta Kaumudi

दन्त्यम् । कण्ठ्यम् ।<!नस् नासिकायाः !> (वार्तिकम्) ॥ नस्यम् । नाभ्यम् ॥

Laghu Siddhanta Kaumudi

दन्त्यम्। कण्ठ्यम्। नस्यम्॥

Balamanorama

शरीरावयवाद्यत् - शरीरावयवाद्यत् । शरीरावयवविशेषवाचकाच्चतुथ्र्यन्ताद्धितमित्यर्थे यत्स्यादित्यर्थः । छस्यापवादः । नस्यमिति । नासिकायै हितमित्यर्थः । ‘पद्दन्’ इति नस्, प्रभृतिग्रहणमस्य प्रकारार्थत्वात् । भाष्ये तुनासिकाया यत्-तस्-क्षुद्रेषु नस् इति पठितम् । नाभ्यमिति । नाभये हितमित्यर्थः । नाभिरत्र शरीरावयवः । रथावयवत्वे तु नभादेश उक्तः ।

Tattvabodhini

शरीरावयवाद्यत् - नस्यमिति । नासिकायै हितम् ।नासिकायां भव॑मिति विग्रहे तुशरीरैवयवाच्चे॑ति यत् । नस्यम् । तस्युदाहरणं -नस्तः ।अपादाने चाहीयरुहो॑रिति तसिः । क्षुद्रे तु — नासिकायाः क्षुद्रो नःक्षुद्रः ।सुप्सुपे॑ति समासः । नाभ्यमिति ।नाभि नभं चे॑ति नभादेशो रथनाभावेव प्रवर्तते, तस्य गवादियता संनियोगशिष्टत्वादिति भावः ।

Padamanjari

शरीरं प्राणिकाय इति। एतेनैतद्दर्शयति-शीर्यत इति शरीरमिति शृणातेरीरन्प्रत्ययमुत्पाद्य यद्यपि शरीरशब्दो व्युत्पाद्यते, तथापि योगरूढत्वात्प्राणिकाय एव वर्तते, न घटादाविति ॥ खलयवमाषतिलवृषब्रह्मणश्च ॥

Nyaas

शीर्यत इति शरीरम्, तेन घटादेरपि ग्रहणं भविष्यतीत्यत आह - शरीरं प्राणिकायः इति। एतेन रूढिरियमिति दर्शयति। गवादावेति शरीरावयववाचिनः। तत्र तु याः प्रकृतयस्ताभ्योऽनेनापि पूर्वेणापि वा यति विशे षो नास्त्येव। यत्र विशेषः - नाभि नभञ्च (ग।सू।106) इति, स विशेषस्तत्रैव वेदितव्य एव॥

Prakriyasarvasvam

चक्षुष्यमञ्जनम् ॥

Vartika

यत्प्रकरणे रथाच्च ।

Sutra Prayogas

  • स्तन्यम् (शिशुपालवधम्): शरीरावयवाद्यत् इति यत्प्रत्ययः।

  • शिरस्य (भट्टिकाव्यम्): शरीरावयवाद्यत् इति यत्।