51009: आत्मन्विश्वजनभोगोत्तरपदात् खः

Padacheda: आत्मन्-विश्वजन-भोग-उत्तरपदात् | S | 5 | 1 |

खः | S | 1 | 1 |

Sutrartha

‘हितम्’ अस्मिन् अर्थे चतुर्थीसमर्थात् आत्मन्-शब्दात्, विश्वजन-शब्दात् तथा यस्य उत्तरपदं ‘भोग’ इति अस्ति तस्मात् शब्दात् ख-प्रत्ययः भवति ।

यस्मिन् शब्दे ‘भोग’ इति उत्तरपदं विद्यते, तस्मात् शब्दात्, आत्मन्-शब्दात् तथा च विश्वजन-शब्दात् चतुर्थीसमर्थात् ‘हितम्’ अस्मिन् अर्थे ख-प्रत्ययः भवति । क्रमेण पश्यामः - 1. आत्मने हितम् = आत्मन् + ख → आत्मन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → आत्मनीन [नस्तद्धिते (6.4.144) इति टिलोपे प्राप्ते आत्माध्वानौ खे (6.4.168) इति प्रकृतिभावः ।] ‘आत्मन्’ शब्दस्य विषये काशिकाकारः वदति - ‘आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्’ । इत्युक्ते, अस्मिन् सूत्रे ‘आत्मन् + विश्वजन’ इत्यत्र ‘आत्मन्’ इत्यस्य नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारलोपः न कृतः अस्ति, एतत् अस्य ज्ञापकम् यत् ‘उत्तरपद’ अयम् शब्दः केवलम् ‘भोग’ इत्यनेन सह अन्वेति, न हि ‘आत्मन्’ उत ‘विश्वजन’ इत्येताभ्याम् सह । 2. ‘विश्वजन’ इति समस्तपदम् भिन्नैः समासैः भवितुमर्हति - (अ) कर्मधारयः = विश्वम् च सः जनः । (आ) बहुव्रीहिः = विश्वम् यस्य जनः सः । (इ) षष्ठीतत्पुरुषः = विश्वस्य जनः । एतेभ्यः केवलं कर्मधारयसमासस्य विषये एव अनेन सूत्रेण ख-प्रत्ययविधानम् भवति । अन्येषां विषये तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते - विश्वम् च सः जनः विश्वजनः, तेभ्यो हितम् = विश्वजन + ख → विश्वजन + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → विश्वजन् + ईन [यस्येति च (6.4.148) इति अकारलोपः] → विश्वजनीन विश्वस्य जनः विश्वजनः, तेभ्यो हितम् = विश्वजन + छ → विश्वजन + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईय्-आदेशः] → विश्वजन् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → विश्वजनीय । 3. अस्मिन् सूत्रे प्रयुक्तः भोग-शब्दः ‘शरीरम्’ अस्मिन् अर्थे प्रयुक्तः अस्ति । अयम् शब्दः यस्य उत्तरपदे विद्यते , तस्मात् शब्दात् ‘हितम्’ अस्मिन् अर्थे ख-प्रत्ययः भवति । मातृभोगाय इदम् मातृभोगीणम् । मातुः शरीरार्थम् हितकारकम् इत्यर्थः । तथैव - पितृभोगीणम्, स्वसृभोगीणम्, भ्रातृभोगीणम् - आदयः शब्दाः अपि सिद्ध्यन्ति । अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. <!पञ्चजनात् उपसङ्ख्यानम्!> - कर्मधारय-समासेन निर्मितः यः ‘पञ्चजन’ शब्दः (= पञ्च च ते जनाः) तस्मात् ‘हितम्’ अस्मिन् अर्थे ख-प्रत्ययः भवति । पञ्चजनेभ्यो हितम् पञ्चजनीयम् । अन्येषां समासानां विषये (यथा - पञ्चानाम् जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । पञ्चजनाय हितम् पञ्चजनीयम् । 2. <!सर्वजनात् ठञ् खश्च!> - कर्मधारय-समासेन निर्मितः यः ‘सर्वजन’ शब्दः (= सर्वे च ते जनाः) , तस्मात् ‘हितम्’ अस्मिन् अर्थे ठञ् तथा ख-प्रत्ययौ भवतः । सर्वजनेभ्यो हितम् सार्वजनिकम् सर्वजनीनम् वा । अन्येषां समासानां विषये (यथा - सर्वेषाम् जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । सर्वजनस्य हितम् सर्वजनीयम् । 3. <!महाजनात् नित्यम् ठञ् वक्तव्यः!> - तत्पुरुष-समासेन निर्मितः यः ‘महाजन’शब्दः (= महताम् जनः) तस्मात् ‘हितम्’ अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । महाजनाय हितम् महाजनिकम् । अन्येषां समासानां विषये (यथा - महान् अस्य जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । महाजनाय हितम् महाजनीयम् । 4. <!राजाचार्याभ्यां तु नित्यम् ; आचार्यात् अणत्वं च !> - ‘राजभोग’ तथा ‘आचार्यभोग’ अस्मात् शब्दात् ‘हितम्’ अस्मिन् अर्थे ख-प्रत्ययः भवति, तथा च ‘आचार्य’शब्दस्य प्रक्रियायाम् णत्वं न भवति । यथा - राजभोगाय हितम् राजभोगीनम्, आचार्यभोगाय इदमाचार्यभोगीनम् (अत्र वस्तुतः अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यनेन णत्वस्य प्रसक्तिः विद्यते, परन्तु वार्तिकेन णत्वनिषेधः भवति) । अस्मिन् वार्त्तिके ‘नित्यम्’ इति स्वीक्रियते, तस्य प्रयोजनम् ‘केवल राज-शब्दात् आचार्य-शब्दात् वा ‘हितम्’ अस्मिन् अर्थे कोऽपि प्रत्ययः मा भूत्’ - इति । यथा, ‘राज्ञे हितम्’ तथा ‘आचार्याय हितम्’ इत्यत्र औत्सर्गिकः छ-प्रत्ययः अपि न भवति ।

