43001: युष्मदस्मदोरन्यतरस्यां खञ् च¶
Padacheda: युष्मद्-अस्मदोः | S | 6 | 2 |
अन्यतरस्याम् | S | 7 | 1 |
खञ् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix खञ् also comes optionally in the remaining senses after the words 1. युष्मद् and 2. अस्मद्।
Vasu English Translation¶
The affix खञ् also comes optionally in the remaining senses after the words 1. युष्मद् and 2. अस्मद्। The regulating power of the word देशे ceases. The word च indicates that the affix may be छ as well. The word “optionally” shows that the general affix अण् may also be employed. Thus there are three affixes, खञ्, च and अण्, and hence there being no equal enumeration, the rule of mutual correspondence (1.3.10) does not apply.
The words युष्मद् and अस्मद् are Vriddha, as they belong to Tyadadi class (1.1.74), and would have taken छ by (4.2.11); the present sutra enjoins three affixes for each. Thus युष्मद् + अण् = युष्माक + अण् (4.3.2) = यौष्माकः युष्मद् + छ = युष्मद् + ईय = युष्मदीयः (7.1.2). युष्मद् + खञ् = युष्माक + ईन (4.3.2) = यौष्माकीणः (7.1.2); and (8.4.2). So also आस्माकः, अस्मदीय; and आस्माकीनः ॥
Bhashya¶
युष्मदस्मदोरन्यतरस्यां खञ्ञ्च (1571) (खञ्ञोऽधिकरणम्) (5444 योगविभागबोधकवार्तिकम्॥ 1 ॥) - युष्मदस्मद्भ्यां प्रत्ययविधाने योगविभागः - (भाष्यम्) युष्मदस्मद्भ्यां प्रत्ययविधाने योगविभागः कर्तव्यः। युष्मदस्मदोरन्यतरस्याम्। छो भवति। युष्मदीयः, अस्मदीयः। ततः -खञ्ञ्च। खञ्ञ्च भवति युष्मदस्मदोरन्यतरस्याम्। यौष्माकीणः, आस्माकीनः॥ किमर्थो योगविभागः? (5445 योगविभागफलबोधकवार्तिकम्॥ 2 ॥) - समसंख्याप्रतिषेधार्थः - (भाष्यम्) संख्यातानुदेशो मा भूदिति॥
Kashika¶
देशाधिकारो निवृत्तः। युष्मदस्मदोः खञ् प्रत्ययो भवति शैषिकः। चकाराच् छश्च। अन्यतरस्यांग्रहणाद् यथाप्राप्तम्। तदेते त्रयः प्रत्यया भवन्ति, तत्र वैषम्याद् यथासंख्यं न भवति। त्यदादित्वाद् वृद्धसंज्ञकयोर्युष्मदस्मदोश्छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते। यौष्माकीणः। आस्माकीनः। युष्मदीयः। अस्मदीयः। यौष्माकः। आस्माकः॥
Siddhanta Kaumudi¶
चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः ॥
Laghu Siddhanta Kaumudi¶
चाच्छः। पक्षेऽण्। युवयोर्युष्माकं वायं युष्मदीयः, अस्मदीयः॥
Balamanorama¶
