51002: उगवादिभ्यो यत्¶
Padacheda: उ-गो-आदिभ्यः | S | 5 | 3 |
यत् | S | 1 | 1 |
Sutrartha¶
प्राक्-क्रीतीय-अर्थेषु उवर्णान्त-प्रातिपदिकेभ्यः तथा गवादिगणस्य शब्देभ्यः यत्-प्रत्ययः भवति ।
तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः चतुर्थः महोत्सर्गः ‘प्राक्-क्रीतीय-अधिकारः’ प्राक्क्रीतात् छः (5.1.1) इत्यस्मात् परिखाया ढञ् (5.1.17) इति यावत् प्रचलति । अस्मिन् अधिकारे आहत्य त्रयः अर्थाः पाठ्यन्ते, येषु औत्सर्गिकरूपेण छ-प्रत्ययविधानं भवति । परन्तु उवर्णान्त-प्रातिपदिकेभ्यः तथा च गवादिगणस्य प्रातिपदिकेभ्यः प्राक्क्रीतीय-अधिकारस्य त्रिषु अपि अर्थेषु औत्सर्गिकं छ-प्रत्ययं बाधित्वा वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते । गवादिगणः अयम् - गो, हविस्, वर्हिष्, खट, अष्टका, युग, मेधा, स्रक्, नाभि नभं च (गणसूत्रम्), शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम् (गणसूत्रम्), ऊधसोऽनङ् च (गणसूत्रम्), खर, स्खद, अक्षर, विष । कानिचन उदाहरणानि एतानि - 1. ‘शङ्कु’ इति उकारान्तशब्दः । ‘शङ्कु’शब्दात् तस्मै हितम् (5.1.5) अस्मिन् अर्थे दारुणः (= काष्ठस्य) निर्देशं कर्तुम् यत्-प्रत्ययः भवति । शङ्कवे हितम् = शङ्कु + यत् → शङ्को + य [ओर्गुणः (6.4.146) इति गुणः] → शङ्कव् + य [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] → शङ्कव्य शङ्कवे हितम् शङ्कव्यम् दारु । (‘दारु’ इति उकारान्त-नपुंसकलिङ्गवाचीशब्दः, ‘काष्ठम्’ इत्यर्थः ।) 2. ‘पिचु’ (= वस्त्रम्) इति उकारान्तशब्दः । अस्मात् शब्दात् तदर्थं विकृते प्रकृतौ (5.1.12) अस्मिन् अर्थे कर्पासस्य निर्देशं कर्तुम् यत्-प्रत्ययः भवति । पिचुभ्यः अयम् = पिचु + यत् → पिचो + य [ओर्गुणः (6.4.146) इति गुणः] → पिचव् + य [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] → पिचव्य पिचुभ्यः अयम् पिचव्यः कार्पासः । 3. ‘गो’ इति गवादिगणे विद्यमानः शब्दः । अस्मात् शब्दात् तस्मै हितम् (5.1.5) अस्मिन् अर्थे यत्-प्रत्ययः भवति । गवे हितम् = गो + यत् → गव् + य [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] → गव्य गवे हितः गव्यः घासः । 4. ‘विष’ इति गवादिगणे विद्यमानः शब्दाः । अस्मात् शब्दात् तद् अस्य तदस्मिन् स्यात् (5.1.16) अस्मिन् अर्थे सर्पस्य निर्देशं कर्तुम् यत्-प्रत्ययः भवति - विषं यस्मिन् सर्पे स्यात् सः सर्पः = विष + यत् → विष् + य [यस्येति च (6.4.148) इति अकारलोपः] → विष्य
विषं यस्मिन् सर्पे स्यात् सः विष्यः सर्पः ।
एतादृशमुकारान्तशब्देभ्यः तथा गवादिगणे विद्यमानेभ्यः शब्देभ्यः त्रिषु अपि प्राक्क्रीतीय-अर्थेषु यत्-प्रत्ययः भवति । गवादिगणे कानिचन गणसूत्राणि उक्तानि सन्ति । तानि एतादृशानि - 1. ‘नाभि नभं च’ - नाभिशब्दात् यत्-प्रत्ययः भवति तत्सन्नियोगेन च नाभिशब्दस्य ‘नभ’ इति आदेशः भवति । नाभि + यत् → नभ + यत् → नभ्य । अस्मिन् गणसूत्रे ‘नाभि’ अयम् शब्दः ‘चक्रस्य मध्यभागः’ (central part of a wheel) अस्मिन् अर्थे प्रयुज्यते । यथा - नाभये हितम् नभ्यः अक्षः (A spoke that is useful for the central part of a wheel) । अन्येषु अर्थेषु नाभि-शब्दः अस्मिन् गणे न विद्यते । यथा, शरीरस्य अवयवः नाभिः (navel) इत्यस्मिन् अर्थे नाभि-शब्दः अस्मिन् गणे न विद्यते, अतः तस्य ‘नभ’ आदेशः अपि न भवति । यथा, नाभये हितम् तैलम् = नाभि + यत् [शरीरावयवाद्यत् (5.1.6) इति यत्] → नाभ्य । नाभये हितम् नाभ्यम् तैलम् । 