Vasu English Summary

The affix ख comes in the sense of ‘good for that’ after the words आत्मन् and विश्वजन and after the compounds having the word भोग as their second term

Vasu English Translation

The affix ख comes in the sense of ‘good for that’ after the words आत्मन् and विश्वजन and after the compounds having the word भोग as their second term This debars छ ॥ In the sutra, the न् of आत्मन् has not been elided, indicating that it should not be compounded with the word भोग which would have been the case otherwise. It therefore follows from this irregular construction of the sutra, that the word भोगोत्तरपद does not apply to the words आत्मन् and विश्वजन, but these words are themselves prakriti. Thus आत्मन् + ख = आत्मनीनम् ‘suitable for ones self’ the न् of atman, which required to be elided by (6.4.144), is saved by (6.4.169). So also विश्वजनीनम् ‘suitable for all men.’ The word विश्वजन for must be a karmadharaya compound, meaning ‘all men,’ for the application of this rule; when it is a Tatpurusha or a Bahuvrihi compound, it will take छ. As, विश्वजनाय हितं = विश्वजनीयम्, ‘beneficial for man-kind.’

Vart:- So also after Karmadharaya Compound पंचजन, e.g. पंचजनीनम्, otherwise पंचजनीयम् ॥

Vart:- After the Karmadharaya compound सर्वजन, there are the affixes ठञ् and ख, as, सर्वजनीनं, and सार्वजनिकम्; otherwise सर्वजनीयम् ॥

Vart:- The affix ठञ् comes always after the word महाजन whether it be a Karmadharaya or a Tatpurusha, but not so when it is a Bahuvrihi Compound. As महाजनाय हितं = माहाजनिकं ॥ In a Bahuvrihi it will be महाजनीयः with छ ॥

Compounds having भोग as their final term, also take the affix ख, as, मातृभोगीणः and पितृभोगीणः ॥ The word भोग means ‘body.’ But मात्रीयः and पित्रीयः with छ, when the word भोग does not follow.

Vart:- The words राजा and आचार्य followed by ‘bhoga’ take always the affix ख, as, राजभोगीनः and आचार्यभोगीनः ॥ In the case of आचार्यभोगीनः, the न is not changed into ण (8.4.2) The words do not take the affix ख when used singly. As, राज्ञे हितम्, आचार्याय हितम्, no affix being employed.

