43009: अ साम्प्रतिके

Padacheda: अ | S | | | 1

साम्प्रतिके | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix अ comes in the remaining senses after the word मध्य , the meaning being ‘fit’ or ‘proper’.

Vasu English Translation

The affix अ comes in the remaining senses after the word मध्य , the meaning being ‘fit’ or ‘proper’. The word सांप्रतिक means ‘equity, propriety, right, fit’. As नातिदीर्घं नाति हृस्वं मध्यं काष्ठम् “the proper piece of wood–neither too long nor too short”. मध्ये वैयाकरणः “the fit Grammarian, neither too refined nor too dull”. मध्यास्त्री “a proper wife”.

Kashika

अकारः प्रत्ययो भवति मध्यशब्दात् सांप्रतिके जातादौ प्रत्ययार्थे। मस्यापवादः। सांप्रतिकं न्याय्यं युक्तमुचितं सममुच्यते। नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम्। नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः। मध्या स्त्री॥

Siddhanta Kaumudi

मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥

Balamanorama

अ साम्प्रतिके - अ सांप्रतिके । ‘अ’ इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह — मध्यशब्दादित्यादि ।संप्रती॑त्यव्ययमुत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीयेअनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथवा एष सम्प्रतियज्ञो यत्पञ्चरात्रः॑ इत्यत्र तथा दर्शनात् । पञ्चरात्रो न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः । सम्प्रतिशब्दात्स्वार्थे विनयादित्वाट्ठकि साम्प्रतिकम् । प्रज्ञादित्वात्स्वार्थ अणि तु साम्प्रतमित्यपि भवति ।एतर्हि सम्प्रती॑ति कोशादिदानीमित्यर्थेऽपि । प्रकृते तु साम्यं विवक्षितम् ।

Tattvabodhini

अ साम्प्रतिके - अ सांप्रतिके ।सप्रती॑त्यव्ययं न्याय्ये वर्तते,अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रः स वा एष संप्रति यज्ञो यत्पञ्चरात्रः॑इत्यत्र तथा दर्शनात् । न न्यूनो नातिरिक्तः -सम इत्यर्थः । इदानीमित्यर्थे तु प्रसिद्धमेव,एतर्हि संप्रतीदानीम्इत्यमरात् । ततः प्रज्ञादित्वात्स्वार्थेऽण्, विनयादित्वात्स्वार्थे ठगपि । तेन सांप्रतं सांप्रतिकमिति पर्यायौ । उत्कर्षेत्यादि । न्याय्ये विद्यमान एव संप्रतिशब्दोऽत्र गृह्रते इति भावः ।

Padamanjari

साम्प्रतिकं युक्तं न्याय्यमुचितं सममुच्यत इति । कस्यचित्कश्चित्प्रसिद्ध इत्यनेकशब्दोपादानम् । सम्प्रतिशब्द इदानीमित्यत्राअर्थे प्रसिद्धोऽपि न्याय्येऽपि वर्तते । दृश्यते हि - ठनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथ वा एष सम्प्रति यज्ञो यत्पञ्चरात्र इतिऽ, न न्यूनो नातिरिक्तः, सम इत्यर्थः । स च प्रज्ञादौ पठ।ल्ते । तेन साम्प्रतम्, सम्प्रतीति च पर्यायौ ॥

Nyaas

न्याय्यं युक्तमित्यादिभिः पर्यायैः साम्प्रतिकशब्दार्थमाचष्टे -{साम्प्रतिकम् -न्याय्यम्, युक्तम्, उचितम्, सममुच्यते -काशिका,पदमञ्जरी च} साम्प्रतिकं न्याय्यमुच्यते (इति)। तथा हि प्रयोगो दृश्यते न बाह्रं प्राप्तमित्येवं वर्त्तितव्यमसाम्प्रतमिति। अत्र न्याय्यः प्रतिषेधः प्रतीयते। साम्प्रतमेव साम्प्रतिकम्। विनयादेराकृतिगणत्वात् विनयादिभ्यश्च (5.4.34) इति ठक्॥

Prakriyasarvasvam

<karika>उत्कृष्टनीचयोर्मध्ये भवः साम्प्रतिको मतः । तस्मिन् वाच्ये मध्यशब्दाद स्यान्मध्या वधूरियम् ॥ २३८ ॥</karika>