2. ‘शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम्’ - ‘श्वन्’शब्दः अस्मिन् गणे समाविश्यते, अतः तस्मात् यत्-प्रत्ययः भवति । यत्-प्रत्यये परे ‘श्वन्’ इत्यस्य अङ्गस्य सम्प्रसारणम् क्रियते । (वस्तुतः भसंज्ञकस्य श्वन्-शब्दस्य श्वयुवमघोनामतद्धिते (6.4.133) इत्यनेन सम्प्रसारणम् भवितुमर्हति, परन्तु अस्य सूत्रस्य प्रसक्तिः तद्धितभिन्ने प्रत्यये परे एव वर्तते, अतः अत्र गणसूत्रे सम्प्रसारणस्य निर्देशः आवश्यकः अस्ति) । सम्प्रसारणे कृते अग्रे विकल्पेन दीर्घादेशः अपि भवति, तथा च दीर्घादेशे कृते तद्धितान्तशब्दस्य अन्तोदात्तत्वमपि विधीयते । प्रक्रिया इयम् - श्वन् + यत् → शुअन् + य [इग्यणः सम्प्रसारणम्**(1.1.45) इत्यनेन वकारस्य सम्प्रसारणमुकारः] → शुन् + य [**सम्प्रसारणाच्च (6.1.108) इति पूर्वपरयोः एकः पूर्वरूपः आदेशः] → शुन् / शून् + य [विकल्पेन दीर्घादेशः] → शुन्य, शून्य । अत्र स्वरविधानम् एतादृशम् भवति - दीर्घादेशस्य अभावात् ‘शुन्य’ शब्दस्य यतोऽनावः (6.1.213) इत्यनेन आद्युदात्तत्वम् विधीयते, तथा च दीर्घादेशे कृते ‘शून्य’शब्दस्य वर्तमान-गणसूत्रेण अन्तोदात्तत्वं जायते । अत्र एकः विशेषः स्मर्तव्यः । प्रक्रियायाम् नस्तद्धिते (6.4.144) इत्यनेन टिलोपस्य प्रसक्तिः विद्यते, परन्तु सः अत्र न इष्यते । अस्मिन् विषये काशिकाकारः वदति - ‘चकारस्य अनुक्तसमुच्चयार्थत्वात् नस्तद्धिते इति लोपो न स्यात्’ । अस्य अर्थः अयम् - अस्मिन् गणसूत्रे ‘च’ इति द्विवारम् प्रयुज्यते - ‘च दीर्घत्वम्’ तथा ‘चान्तोदात्तत्वम्’ । वस्तुतस्तु एकवारं चकारः प्रयुज्यते चेदपि स एव अर्थः स्यात् - ‘शुनः सम्प्रसारणम्, वा दीर्घर्त्वम् तत्सन्नियोगेन च अन्तोदात्तत्वम्’ । अत्र एकवारम् चकारग्रहणम् तु आवश्यकमेव - यतः चकारस्य अनुपस्थितौ ‘अन्तोदात्तत्वमपि वैकल्पिकं भवति वा’ इति प्रश्नः भवितुमर्हति । परन्तु द्विवारम् चकारनिर्देशः वस्तुतः न आवश्यकः । अतः अत्र चकारस्य द्वितीयम् ग्रहणम् ‘नस्तद्धिते इति लोपो न’ इति अध्याहरति - इति काशिकाकारः मन्यते । इत्युक्ते, अत्र सम्पूर्णम् गणसूत्रम् एतादृशमस्ति - ‘शुनः सम्प्रसारण्, (नस्तद्धिते इति लोपो न) च, वा दीर्घत्वम्, तत्सन्नियोगेन चान्तोदात्तत्वम्’ । अनेन प्रकारेण अत्र टिलोपः निषिध्यते । अस्मिन् विषये केचन पण्डिताः वदन्ति - अत्र नस्तद्धिते (6.4.144) इत्यस्य अध्याहारः नैव आवश्यकः । केवलं ‘दीर्घविधानसामर्थ्यात्’ एव अत्र नस्तद्धिते (6.4.144) इत्यस्य प्रसक्तिः न वर्तते । इत्युक्ते, यदि नस्तद्धिते (6.4.144) इत्यस्य प्रयोगेण टिलोपः स्यात्, तर्हि ‘श्’ इत्येव अवशिष्येत, ततश्च दीर्घः कथम् विधीयेत - इति अत्र चिन्तनम् । परन्तु एतत् चिन्तनम् न वरम् । अस्मिन् विषये न्यासकारः वदति - ‘एवमपि पक्षे स्यात्’ । इत्युक्ते, यद्यपि अनेन चिन्तनेन दीर्घादेशस्य विषये टिलोपः निषिध्यते, तथापि दीर्घादेशाभापक्षे तु टिलोपः स्यात् एव । तस्य निवारणार्थम् नस्तद्धिते (6.4.144) इत्यस्य अध्याहारः आवश्यकः एव - इति आशयः । 