Bhashya

आत्मन्विश्वजनभोगोत्तरपदात्खः 1891 (खाधिकरणम्) (5597 भोगोत्तरपदात्खविधाने पूर्वपक्षे आक्षेपवार्तिकम्॥ 1 ॥) - भोगोत्तरपदात्खविधानेऽनिर्देशः पूर्वपदार्थहितत्वात् - (भाष्यम्) भोगोत्तरपदात्खविधानेऽनिर्देशः। अगमको निर्देशोऽनिर्देशः। किं कारणम्? पूर्वपदार्थहितत्वात्। उत्तरपदार्थप्रधानस्तत्पुरुषः पूर्वपदार्थप्रधाने च प्रत्यय इष्यते। पितृभोगाय हिते प्राप्नोति, पित्रे चैव हित इष्यते। एवं तर्हि भोगीनर्प्रत्ययो विधास्यते॥ (5598 न्यासान्तरविधाने दोषवार्तिकम्॥ 2 ॥) भोगीनरिति चेद्वावचनम्॥ (भाष्यम्) भोगीनरिति यदि प्रत्ययो विधीयते वावचनं कर्तव्यम्, मात्रीयः पित्रीय इत्यपि यथा स्यादिति॥ (5599 एकदेशिवार्तिकम्॥ 3 ॥) - राजाचार्याभ्यां नित्यम् - (भाष्यम्) राजाचार्याभ्यां नित्यमिति वक्तव्यम्। राजभोगीनः। आचार्यादणत्वं च। आचार्यभोगीनः॥ किं भोगीनर्प्रत्ययो विधीयत इत्यतः राजाचार्याभ्यां नित्यमिति वक्तव्यम्? नेत्याह - सर्वथा राजाचार्याभ्यां नित्यमिति वक्तव्यम्॥ इह च ग्रामणिभोगीनः, सेनानिभोगीन इति उत्तरपदे इति ह्रस्वत्वं न प्राप्नोति। इह चाब्भोगीन इति अपोभि (7.4.48) इति तत्वं प्राप्नोति। सूत्रं च भिद्यते॥ (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तम् - भोगोत्तरपदात्खविधानेऽनिर्देशः पूर्वपदार्थहितत्वात् - इति। नैष दोषः। अयं भोगशब्दोऽस्त्येव द्रव्यपदार्थकः। तद्यथा - भोगवानयं देश इत्युच्यते यस्मिन्गावः सस्यानि च वर्तन्ते। अस्ति क्रियापदार्थकः। तद्यथा - भोगवानयं ब्राह्मण इत्युच्यते। यः सम्यक् स्नानादीः क्रिया अनुभवति। तद्यः क्रियापदार्थकस्तस्येदं ग्रहणम्। यश्च पितृस्थाभ्यः क्रियाभ्यो हितः, संबन्धादसौ पित्रेऽपि हितो भवति॥ यदि संबन्धात्, अस्तु द्रव्यपदार्थकस्यापि ग्रहणम्। योऽपि हि पितृद्रव्याय हितः, संबन्धादसौ पित्रे हितो भवति॥ अथ वा भोगशब्दः शरीरवाच्यपि दृश्यते। तद्यथा - अहिरिव भोगैः पर्येति बाहुम्। अहिरिव शरीरैरिति गम्यते। एवं पितृशरीराय हितः-पितृभोगीण इति॥ (5600 उपसङ्खयानवार्तिकम्॥ 4 ॥) - खविधाने पञ्ञ्चजनादुपसंख्यानम् - (भाष्यम्) खविधाने पञ्ञ्चजनादुपसंख्यानं कर्तव्यम्। पञ्ञ्चजनाय हितः - पञ्ञ्चजनीनः। समानाधिकरण इति वक्तव्यम्। यो हि पञ्ञ्चानां जनाय हितः - पञ्ञ्चजनीयः स भवति॥ (5601 विधिवार्तिकम्॥ 5 ॥) - सर्वजनाट्ठञ्ञ्च - (भाष्यम्) सर्वजनाट्ठञ्ञ्च वक्तव्यः, खश्च। सर्वजनाय - हितः सार्वजनिकः, सर्वजनीनः। समानाधिकरण इति च वक्तव्यम्। यो हि सर्वेषां जनाय हितः - सर्वजनीयः स भवति॥ (5602 नित्यत्वबोधकवार्तिकम्॥ 6 ॥) - महाजनान्नित्यम् - (भाष्यम्) महाजनान्नित्यं ठञ्ञ्वक्तव्यः। महाजनाय हितो माहाजनिकः। तत्पुरुष इति वक्तव्यम्, बहुव्रीहौ मा भूदिति। महान् जनोऽस्य - महाजनः, महाजनाय हितः - महाजनीयः। (समानाधिकरणाद्युपाधिप्रत्याख्याने भाष्यम्) यदि तर्ह्यतिप्रसङ्गाः सन्तीत्युपाधिः क्रियते, आद्यन्यासेऽप्युपाधिः कर्तव्यः - आत्मन्विश्वजन समानाधिकरण इति वक्तव्यम्। यो हि विश्वेषां जनाय हितः - विश्वजनीयः स भवति। अथ मतमेतत् - अनभिधानादाद्यन्यासे न भविष्यतीति, इहापि नार्थ उपाधिग्रहणेन। इहाप्यनभिधानान्न भविष्यति॥

