43004: अर्धाद्यत्

Padacheda: अर्धात् | S | 5 | 1 |

यत् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix यत् comes after the word अर्द्ध in the remaining senses.

Vasu English Translation

The affix यत् comes after the word अर्द्ध in the remaining senses. This debars अण् ॥ Thus अर्द्ध्यम् ‘belonging to half.’

Vart:- When it has a prior term the affix ठञ् is used. As बालेयार्द्धिकम्, (बल्यर्थंवस्तु = बालेयं)॥ गौतमार्द्धिकम् ॥

Bhashya

1574 अर्धाद्यत् (यतोऽधिकरणम्) (5449 विधिवार्तिकम्॥ 1 ॥) - अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञ् - (भाष्यम्) अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञ् वक्तव्यः। बालेयार्धिकः। गौतमार्धिकः॥ (5450 विधिवार्तिकम्॥ 2 ॥) - दिक्पूर्वपदाद्यच्च - (भाष्यम्) दिक्पूर्वपदाद्यच्च ठञ्ञ्च वक्तव्यः। पूर्वार्ध्यः, पौर्वार्धिकः; दक्षिणार्ध्यः, दाक्षिणार्धिकः, उत्तरार्ध्यः, औत्तरार्धिकः॥ (वार्तिकाक्षेपभाष्यम्) किमर्थमिदमुच्यते, यथान्यास एव दिक्पूर्वपदादर्धादुभयमुच्यते। इदमद्यापूर्वं क्रियते -अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञिति॥ (समाधानभाष्यम्) तद् द्वेष्यं विजानीयात् -सर्वमेव विकल्पत इति। तदाचार्यः सुहृदभूत्वाऽन्वाचष्टे दिक्पूर्वपदादर्धाद्यथान्यासमेव भवतीति॥

Kashika

अर्धशब्दाद् यत् प्रत्ययो भवति शैषिकः। अणोऽपवादः। अर्ध्यम्॥ सपूर्वपदाट् ठञ् वक्तव्यः॥ बालेयार्धिकम्। गौतमार्धिकम्॥

Siddhanta Kaumudi

अर्ध्यः ॥

Balamanorama

अर्धाद्यत् - अर्धात् । अध्र्य इति । अर्धे जातादिरित्यर्थः ।सपूर्वपदाट्ठञ् वाच्यः॑ इति वार्तिकं भाष्ये स्थितम् । बालेयार्धिकः ।

Padamanjari

बल्यर्थं वस्तु बालेयम्, तस्यार्धमुएकदेशः, तत्र भवं बालेयार्द्धिकम् ॥

Prakriyasarvasvam

अर्धे भवमर्ध्यम् ।<!सपूर्वपदाट्ठञ् वाच्यः!> (वा० ४-३-३) राज्यार्धिकम् ॥

Sutra Prayogas

  • परार्ध्यात् (किरातार्जुनीयम्): अर्धाद्यत् इति यत्प्रत्ययः।