3. ‘ऊधसः अनङ् च’ - ‘ऊधस्’ इति शब्दः अस्मिन् गणे समाविश्यते, तथा प्रत्ययसन्नियोगेन अस्य शब्दस्य ‘अनङ्’आदेशः भवति । ङिच्च (1.1.53) इति अयमन्त्यादेशः । ऊधस् + यत् → ऊध + अनङ् + य → ऊध + अन् + य [‘अनङ्’ इत्यत्र ङकारस्य इत्संज्ञा, नकारोत्तरः अकारः उच्चारणार्थः । द्वयोः लोपः भवति ।] → ऊधन् + य [अतो गुणे (6.1.97) इति पूर्वपरयोः एकादेशः अकारः] → ऊधन्य [नस्तद्धिते (6.4.144) इति टिलोपे प्राप्ते ये चाभावकर्मणोः (6.4.168) इति प्रकृतिभावः] उधसे हितः ऊधन्यः । विशेषः - गवादिगणस्य शब्देभ्यः अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्ते अपि विधीयते । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् । अस्मिन् विषये असमासे निष्कादिभ्यः (5.1.20) इत्यत्र निरूपितमस्ति । ज्ञातव्यम् - वर्तमानसूत्रम् प्राक्क्रीतात् छः (5.1.1) अस्मिन् अधिकारे विद्यमानान् अन्यान् सर्वान् अपि अपवादसूत्रान् बाधते । अतः अस्मिन् अधिकारे निर्दिष्टानाम् त्रिषु अपि अर्थेषु उवर्णान्तशब्दानां विषये यत्-प्रत्ययः एव भवति । यथा - [अ] सनङ्गु (a leather object) इति चर्मणः विकारः । अतः तदर्थं विकृते प्रकृतौ (5.1.12) अस्मिन् अर्थे विद्यमानेन चर्मणोऽञ् (5.1.15) इत्यनेन अपवादसूत्रेण ‘सनङ्गु’शब्दात् ‘चर्मणः विकारः’ अस्मिन् अर्थे वस्तुतः अञ्-प्रत्ययस्य प्रसक्तिः अस्ति । परन्तु ‘सनङ्गु’ अयं शब्दः उकारान्तः अस्ति, अतः अञ्-प्रत्ययं बाधित्वा अस्य विषये वर्तमानसूत्रेण यत्-प्रत्ययः एव भवति - सनङ्गवे इदम् चर्म = सनङ्गु + य → सनङगो + य [ओर्गुणः (6.4.146) इति गुणः] → सनङ्गव् + य [वान्तो यि प्रत्यये (6.1.79) इति अव्-आदेशः] → सनङ्गव्य सनङ्गवे इदम् सनङ्गव्यं चर्म । [आ] विभाषा हविरपूपादिभ्यः (5.1.4) इत्यस्मिन् सूत्रे विद्यमानेन ‘अन्नविकारेभ्यश्च’ अनेन गणसूत्रेण वस्तुतः ‘चरु’, ‘सक्तु’ एताभ्यां विषये केवलं पक्षे यत्-प्रत्ययः विधीयते । परन्तु एतौ शब्दौ उवर्णान्तौ स्तः, अतः एतयोः विषये विभाषा हविरपूपादिभ्यः (5.1.4) इति बाधित्वा उगवादिभ्यो यत् (5.1.2) इत्यनेन नित्यमेव यत्-प्रत्ययः विधीयते । चरु + यत् → चरव्य । सक्तु + यत् → सक्तव्य ।
Vasu English Summary¶
The affix यत् comes after a प्रातिपदिक ending with उ (long or short), and after the words गो and the rest, the senses of the affix being those taught up to sutra (5.1.37)
Vasu English Translation¶
The affix यत् comes after a प्रातिपदिक ending with उ (long or short), and after the words गो and the rest, the senses of the affix being those taught up to sutra (5.1.37) The senses of Prak-kritiya affixes are three viz, those taught in sutras (5.1.5), (5.1.12), and (5.1.16). This यत् debars छ ॥ Thus शङ्कवे हितं = शङ्क + यत् = शङ्कव्य (6.4.146), (6.1.79). As शङ्कव्यं दारु, ‘wood’, ‘fit for a stake’ पिचव्यः कार्पासः ॥ So also कमण्डलव्या मृत्तिका ‘earth’ lit. ‘fit for a water-pot’.
