51010: सर्वपुरुषाभ्यां णढञौ¶
Padacheda: सर्व-पुरुषाभ्याम् | S | 5 | 2 |
ण-ढञौ | S | 1 | 2 |
Sutrartha¶
‘हितम्’ अस्मिन् अर्थे चतुर्थीसमर्थात् ‘सर्व’शब्दात् ण-प्रत्ययः भवति , तथा च ‘ वधः, विकारः, समूहः, तेन कृतम्’ एतेषु अर्थेषु ‘पुरुष’ शब्दात् ढञ्-प्रत्ययः भवति ।
तस्मै हितम् (5.1.5) इत्यनेन सर्वेभ्यः शब्देभ्यः ‘हितम्’ अस्मिन् अर्थे औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण ‘सर्व’शब्दात् ण-प्रत्ययः भवति, तथा च वार्त्तिककारेण प्रोक्तेषु विशिष्टेषु अर्थेषु पुरुष-शब्दात् ढञ्-प्रत्ययः विधीयते । 1. सर्वेभ्यो हितम् = सर्व + ण → सर्व + अ [इत्संज्ञालोपः] → सार्व + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → सार्व् + अ [यस्येति च (6.4.148) इति अकारलोपः] → सार्व अत्र भाष्यकारः एकं वार्त्तिकम् पाठयति - <!सर्वात् णस्य वा वचनम्!> । इत्युक्ते, ‘सर्व’शब्दात् ण-प्रत्ययः केवलं विकल्पेन एव भवति, नित्यम् न । अतः पक्षे औत्सर्गिकः छ-प्रत्ययः अपि भवति - सर्वेषाम् हितम् सर्वीयम् । 2. ‘पुरुष’ शब्दस्य विषये भाष्यकारः अन्यत् एकम् वार्त्तिकम् पाठयति - <!पुरुषात् वध-विकार-समूह-तेनकृतेषु इति वक्तव्यम्!> । इत्युक्ते, पुरुष-शब्दात् ढञ्-प्रत्ययः ‘हितम्’ अस्मिन् अर्थे न भवति, अपि तु ‘वध’, ‘विकार’, ‘समूह’ तथा ‘तेन कृतम्’ एतेषु अर्थेषु भवति - [अ] पुरुषस्य वधः - अत्र तस्येदम् (4.3.120) इत्यनेन दत्तमण्-प्रत्ययं बाधित्वा ढञ्-प्रत्ययः भवति । [आ] पुरुषस्य विकारः - अत्र तस्य विकारः (4.3.134) अस्मिन् अर्थे पाठितेन प्राणिरजतादिभ्योऽञ् (4.3.154) इत्यनेन सूत्रेण अञ्-प्रत्यये प्राप्ते तं बाधित्वा ढञ्-प्रत्ययः विधीयते । [इ] पुरुषाणां समूहः - अत्र तस्य समूहः (4.2.37) इत्यनेन निर्दिष्टस्य अण्-प्रत्ययस्य बाधकरूपेण ढञ्-प्रत्ययः भवति । [ई] पुरुषेण कृतः ग्रन्थः - अत्र कृते ग्रन्थे (4.3.116) अनेन प्राप्तं अण्-प्रत्ययं बाधित्वा ढञ्-प्रत्ययः भवति । [उ] पुरुषेण कृतः (अग्रन्थः) - अत्र तु अन्यसूत्रैः किमपि प्रत्ययविधानं न कृतमस्ति, अतः विशिष्टरूपेण ढञ्-प्रत्ययः विधीयते । पुरुषस्य बधः पुरुषस्य विकारः / पुरुषाणां समूहः / पुरुषेण कृतम् = पुरुष + ढञ् → पुरुष + एय [आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय्-आदेशः] → पौरुष + एय [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पौरुष् + एय [यस्येति च (6.4.148) इति अकारलोपः] → पौरुषेय एतेषु चतुर्षु अपि अर्थेषु यथायोग्यम् समर्थविभक्तिः स्वीक्रियते इति स्मर्तव्यम् । विशेषः - अत्र वार्त्तिके ‘तेन कृतम्’ इति विशिष्टरूपेण ‘तेन’ इति तृतीयासामर्थ्यम् निर्दिष्टमस्ति । अतः अन्येषु अर्थेषु - यथा ‘तस्मै कृतम्’ इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः नास्तीति स्मर्तव्यम् ।
Vasu English Summary¶
The affixes ण and ढञ् come in the sense of ‘good for that’ after the words सर्व and पुरुष।
Vasu English Translation¶
The affixes ण and ढञ् come in the sense of ‘good for that’ after the words सर्व and पुरुष। This debars ‘chha’. Thus सर्वस्मै हितं = सार्वम्. So also पौरुषेयम् ॥
Vart:- The affix ण comes optionally after सर्व, as, सर्वीयम् or सार्वम् ॥
Vart:- The affix ढञ् comes after पुरुष when the word so formed means: ‘slaughter’, ‘modification’, ‘a crowd’, or ‘made by him’. As पौरुषेयो वधः &c. ‘man-slaughter’, ‘a crowd of men’, ‘human action’, ‘made by man’. e.g. पौरुषेयो ग्रन्थः ‘a book written by man’ contra. अपौरुषेया वेदाः ‘The Vedas are non-human’.
