51003: कम्बलाच्च संज्ञायाम्

Padacheda: कम्बलात् | S | 5 | 1 |

च | S | 0 | 0 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha

प्राक्-क्रीतीय-अर्थेषु ‘कम्बल’शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति ।

‘कम्बल’ शब्दात् प्राक्-क्रीतीय-अर्थेषु संज्ञायाः विषये औत्सर्गिकं छ-प्रत्ययं बाधित्वा यत्-प्रत्ययः भवति । यथा - कम्बलाय हितम् कम्बल्यम् ऊर्णापलशतम् । शतम् पलम् यस्याः परिमाणम्, तादृशी ऊर्णा कम्बलस्य निर्माणार्थं प्रयुज्यते चेत् तस्याः नाम ‘कम्बल्य’ इत्यपि दीयते । A woolen thread of 100 पल length that is used to weave a कम्बल gets the term कम्बल्य । अस्मिन् सूत्रे ‘संज्ञायाम्’ इति उक्तमस्ति, अतः केवलम् ‘ऊर्णा’ इति उच्यते चेत् न भवति (ऊर्णापलशतम् इत्यस्यैव विषये भवति - इत्याशयः) । कम्बलाय हितम् कम्बलीया ऊर्णा । अत्र औत्सर्गिकः छ-प्रत्ययः एव विधीयते ।

Vasu English Summary

The affix यत् comes in the प्रक्क्रितीय senses after the word कम्बल, when a Name is meant.

Vasu English Translation

The affix यत् comes in the प्रक्क्रितीय senses after the word कम्बल, when a Name is meant. This debars ‘chha’. Thus कम्बल + यत् = कम्बल्यं ‘A kambalya-measure of wool’ = 100 Palas of wool. This is the name of a measure, such as कम्बल्यमूर्णा पलशतम् ॥

Why do we say संज्ञायां? Observe कम्बलीया ऊर्णा “wool” lit. ‘fit for making blanket’, which is formed by छ ॥

Bhashya

कम्बलाच्च संज्ञायाम् (1885) (सूत्रप्रत्याख्यानपरं भाष्यम्) अयं योगः शक्योऽवक्तुम्। कथमशीतिशतं कम्बल्यमिति? निपातनादेतत्सिद्धम्। किं निपातनम्? अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22) इति। इदं तर्हि प्रयोजनम् - संज्ञायामिति वक्ष्यामीति। इह मा भूत् - कम्बलीयाऊर्णाः। एतदपि नास्ति प्रयोजनम्। परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बल्यग्रहणं क्रियते - परिमाणार्थम्, परिमाणं च संज्ञैव॥

Kashika

कम्बलात् प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति संज्ञायां विषये। छस्यापवादः। कम्बल्यमूर्णापलशतम्। संज्ञायामिति किम् ? कम्बलीया ऊर्णा॥

Siddhanta Kaumudi

यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥

Balamanorama

कम्बलाच्च संज्ञायाम् - कम्बलाच्च । कम्बलशब्दाद्यत्स्यात्प्राक्कीतीयेष्वर्थेषु संज्ञायामित्यर्थः । कम्बल्यमूर्णापलशमिति । कम्बलाय हितमित्यर्थः ।

Tattvabodhini

कम्बलाच्च संज्ञायाम् - कम्बलाच्च संज्ञायाम् । प्राक्क्रीतीयेष्वर्थेषु यत्स्यात् । छस्यापवादः ।

Padamanjari

अयं योगः शक्योऽवक्तुम्। कथं कम्बल्य इति ? निपातनादेवैतत्सिद्धम् ठपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकिऽ इति। इदं तर्हिप्रयोजनम् - संज्ञायामिति वक्ष्यामिति ? एतदपि नास्ति प्रयोजनम्; परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बल्यग्रहणम् - परिमाणस्य च संज्ञा कम्बल्यशब्दः। एवं तर्हि स्वरार्थं वचनम्, निपातनेन हि परिमाणे कम्बल्यशब्दः साधुरित्येतावदवगम्यते, न तु यदन्तोऽयमिति, ततश्चान्तस्वरितत्वं न स्यात्। अथ निपातन एवान्तस्वरितत्वं पठ।लेत ? तत्र व्याख्यानं शरणम्, व्याख्यानाच्च लघु सूत्रम् ॥

Nyaas

ननु अपरिमाणविस्ताचितकम्बल्येभ्यः (4.1.22) इति निपातनादेव कम्बल्य इति सिध्यति कम्बल्यं हि परिंमाणविशेषः, इतरथा हि कम्बल्यशब्दस्य तत्र ग्रहणमनर्थकं स्यात्, परिमाणविशेषस्य कम्बल्यशब्दो नामदेयम्; अयमपि प्रत्ययः संज्ञायां विधीयमानस्तत्रैव भवति, नान्यत्र; नह्यत्र कम्बल्यशब्दः संज्ञा, तस्मान्नार्थोऽनेन? नैतदस्ति; निपातनेन हि कम्बल्यशब्दः परिमाणे साधुरित्येतावत्? प्रतीयते, न तु यदन्तोऽयमिति। ततश्चान्तस्वरितत्वं न स्यात्। तस्मात्? स्वरितत्वपरिज्ञानार्थमिदं कर्तव्यम्। अनन्तरश्रुतस्य यतोऽनुकर्षणार्थश्चकारः। ननु स्वरितत्वादेव यद्भविष्यति? छोऽपि तर्हि स्यात्। ननु च च्छस्य सन्निधाने प्रकृतिमात्राच्छ उक्त इति नियमार्थमिदं स्यात्, तच्चानिष्टम्, यत्? पुनर्नियतविषय इति तत्सम्बन्धे विध्यर्थता, विधिनियमयोश्च विधेरेव ज्यायान्? नैतदस्ति; छस्यापि सम्बन्धे विध्यर्थता सम्भवति। कथं संज्ञायामित्युच्यते, संज्ञा चानुपात्तावयवार्थापि भति, तत्रानवयवार्थानामप्राक्क्रीतीयत्वाद्धिताद्यर्थाभावे छप्रत्ययार्थमेतत्? स्यात्, तस्माच्चकरो यत्प्रत्ययानुकर्षणार्थः कर्तव्यः? न कर्तव्यः; इष्टतोऽप्यधिकाराणां प्रवृत्तिनिवृत्ती भवत इति यत एवानुवृत्तिर्भविष्यति, न तु च्छस्य। एवं तर्हि चकार उगवादिभ्य इत्यनुकर्षणार्थः। किमर्थमिदम्? सनङ्ग्वादिभ्यः परत्वादञादयः प्राप्नुवन्ति तद्बाधनार्थमिति। अथ गवादिष्वेव कम्बलाच्च संज्ञायाम् इति कस्मान्न पठति? तत्र पाठे न कश्चिद्गुरुलाघवकृतो विशेष इति यत्किञ्चिदेतदिति॥

Prakriyasarvasvam

कम्बलार्थत्वात् कम्बल्यमित्यूर्णाशितस्याख्या ॥