So also after गवादि words, e.g. गव्यम् ‘suitable for cows’, हविष्यम् ‘suitable for offering’.
The words सनङ्गुः meaning ‘a kind of leather’, and चरुः ‘a kind of हविः ‘offering’, and सक्तुः ‘a kind of food’, all end in उ and are governed by this sutra, in spite of (5.1.15) which applies especially to leathers, and (5.1.4) and its vartika which applies especially to ‘offerings’ and ‘food modifications’. This is an example where a subsequent sutra does not debar a prior sutra (1.4.2). Thus सनङ्गु + यत् = सनङ्गव्यं चर्म, ‘leather fit for making Sanangu’, चरु + यत् = चरव्या स्तण्डुलाः ‘rice fit for making charu’, सक्तु + यत् = सक्तव्या धानाः ‘barley’ fit for making Saktu’.
In the list of गवादि given hereunder, occurs नाभि नभं च, which means that नाभि is replaced by नभ when the affix यत् is added. Thus नाभये हितः = नभ्यः meaning अक्षः ‘axis, axle’ lit. ‘fitted for the nave of the wheel’; or a wood fit to be made the nave of a wheel or अञ्जनम् the grease. When the word नाभि means ‘navel’ of a living being, then it will not take this यत्, but it will take the यत् of (5.1.6). In that case, नभ will not replace नाभि; e.g. नाभि + यत् = नाभ्यम् ‘suitable for navel’ i. e. oil.
The word श्वन् occurs in गवादि class. It takes samprasarana, व being changed to उ, and optionally this उ is lengthened; and the udatta accent falls on the final. As श्वन् + यत् = शुन् + यत् = शुन्य꣡म् or शुन् + यत् = शून्य꣡म् ‘fit for a dog’. Contrary to (5.4.144), the न् of श्वन् is not elided before the taddhita affix वत् ॥
The word ऊधस् occurs in the गवादि class. Its final is replaced by अनङ्; e.g. ऊधस् + यत् = ऊध् + अन + य = ऊधन्यः कूपः गवादि ‘a well’.
1 गो, 2 हविस्, 3 अक्षर, 4 विष, 5 बर्हिस्, 6 अष्टका, 7 स्खदा (स्खद), 8 युग, 9 मेधा, 10 स्रुच् (स्रक्), 11 नाभि नभं च, 12 शुनः संप्रसारणं वा च दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम्, 13 ऊधसोऽनङ् च, 14 कूप, 15 खद, 16 दर (उदर), 17 खर, 18 असुर, 19 अध्वन् (अध्वन; अध्वा) 20 सर, 21 वेद, 22 बीज, 23 दीप्त (दीस), 24 स्कन्द ॥
Bhashya¶