Kashika

आत्मन् विश्वजन इत्येताभ्यां भोगोत्तरपदात् च प्रातिपदिकात् खः प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्। तेनोत्तरपदग्रहणं भोगशब्देनैव संबध्यते, न तु प्रत्येकम्। आत्मने हितम् आत्मनीनम् (पै०सं०५.११.८)। **आत्माध्वानौ खे**(६.४.१६९) इति प्रकृतिभावः। विश्वजनेभ्यो हितं विश्वजनीनम्। कर्मधारयादेवेष्यते। षष्ठीसमासाद् बहुव्रीहेश्च छ एव भवति। विश्वजनाय हितं विश्वजनीयम्॥ पञ्चजनादुपसंख्यानम्॥ पञ्चजनात् च खः। अत्रापि कर्मधारयादिष्यते। पञ्चजनीनम्। अन्यत्र पञ्चजनीयम्॥ सर्वजनाट् ठञ् खश्च॥ सार्वजनिकम्, सर्वजनीनम्। अत्रापि कर्मधारयादेव — सर्वजनीयमन्यत्र॥ महाजनाद् नित्यं ठञ् वक्तव्यः॥ महाजनाय हितं माहाजनिकम्। तत्पुरुषादेव। बहुव्रीहेस्तु छ एव भवति। महाजनीयम्। भोगोत्तरपदात् खल्वपि — मातृभोगीणः। पितृभोगीणः। भोगशब्दः शरीरवाची। केवलेभ्यो मात्रादिभ्यश्छ एव भवति। मात्रीयम्। पित्रीयम्॥ राजाचार्याभ्यां तु नित्यम्॥ भोगोत्तरपदाभ्यामेव खः प्रत्यय इष्यते, न केवलाभ्याम्। राजभोगीनः॥ आचार्यादणत्वं च॥ आचार्यभोगीनः। केवलाभ्यां वाक्यमेव भवति — राज्ञे हितम्, आचार्याय हितमिति॥

Balamanorama

आत्मन्विश्वजनभोगोत्तरपदात् खः - आत्मन्विआजन । अत्मजन्, विआजन, भोगोत्तरपद-एभ्यो हितमित्यर्थे खः स्यादित्यर्थः ।आत्मनीन॑मित्युदाहरणं वक्ष्यति ।

