Sutras 1 - 20¶
- 43001: युष्मदस्मदोरन्यतरस्यां खञ् च
- 43002: तस्मिन्नणि च युष्माकास्माकौ
- 43003: तवकममकावेकवचने
- 43004: अर्धाद्यत्
- 43005: परावराधमोत्तमपूर्वाच्च
- 43006: दिक्पूर्वपदाट्ठञ् च
- 43007: ग्रामजनपदैकदेशादञ्ठञौ
- 43008: मध्यान्मः
- 43009: अ साम्प्रतिके
- 43010: द्वीपादनुसमुद्रं यञ्
- 43011: कालाट्ठञ्
- 43012: श्राद्धे शरदः
- 43013: विभाषा रोगातपयोः
- 43014: निशाप्रदोषाभ्यां च
- 43015: श्वसस्तुट् च
- 43016: संधिवेलाद्यृतुनक्षत्रेभ्योऽण्
- 43017: प्रावृष एण्यः
- 43018: वर्षाभ्यष्ठक्
- 43019: छन्दसि ठञ्
- 43020: वसन्ताच्च