उगवादिभ्यो यत् (1884) (यतोऽधिकरणम्) (5588 पूर्वविप्रतिषेधबोधकमेकदेशिवार्तिकम्॥ 1 ॥) - यञ्ञ्ञ्ञ्यावञ्ञः पूर्वविप्रतिषिद्धं सनङ्गूपानहौ प्रयोजनम् - (भाष्यम्) यञ्ञ्ञ्ञ्यौ भवतोऽञ्ञः पूर्वविप्रतिषेधेन। किं प्रयोजनम्? सनङ्गूपानहौ प्रयोजनम्। यतोऽवकाशः - शङ्कव्यं दारु, पिचव्यः कार्पासः। अञ्ञोऽवकाशः - वार्ध्रम्, वारत्रम्। सनङ्गुर्नाम चर्मविकारः, तस्मादुभयं प्राप्नोति - सनङ्गव्यं चर्म॥ ञ्ञ्यस्यावकाशः - औपानह्यं दारु। अञ्ञः स एव। उपानन्नाम चर्मविकारस्तस्मादुभयं प्राप्नोति - औपानह्यं चर्म॥ (5589 विप्रतिषेधबोधकवार्तिकम्॥ 2 ॥) - ढञ्ञ्च - (भाष्यम्) ढञ्ञ्च भवत्यञ्ञः पूर्वविप्रतिषेधेन। ढञ्ञोऽवकाशः - छादिषेयं तृणम्। अञ्ञः स एव। छदिर्नाम चर्मविकारस्तस्मादुभयं प्राप्नोति - छादिषेयं चर्म। ढञ्ञ् भवति पूर्वविप्रतिषेधेन॥ (5590 विप्रतिषेधबोधकवार्तिकम्॥ 3 ॥) - हविरपूपादिभ्यो विभाषाया यत् - (भाष्यम्) हविरपूपादिभ्यो विभाषाया यद्भवति पूर्वविप्रतिषेधेन। हविरपूपादिभ्यो विभाषाया अवकाशः - आमिक्ष्यम् - आमिक्षीयम्। पुरोडाश्यम् - पुरोडाशीयम्। यतः स एव। इहोभयं प्राप्नोति - चरव्यास्तण्डुलाः। यद्भवति पूर्वविप्रतिषेधेन॥ (5591 विप्रतिषेधबोधकवार्तिकम्॥ 4 ॥) - अन्नविकारेभ्यश्च - (भाष्यम्) अन्नविकारेभ्यश्च विभाषाया यद्भवति पूर्वविप्रतिषेधेन। अन्नविकारेभ्यश्च विभाषाया अवकाशः - सुर्याः, सुरीयाः। यतः स एव। इहोभयं प्राप्नोति - सक्तव्या धाना इति। यद्भवति पूर्वविप्रतिषेधेन॥ (विप्रतिषेधानर्थक्यबोधकमेकदेशिभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः। न वक्तव्यः। इष्टवाची परशब्दः - विप्रतिषेधे परं यदिष्टं तद्भवतीति। (वार्तिकावतरणभाष्यम्) अयं नाभिशब्दो गवादिषु पठ्यते। तत्रैवोच्यते - नाभि नभं चेति। तत्र चोद्यते - (5592 नाभेः प्रत्ययानुपपादकवार्तिकम्॥ 5 ॥) - नाभेर्नभभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात् - (भाष्यम्) नाभेर्नभभावे प्रत्ययस्यानुपपत्तिः। किं कारणम्? प्रकृत्यभावात्। विकृतेः प्रकृतावभिधेयायां प्रत्ययेन भवितव्यम्, न च नाभिसंज्ञिकाया विकृतेः प्रकृतिरस्ति। यदेव हि तन्मण्डलचक्राणां मण्डलचक्रं तन्नभ्यमित्युच्यते॥ (5593 रूपसाधकं वार्तिकम्॥ 6 ॥) - सिद्धं तु शाखादिषु वचनात् ह्रस्वत्वं च - (भाष्यम्) सिद्धमेतत्। कथम्? शाखादिषु नाभिशब्दः पठितव्यः, ह्रस्वत्वं च वक्तव्यम्। नाभिरिव - नभ्यमिति। कः पुनरिहोपमार्थः? यत्तदक्षधारणं परिवर्तनं वा॥ अपर आह - यत्तदञ्ञ्जनोपाञ्ञ्जनमिति। (गवादिगणपाठप्रयोजनभाष्यम्) न तर्हीदानीमिदं वक्तव्यम् - नाभि नभं चेति। वक्तव्यं च। किं प्रयोजनम्? यान्येतान्यरवन्ति चक्राणि तदर्थम्। तत्र नाभिसंज्ञिकाया विकृतेः प्रकृतिरस्ति। यानि चाप्यनरवन्ति चक्राणि तदर्थमपीदं वक्तव्यम्। दृश्यते हि समुदायादववस्य पृथक्त्वम्। तद्यथा - वार्क्षी शाखेति॥ गुणान्तरयोगाच्च विकारशब्दो दृश्यते। तद्यथा - बौभीतको यूपः, खादिरं चषालमिति। तत्रावयवात्समुदाये वृत्तिर्भविष्यति॥ (वृक्षे नभ्यशब्दोपपादकवार्तिकावतरणभाष्यम्) अथ यो नभ्यार्थो वृक्षः कथं तत्र भवितव्यम् - नभ्यो वृक्षः, नभ्या शिंशपेति? (5594 एकदेशिसमाधानवार्तिकम्॥ 7 ॥) - नभ्यात्तु लुग्वचनम् - (भाष्यम्) नभ्यात्तु लुग्वक्तव्यः। स तर्हि लुग्वक्तव्यः। (सिद्धान्तभाष्यम्) न वक्तव्यः। तार्दथ्यात्ताच्छब्द्यं भविष्यति। नभ्यार्थो नभ्य इति॥
