43007: ग्रामजनपदैकदेशादञ्ठञौ

Padacheda: ग्राम-जनपद-एकदेशात् | S | 5 | 1 |

अञ्-ठञौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

The affixes अञ् and ठञ् come in the remaining senses after the word अर्द्ध preceded by a word denoting direction when a particular portion of a village or an inhabited country.

Vasu English Translation

The affixes अञ् and ठञ् come in the remaining senses after the word अर्द्ध preceded by a word denoting direction when a particular portion of a village or an inhabited country. The phrase दिकपूर्वपदात् is to be read into the sutra. This debars यत् ॥ Thus इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः or पौर्वार्धिकाः “Those verily belong to the eastern half of our village or country”. So also दाक्षिणार्धाः or दाक्षिणार्धिकाः ॥ The word पौर्वार्द्धाः = ग्रामस्य पूर्वस्मिन्नर्द्धे भवाः and is a Taddhitartha compound.

Kashika

दिक्पूर्वपदादित्येव। ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च प्रातिपदिकाद् दिक्पूर्वपदादर्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ यतोऽपवादौ। इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः, पौर्वार्धिकाः। दाक्षिणार्धाः, दाक्षिणार्धिकाः॥

Siddhanta Kaumudi

ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादञ्ठञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वास्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठञ् ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते यतोऽप्यनुकर्षः संभाव्येत ॥

Balamanorama

ग्रामजनपदैकदेशादञ्ठञौ - ग्रामजनपद । ननु अञ् चेत्येतावतैव चकाराट्ठञोऽनुकर्षसिद्धेः ठञ्ग्रहणं व्यर्थमित्यत आह — ठञ्ग्रहणमिति । ननु अञ् चेत्युक्तेऽपि चकाराट्ठञोऽनुकर्षः स्पष्ट एवेत्यत आह — अञ्चेत्युक्त इत्यादि ।

Padamanjari

पौर्वार्द्धा इति । ग्रामस्य पूर्वस्मिन्नर्द्धे भव इति तद्धितार्थे समासः, ततः प्रत्ययः । यद्यप्यर्द्धशब्दो ग्राममपेक्षते, तथाप्यस्य नित्यसापेक्षत्वात्प्रधानत्वाच्च वृत्तिद्वयमप्यविरुद्धम् - समासवृत्तिः, तद्धितवृत्तिश्च । ठञ्ग्रहणं किमर्थम्, नाञ्चेत्येवोच्येत ? न चैवमुच्यमाने यतोऽपि समुच्चय प्रसङ्गः; पूर्वसूत्रे चानुकृष्टत्वात् । तस्माद्विस्पष्टार्थं ठञ्ग्रहणम् ॥

Nyaas

यतोऽपवादौ इति। पूर्वेण प्राप्तस्य। पौर्वार्धाः इति।पूर्ववत्समासः। नन्वत्र पूर्वस्मिन्नर्द्धे ग्रामस्येति ग्राममपेक्षमाणस्यार्धशब्दस्यासामर्थ्यात् समासो नोपपद्यते? नैष दोषः; प्रधानमात्रार्द्धं भवति। प्रधानस्य सापेक्षस्यापि समासः - इत्येतत् उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2.1.56) इत्यत्र ज्ञापितम्॥

Prakriyasarvasvam

ग्रामजनपदयोरंशवाचकाद् दिक्पूर्वपदार्धशब्दादञ् ठञौ स्तः । अस्य ग्रामस्य पौर्वार्धा विप्राः, पौर्वार्धकाः । एवं जनपदेऽपि ॥