Padamanjari

इहोतरपदग्रहणं व्याप्तिन्यायेन सर्वैर्वा सम्बध्येत, प्रत्यासतिन्यायेन भोगशब्देनैव वा ? तत्राद्यं पक्षं निराकरोति - आत्मन्निति नलोपो न कृत इति। विवक्षितां प्रकृति कार्त्स्न्येन निर्द्दिशेयमिति नलोपो न कृतः, प्रत्येकं सम्बन्धे चोतरपदग्रहणस्य नैतावती प्रकृतिः स्याद्, अतो नलोपाकरणेन प्रत्येकं सम्बन्धे निवारिते भोगशब्देनैव सम्बध्यते इत्यर्थः। कर्मधारयादिष्यत इति। व्याश्यानमत्र शरणम्। षष्ठीसमासादिति। विश्वस्य जनो विश्वजनःउसर्वसाधारणो वेस्यादिः। बहुव्रीहेश्वेति। विश्वो जनोऽस्येति, स एव वेश्यादिरन्यपदार्थः। पञ्चजनादिति। रथकारपञ्चमाश्चत्वारो वर्णाःउ पञ्चजनाः।’दिक्संख्ये संज्ञायाम्’ इति समासः। पञ्चजनीयमन्यदिति। षष्ठीसमासाद् बहुव्रीहेश्च च्छ एव भवतीत्यर्थः। यदा च प्रकरणादिवशाद्विशिष्टसंख्येयवृत्तित्वावसायः संख्या शब्दानां तदा सापेक्षत्वाभावादविरुद्धः समासः, जनादिनैव साक्षात्सम्बन्धाद्; अन्यथा तु संख्येयस्यैव जनापेक्षया व्यतिरेकः, तद्द्वारेण तु संख्यागुणस्येति साक्षात्सम्बन्धाभावाद् दुर्लभः षष्ठीसमासः। सर्वजनादिति।’पूर्वकालैकसर्व’ इति कर्मधारयः। महाजनान्नित्यमिति। नित्यग्रहणं सर्वजनादुक्तो खो मा भूदिति। तत्पुरुषादेविति। अत्र’कर्मधारयादेव’ इति नोक्तम्, त्वनिर्देशेनैव षष्ठीसमासव्यावृत्तिसिद्धेः। इह पितृभोगीणादिशब्दैः पित्रादिहितस्यार्थस्याभिधानमिष्यते, पित्रादिभोगहितस्य तु प्राप्नोति। भोगशब्दश्चायमस्त्येव द्रव्यपदार्थकः, तद्यथा-भोगवानयं देश उच्यते, यस्मिन् गावः सस्यानि च वर्द्दन्ते, भुज्यत इति भोगः; अस्ति च क्रियापदार्थः, तद्यथा-भोगवानयं ब्राह्मण उच्यते यः सम्यक् स्नानादिकाः क्रिया अनुभवति; अस्ति च शरीरवाची, अहिरिव भोगैः पर्येति बाहुमिति दर्शनात्, अत्र समुदाये प्रवृतस्य भोगशब्दस्यैकदेशेषु फणेषु प्रयोगः, न चाहेरेव शरीरं भोगः, अपि तु सर्वं शरीरम्; अनन्तत्वात्प्रयोगविषयस्यावधारणस्य कर्तुमशक्यत्वात्। निघष्टुअषु तु प्रयोगबाहुल्यादहिशरीरे प्रयोगः। सर्वेष्वपि चार्थेषु विवक्षिताभिधानं न प्राप्नोति। तस्मान्नायं बोगोतरपदात्खो विधेयः, पित्रादिभ्य एव तु भोगीनच्प्रत्ययो विधेयः - पित्रे हितः पितृभोगीण इति। यद्येवम्, वावचनं कर्तव्यम्, मात्रीयं पित्रीयमिति यथा स्याद्; अन्यथा भोगीनचा बाधितत्वाच्छाए न स्यात्। इह च ग्रामणिभोगीनः सेनानिभोगीन इति ठिको ह्रस्वोऽङ्यो गालवस्यऽ इत्युतरपदनिबन्धनं ह्रस्वत्वं न स्यात्, इह चाब्बोगीन इति ठपो भिऽ इति भकारादौ ग्रत्यये विधीयमानं तत्वं प्राप्नोति, बोगोतरपदातु खविधाने नैते दोषाः। अर्थविरोधस्तु भवति, तं परिहरति - भोगशब्दः शरीरवाचीति। तत्र शरीरशरीरिणोरभेदाद्य एवार्थो मात्रे हित इति, स एव मातृभोगाय हित इत्यपि विग्रहे भवतीति भावः। एवं भोगोतरपदात्खविदानेऽप्यर्थविरोधं परिहृत्य तत्रैव गुणमाह - केवलेभ्यो मात्रादिभ्यश्च्छ एव भवतीति। एवकारो भवतीत्यस्यान्तरं द्रष्टव्यः। भोगीनच्प्रत्ययविधाने तु छाए न स्यादेव - इत्येवशब्दस्यार्थः। राजाचार्याभ्यामिति। राजाचार्याभ्यां हितार्थे यदि प्रत्ययो भवति नित्यम्, भोगोतरपदाभ्यामेव स च ख एवेत्यर्थः। न केवलाभ्यामिति। अत्र’प्रत्यय इष्यते’ इत्येतावदपेक्ष्यते, न तु’खप्रत्यय इष्यते’ इति; प्राप्त्यभावात्। अत एव केचित्’खः प्रत्यय इष्यते’ इति व्यस्तं पठन्ति। आचार्यादणत्वं चेति। भोगोतरपदादिति गम्यते, इदानीमेव ह्युक्तम् - राजाचार्याभ्यां नित्यं भोगोतरपदाभ्यामेवेति ॥ सर्वपुरुषाभ्यां णढञौ ॥