Kashika¶
प्राक् क्रीतादित्येव। उवर्णान्तात् प्रातिपदिकाद् गवादिभ्यश्च यत् प्रत्ययो भवति। प्राक्क्रीतीयेष्वर्थेषु। छस्यापवादः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। गवादिभ्यःखल्वपि — गव्यम्। हविष्यम्। सनङ्गुर्नाम चर्मविकारः। ततः परत्वात् चर्मणोऽञ्**(५.१.१५) इत्येष विधिः प्राप्नोति। तथा चरुर्नाम हविः, सक्तुरन्नविकारः। अपूपादिषु **अन्नविकारेभ्यश्च**(ग०सू०१११) इति पठ्यते। ततो **विभाषा हविरपूपादिभ्यः (५.१.४) इत्येष विधिः प्राप्नोति। तत्र सर्वत्र पूर्वविप्रतिषेधेन यत् प्रत्यय एवेष्यते — सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धाना इति। गवादिषु नाभि नभं च (ग०सू०१०८) इति पठ्यते। तस्यायमर्थः — नाभिशब्दो यत्प्रत्ययमुत्पादयति, नभं चादेशमापद्यत इति। नाभये हितो नभ्योऽक्षः। नभ्यमञ्जनम्। यस्तु शरीरावयवो नाभिशब्दः, ततः शरीरावयवाद् यत् (५.१.६) इति यति कृते नाभये हितं नाभ्यं तैलमिति भवितव्यम्। गवादिषु यता सन्नियुक्तो नभभावोऽत्र न भवति ॥ गो। हविस्। बर्हिष्। खट। अष्टका। युग। मेधा। स्रक्। नाभि नभं च (ग०सू०१०८)। शुनः संप्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम् (ग०सू०१०९) — शुन्यम्, शून्यम्। चकारस्यानुक्तसमुच्चयार्थत्वाद् नस्तद्धिते (६.४.१४४) इति लोपो न स्यात्। ऊधसोऽनङ् च (ग०सू०११०) — ऊधन्यः। कूप। उदर। खर। स्खद। अक्षर। विष। गवादिः॥
Siddhanta Kaumudi¶
प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । (गणसूत्रम् -) नाभि नभं च ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । (गणसूत्रम् -) शुनः संप्रसारणं वा च दीर्घत्वम् । शून्यम् । शुन्यम् । (गणसूत्रम् -) ऊधसो नङ् च । ऊधन्यः ॥
Laghu Siddhanta Kaumudi¶
प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। नाभि नभं च (वार्त्तिकम्) । नभ्योऽक्षः। नभ्यमञ्जनम् ॥
Padamanjari¶
उवर्णादेर्गशब्दादेर्वशब्दादेश्च यद्भवतीत्यर्थो न भवति, गवादिगणपाठतः। सनंगुरित्यादि। चर्मविकारलक्षणस्याञोऽवकाशः-वार्ध्र चर्म, वारत्रं चर्मेति, उवर्णान्तलक्षणस्य यतोऽवकाशः - शङ्कव्यम्, पिचव्यमिति; सनङ्गोरुभयप्रसंङ्गे परत्वादञ्प्राप्नोति। चरुर्नाम इविरिति। स्थालीवचनस्य चरुशब्दस्य तकदधिकरणे हविष्युपचारद्वृत्तिः।’