Bhashya¶
सर्वपुरुषाभ्यां णढञ्ञौ (1892) (छप्रत्ययापवादणढञ्ञोरधिकरणम्) (5603 विकल्पवार्तिकम्॥1॥) सर्वाण्णस्य वेति वक्तव्यम्। सार्वः, सर्वीयः। (5604 अर्थविधायकवार्तिकम्॥2॥) पुरुषाद्वधे॥ पुरुषाद्वध इति वक्तव्यम्। पौरुषेयो वधः। अत्यल्पमिदमुच्यते - पुरुषाद्वध इति । पुरुषाद्वधविकारसमूहतेनकृतेष्विति वक्तव्यम्। पौरुषेयो वधः। पौरुषेयो विकारः। पौरुषेयस्समूहः। तेन कृतं पौरुषेयम्।
Kashika¶
सर्वपुरुषाभ्यां यथासंख्यं णढञौ प्रत्ययौ भवतः तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। सर्वस्मै हितं सार्वम्। पौरुषेयम्॥ सर्वाद् णस्य वा वचनम्॥ सर्वीयम्॥ पुरुषाद् वधविकारसमूहतेनकृतेष्विति वक्तव्यम्॥ पौरुषेयो वधः, पौरुषेयो विकारः, पौरुषेयः समूहो वा। तेन कृते — पौरुषेयो ग्रन्थः॥
Siddhanta Kaumudi¶
।<!सर्वाण्णो वेति वक्तव्यम् !> (वार्तिकम्) ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥<!पुरूषाद्वधविकारसमूहतेकृतेषु !> (वार्तिकम्) ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । तस्येदम्-(SK1500)इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । प्राणिरजतादिभ्योऽञ् (SK1532) इत्यञि प्राप्ते समुहैऽप्यणि प्राप्ते । एकाकिनोऽपि परितः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ॥
Balamanorama¶
सर्वपुरुषाभ्यां णढञौ - सर्वपुरुषाभ्याम् । सर्व, पुरुष आभ्यां चतुथ्र्यन्ताभ्यां क्रमाण्णढञौ स्तो हितमित्यर्थे इत्यर्थः । सर्वाण्ण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् ।पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ्स्यात्, न हितार्थे इत्यर्थः । ननुतेन कृत॑मिति समुदायस्य असुबन्तत्वात्कथं समासे निवेश इत्यत आह — भाष्येति । अणि प्राप्ते इति ।अनेन ढ॑ञिति शेषः । प्राणीति । रजतादित्यादञि प्राप्ते अनेन ढञित्यर्थः । समूहेऽप्यणि प्राप्ते इति । पुरुषाणां समूह इत्यर्थे ‘तस्य समूहः’ इत्यणि प्राप्ते अनेन ढञित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परित आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे ‘कृते ग्रन्थे’ इत्यणि प्राप्ते,पुरुषेण कृतः प्रासाद॑ इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढञित्यर्थः । माणव । आभ्यां चतुथ्र्यन्ताभ्यां हितमित्यर्थे खञ्स्यादित्यर्थः ।