Nyaas

अयात्मन्नित्यत्र नलोपः कस्मान्न कृतः, यावता द्वन्द्वेनायं निर्देशः क्रियते, तत्र नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः प्राप्नोति? इत्यत आह-आत्मन् इत्यादि। आत्मन्नित्येव भवत्येषा प्राकृतिरिति ज्ञापनार्थं नलोपो न कृतः। कः पुनरेवं सति विशेषः? इत्याह-तेन इत्यादि। गतार्थम्। यद्येवम्, विआजनशब्देन ह्रुत्तरपदस्य सम्बन्धः प्राप्नोति? एवं मन्यते-आत्मन्निति नलोपाबावेन प्रत्येकं वाक्यपरिसमाप्तेव्र्यभिचारस्य दर्शितत्वात्? ततः प्रत्यासतेर्भोगशब्देनैव सम्बध्यते, न तु विआजनशब्देनेति नासति दोषः। कर्मधारयादेवेष्यते इति। वार्यपारम्पर्योपदेशात्। विभावाग्रहणानुवृत्तेव्र्यवस्थितविबाषाविज्ञानाद्वेदं वेदितव्यम्। विआस्य जनो विआजनः, विआओ जनोऽस्येति विआजन इति समासेन भवितव्यम्। यथा खो न भवति तथा च्छोऽपि न भवतीत्याशङ्क्याह-बहुव्रीहिस्तु इत्यादि।उपसंख्यानम् इति। प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-इह हि भोगसमासादिति वाक्तव्ये उत्तरपदग्रहणमधिकविधानार्थम्। न चैवं सति बहुपूर्वादीषदसमाप्तौ भोगो बहुभोग इत्यस्मात्? खः स्यादित्याशङ्कनीयम्; बहुच्प्रच्प्रत्ययस्य समासाबावात्। ततोऽत्रि छेनैव भवितव्यम् - बहुभोगीय इति। तेन पञ्चजनादपि भविष्यति। संज्ञाशब्दश्चायम्; दिक्संख्ये संज्ञायाम् (2.1.50) इति समासः। तथा सर्वजनादपि वेदितव्यः। तत्पुरुषादेव इति। विशेषानभिधानेऽपि महाजनादिति निर्देशादेव समानाधिकरणादेव भोगशब्दोऽयं भावसाधनः - भुक्तिर्भोग इति, कर्मसाधनो वा - भुज्यत इति भोग इति। अयमव्युत्पन्नः शरीरवाचीस, तस्येह ग्रहणमित्याह - भोगशब्दः इत्यादि। भोगशब्दः शरीरमेव प्रतिपादयतीत्यर्थः। यत्र वर्तमानोऽयं साक्षात्? सम्बन्धमाह, तत्रैव खप्रत्ययमासादयति। वर्तते च क्रियायां द्रव्ये च। तथा हि - यद्यपि भुजिक्रियया द्रव्येण च सम्बन्धोऽस्ति, तथापि शरीरेण मुख्यः सम्बन्ध इति ततो भवति प्रत्ययः। यथा राजाचार्याभ्यां वाक्यमेव भवति, तथेहापि भवितव्र्यामिति यश्चोदयेत्, तं प्रत्याह - आचार्यादणत्वम् इति। क्षुभ्नादिपाठात्। केवलाभ्यां वाक्यमेव भवत#इ इति। छप्रत्ययो न भवति, अनर्भिधानादेव॥

Prakriyasarvasvam

आत्मने हितमात्मनीनम् ॥

Vartika

आचार्यादणत्वं च ।

Sutra Prayogas

  • आत्मनीनम् (किरातार्जुनीयम्): आत्मन्विश्वजनभोगोत्तरपदात् खः इति खप्रत्ययः।

  • विश्वजनीनम् (शिशुपालवधम्): आत्मन्विश्वजनभोगोत्तरपदात्खः इति खप्रत्ययः।

  • विश्वजनीन (भट्टिकाव्यम्): आत्मन्विश्व… इति खः।

  • सर्व-भोगीण (भट्टिकाव्यम्): आत्मन्विश्वजनभोगोत्तरपदात् खः इति ख-प्रत्ययः।