विभाषा हविरपूपादिभ्यः’ इत्यत्र हविर्विशेषवाचिनां ग्रहणम्, न स्वरूपस्य; तस्य गवादिषु पाठात्। विपर्ययस्तु न भवति - इह विशेषग्रहणं तत्र स्वरूपग्रहणमिति; गवादिष्वसञ्जातविरोधित्वेन स्वरूपग्रहणे बाधकाभावात्। अतः’विभाषा इविरपूपादिभ्यः’ इत्यत्रैव विशेशग्रहणमिति स्थिते तस्यावकाशः - आमिक्ष्यम्, आमिक्षीयम्; पुरोडाश्याः, पुरोडाशीया इति। अन्नविकारेभ्यश्चेति पठ।ल्त इति। तस्यावकाशः - सुराः, सुर्याः, सुरीयाः, ओदन्याः, ओदनीया इति, उवर्णाअन्तसक्षणस्य यतः स एव; चरुसक्तुभ्यामुभ्य प्रसङ्गे परत्वाद्विभाषा प्राप्नोति, तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्यय एवेष्यत इति। अयमेव नित्यो यत्प्रत्यय इत्यर्थः। नभं चादेशमापद्यत इति। भसंज्ञकं च न भवतदीत्ययं त्वर्थो न भवति, व्याख्यानात्। तदर्थमेव हि गणसूत्रं व्याख्यातम्, प्रायेण हि वृत्तिकारो गणसूत्राणि न व्याचष्टे। नभ्योऽक्ष इति। च्छिद्रवद्रथाङ्गविशेषः - नाभिः, तच्छिद्रानुप्रविष्टकाष्ठविशेषः - अक्षः, स तदनुगुणत्वातस्मै हित इत्युच्यते। अञ्जनं तैलकृताभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम्। यतु भाष्य उक्तम् -‘नाभेर्नभभावे प्रत्ययानुपपतिः प्रकृत्यभावात्’ इति, तन्नभ्यं चक्रमिति प्रयोगाभिप्रायम्। न हि चक्रस्य नाभिविकृतिः, अपि त्ववयवः। नापि तादर्थ्यमस्ति; अवयविनोऽवयवार्थत्वाभावात्। तेन’तदर्थ विकृतेः प्रकृतौ’ इत्यत्रार्थे नभ्यं चक्रमिति नैव सिद्धयति। हितार्थस्त्वाशङ्क्य एवेति न सर्वथा प्रत्ययानुपपतिस्तत्र विवक्षितेति भावः। शरीरावयवाद्यदिति यति कृते इति। परत्वादिति भाव। नाभ्यं तैलमिति भवितव्यमिति। अथात्रापि नभभावः कस्मान्न भवति ? इत्याह - गवादियतेति। शुन इत्यादि। श्वनित्यस्य सम्प्रसारणं यत्प्रत्ययश्च भवति, पक्षे दीर्घश्च तत्सञियोगेनेति। यदा दीर्घत्वं तदा शुने हितं शुन्यं शून्यमिति वा,’नस्तद्धिते’ इति तत्र वर्तते, सम्प्रसारणे च कृते नेदमन्नन्तम्, कामं दीर्घपक्षे तद्विधानसामर्थ्याट्टिलोपो न स्यात्, पक्षान्तरे तु प्राप्नोति, सम्प्रसारणं बाधकबाधनार्थम्, अन्यथा प्रकृतिबावप्रसङ्गात् ? एवं तर्हि चकारद्वयमत्र पठ।ल्ते, तत्रेकः सम्प्रसारणसमुच्चये द्रष्टव्यः, तत्रान्यस्य समुच्चेतव्यस्याभावात्सम्प्रसारणमेव पुनर्विधीयते। तत्र पुनर्विधानं तु तद्रूपस्यैवावस्थानार्थं भविष्यति। ऊधसोऽनङ् चेति।’नश्च’ इति नोक्तम्; लाघवे विशेषाभावात्। ऊधःशब्दस्यानङदेशो भवति यत्सन्नियोगेन - ऊधन्यः,’ये चाभावकर्मणोः’ इति प्रकृतिभावः ॥
Nyaas¶
उगिति प्रत्याहारग्रहणं वा स्यात्? उवर्णग्रहणं वा? तत्राद्ये पक्षेऽयं वाक्यार्थो जायते-उगन्तेभ्यः प्रातिपदिकेभ्योऽवादिभ्योऽवकारादिभ्योऽवसुप्रभृतिभ्य इति। वकारादीन्? वर्जयित्वेत्यर्थः। ननु चैवं सति पञ्चम्या निर्देशः स्यात्? नैष दोषः; सुपां सुलुक् (7.1.39) इति लुका निर्दष्टत्वात्। एवं तर्हि प्रातिपदिकेषु गवादिपाठसामर्थ्यात्? प्रत्याहारग्रहणं न भवति; अन्यथा हि