Tattvabodhini¶
सर्वपुरुषाभ्यां णढञौ - सर्वपुरुषाभ्याम् । आभ्यां शब्दाभ्यां यथासङ्ख्यं णढञौ स्तस्तस्मै हितमित्यर्थे,प्राक्क्रीता॑दिति छस्यापवाद इति सूत्रार्थः ।सर्वाण्णो वेति वक्तव्यम् । सर्वादिति । अनुकरणत्वात्सर्वनामकार्याऽभावः ।पुरुषाद्वधविकारसमूहतेनकृतेषु । पुरुषाद्वधविकारेति । योग्यताबलादिह षष्ठी समर्थविभक्तिर्लभ्यते,तेन कृते॑त्यत्र थु उपात्तैव तृतीया । तदाह — — पुरुषस्य वध इति । समूहेऽप्यणीति ।तस्य समूहः॑इत्यनेन । ग्रन्थेऽणीति ।कृते ग्रन्थे ॑इत्यनेन । अप्राप्ते इति ।पौरुषेयः प्रासाद॑इत्यादौ न कस्याप्यपवादोऽयं ढञिति भावः ।
Padamanjari¶
अनुकरणत्वात्सर्वनामकार्याभावः, सर्वनामानिऽ इत्यन्वर्थसंज्ञाविज्ञानात्’प्रकृतिवदनुकरणम्’ इत्यपि सर्वनामत्वं न भवति; अनाश्रितार्थस्य शब्दरूपस्यानुकरणात्। पुरुषाद्वधेति। प्रत्ययार्थसामर्थ्येन षष्ठीसमर्थविभक्तिर्लभ्यते, कृते तु तेनत्युपातैव तृतीया। भाष्यकारप्रयोगाच्च द्वन्द्वमध्येऽपि तेनेत्यस्य निवेशः, तत्र वधे-ठ्तस्येदम्ऽ इत्यणोऽपवादः, विकारे -‘प्राणिरजतादिभ्यो’ ञ्ऽ इत्यञः, समूहेऽपि’तस्य समूहः’ इत्यण एव, तेन कृतेऽपि ग्रन्थात्मके -‘कृते ग्रन्थे’ इत्यण एव। पौरुषेयः प्रासाद इत्यत्र न कस्यचिदपवादः ॥
Nyaas¶
सर्वाण्णस्य वावचनम् इति। अभिधानेऽभिधेयोपचाराद्वेति विकल्प्माह। इहापि विभाषाग्रहणानुवृत्तेरेव वेदितव्यम्। न च सर्वपुरुषाभ्यां विकल्प आशङ्का; व्यवस्थितविभाषात्वात्। पुरुषाद्वध इति। तत्र वधे - तस्येदम् (4.3.120) इत्यणोऽपवादः, विकारे - प्राणिरजतादिभ्योऽञ् (4.3.154) इत्यञः, समूहेऽपि - तस्य समूहः (4.2.37) इत्यणः। तेन कृते ग्रन्थे [कृते ग्रन्थे इत्येव पाणिनीयं सूत्रम्] (4.3.116) इत्यण एव॥
Prakriyasarvasvam¶
सर्वस्मै हितः सार्वः । अस्माच्छोऽपि सर्वीयः । ‘पुरुषाद्वितवधविकारावयव- समूहतेनकृतेषु ढञ् वाच्यः’ (वा० ५-१-१०) ॥ <karika> ‘नो पौरुषेयमयमिच्छति पौरुषेये सक्तो वधे पिशितमत्ति च पौरुषेयम् । द्राक् पौरुषेयगलभिन्न च पौरुषेयै- र्जय्यो विनिन्दति च वाचमपौरुषेयीम् ॥ २९० ॥ </karika>
Vartika¶
सर्वाण्णो वेति वक्तव्यम् ।
Sutra Prayogas¶
पौरुषेयवृता (शिशुपालवधम्): सर्वपुरुषाभ्यां णढञौ इति ढञ्प्रत्ययः।
सार्व (शिशुपालवधम्): सर्वपुरुषाभ्यां णढञौ इति णप्रत्ययः।