गवादीनां पाठोऽनर्थकः स्यात्। एतत्? सर्वं मनसि कृत्वाऽऽह-उवर्णान्तात् इति। सर्वत्रग्रहणे तदन्तविधेरभ्युपगमादित्यभिप्रायः। शङ्कव्यम् इति। ओर्गुणः (6.4.146) वान्तो यि प्रत्यये (6.1.79) इत्यवादेशः। सनङगुः इत्यादि। चर्मविकारलक्षणस्याञोऽव काशाः - वाध्र्रम्, वारत्रम्, उवर्णान्तलक्षणस्य यतोऽवकाशः - शङ्कव्यम्? पिचव्यमिति; सनङगुर्नाम चर्मविकारः, तत्रोभयप्राप्तौ परत्वात्? चर्मणोऽञ् (5.1.15) इत्यञ्? प्राप्नोति तथा इत्यादि। अन्नविकारेभ्यश्च इति। अपूपादिलक्षणास्य प्क्षीकस्य यतोऽवकाशः - अपूप्यास्तण्डुलाः, अपूपीया इति, उवर्णान्तलक्षणस्य स एव; चरुर्नाम हविर्विशेषः; सक्तुश्चान्नविकारः, तत उभयप्रसङ्गे परत्वात्? विभाषा हविरपूपादिभ्यः (5.1.4) इति हविर्लक्षणोऽन्नविकारलक्षणश्च विधिः प्राप्नोति। तदेवं सनङ्गुशब्दादञ्? प्राप्तः, चरुसक्तुशब्दाभ्यां विकल्पेन यत्, नित्यश्चेष्यते, तदर्थं पूर्वविप्रतिषेधो भाषितव्य इति। ओर्गुणः (6.4.146) , वान्तो यि प्रत्यये (6.1.79) इत्यवादेशः। सनङ्गव्यम् इत्यादि। एतच्चेष्टवाचित्वात्? परशब्दस्य लभ्यत इत्यवगन्तव्यम्। गवादिषु नाबि नभञ्चेति पठते इति। अत्र कस्यचिदियमाशङ्का स्यात् - भसंज्ञाप्रतिषेदो विधियत ति, ततश्च यस्येति लोपेन भवितव्यमित्यत आह - नाभिशब्दो यत्प्रत्ययम् इति। शरीरावयवो यो नाभिशब्दस्तत्र कथं भवितव्यमित्याह - यस्तु इत्यादि। ततः शरीरावयवाद्यति कृते परत्वात्? नाभ्यं तैलम् इति। ननु च शरीरावयवलक्षणे यति सति नभभावः कस्मान्न भवतीतियाह-गवादिषु यता इत्यादि। स हि गवादियता सह विहितः। तेन सन्नियोगशिष्टानामन्यतराबाव उभयोरप्यभावः (व्य।प।48) इति नभभावो न भवति। शुनः इत्यादि। आन्नित्येतस्य सम्प्रसारणे कृतेऽन्नन्तताऽस्तीति नस्तद्धिते (6.4.144) इति टिलोपेन भाव्यमेवेति। एवं तर्हि सम्प्रसारणसामर्थ्यान्न भवति? नैतदस्ति; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्तु विदेर्निमित्तमेव नासौ बाध्यते (व्या।पा।56) इति तदवस्थो दोषः। दीर्घविधानसामर्थ्यादिति चेत्? एवमपि पक्षे स्यात्। एवं तह्र्रन्यथा व्याख्यायते। इह चकारद्वयं पठते - सम्प्रसारणञ्ज, वा दीर्घत्वञ्चेति। द्वितीयश्चकारी भिन्नक्रमः सम्प्रसारणसमीपे द्रष्टव्यः। स च समुच्यार्थोऽन्यस्य समुच्चेतव्यस्याभावात्? तदेव समुच्चिनोति। तत्र सम्प्रसारणमेकेन क्रियते द्वितीयेन तद्रूपस्यैवावस्थितिरिति। तत्सन्नियोगेन इत्यादि। तदित्यनेन दीर्घत्वं प्रत्यवमृश्यते। तेन दीर्घत्वेन यत एवान्तोदात्तत्वं भवति; अन्यथा यतोऽनावः (6.1.213) इत्याद्युदात्तत्वं स्यात्। ऊधसोऽनङ्? च इति। ऊधःशब्दस्यानङादेशो भवति, चकाराद्यच्य। ऊधन्यः। पूर्ववत्? प्रकृतिभावः॥
Sutra Prayogas¶
शरव्यम् (रघुवंशम्): उगवादिभ्यो यत् इति यत्प्रत्ययः।