युष्मदस्मदोरन्यतरस्यां खञ् च - युष्मदस्मदोः । युष्मदस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् त्यदादीनि सर्वैर्नित्यम् इत्येकशेषो न भवति । पञ्चम्यर्थे षष्ठी । युष्मच्छब्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ्-स्यादित्यर्थः । चाच्छः । गर्तोत्तरपदादित्यधिकृतः छः चकारेण समुच्चीयत इत्यर्थः ।युष्मदीय इति । द्विवचनान्दाद्बहुवचनान्ताच्च छः । ईयादेशः । सुब्लुकि युवादेशस्य निवृत्तिः, तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थैकत्वे विभक्तेर्लुप्तत्वेऽपि त्वादेशो वक्ष्यते । अस्मदीय इति । आवयोरस्माकं वा अयमित्यर्थः ।
Tattvabodhini¶
युष्मदस्मदोरन्यतरस्यां खञ् च - युष्मदस्मदोः ।त्यदादीनि चे॑ति वृद्धत्वान्नित्ये छे प्राप्ते खञणोरपि विधानार्थमिदजम् । पक्षे अणिति । अन्यतरस्याङ्ग्रहणादिति भावः । तथा चैते त्रयः प्रत्यया इति वैषम्याद्यथासङ्ख्यं न भवतीति केचित् । मनोरमायां तु यथासङ्ख्यनिवारणाया योगविभागः कृतः । तथा हियुष्मदस्मदोरन्यतरस्यामाभ्यां छो वा स्यात् ।त्यदिदीनि चे॑ति वृद्धत्वान्नित्ये छे प्राप्ते विकल्पोऽयम् । ततःखञ्च॑ । एवमुत्तरसूत्रेऽपि योगविभागो बोध्यः । तेन आदेशयोः खञणभ्यां यथासङ्ख्यं नेत्यादि । युवयोरित्यादि । एकवचने तवकममकादेशविधानादेकवचनान्तेन विग्रहोऽत्र न कृतः ।
Padamanjari¶
षष्ठीनिर्देश उतरार्थः । एते त्रयः प्रत्यया भवन्तीति । ननु चान्यतरस्यांग्रहणेन खञ्च्छयोः पक्षेऽनुत्पत्तिः प्रतिपाद्यते, तदनुत्पतावपवादाभावात्स्वशास्त्रेण’प्राग्दीव्यतः’ इत्यनेनैवाण् भवति, तत्कुतोऽनेन प्रत्ययत्रयस्य विधानम्, छाएऽपि तर्हि नैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव - यद्यन्योऽपि कश्चित्प्राप्नोति सोऽपि भवतीति, ततश्छाएऽपि स्वशास्त्रेण’वृद्धाच्छः’ इत्यनेनैव भवति, एक एव त्वपूर्वः खञ् विधीयते । अथ यस्य प्रवृतावस्य तात्पर्यं स सर्वोऽनेन विधीयत इति च्छस्यानेन विधानम् । यद्येवम्, अणोऽप्यनेनैव विधानम्, न खञ्च्छयोरनुत्पत्तिमात्रेऽन्यतरस्यांग्रहणस्य तात्पर्यम्, तस्य महाविभाषयैव सिद्धत्वात्, किं तर्हि ? अणः प्रवृतावपि । तस्मातात्पर्यतस्त्रय एते प्रत्यया भवन्तीत्युक्तम्, प्रत्येकं प्रत्ययत्रयं विधीयत इति च । तत्र खञ्प्रत्ययो भवतीत्यनेन खञ एवापूर्वस्य विधानमिति दर्शितम् । अन्यतरस्यांग्रहणाद्यथाप्राप्तं चेत्यनेनाणोऽभ्यनुज्ञानम् । त्यदादित्वाद्यौष्मदस्मदोश्छे प्राप्त इत्यनेनापि छ्ंअस्याभ्यनुज्ञानम् । भाष्ये तु योगविभागेन यथासंख्याभावः प्रतिपादितः -‘युष्मदस्मदोः’ इत्येको योगः, अत्र’गर्तोतरपदाच्छः’ इत्यतश्छाएऽनुवर्तते; ततः’खञ्च’ इति द्वितीयो योगः ॥
Nyaas¶
तत्र वषम्याद्यथासंख्यं न भवति इति। द्वे हि प्रकृती, प्रत्ययाश्च त्रय इति वैषम्यम्। ननु च?ञ्छावेवानेन विधीयेते, अण्प्रत्ययस्त्वन्यतरस्यांग्रहणेन यथाप्राप्तस्याभ्यनुज्ञाने कृते शास्त्रादेव भवति, तत्कृतो वैषम्यम्? छोऽपि तर्हि तेनैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव। सोऽपि स्वशास्त्रादेव `वृद्धाच्छःट (4.2.114) इत्येतस्माद्भवतीति? एवमपि वैषम्यम्। सर्वथा नास्ति यथासंख्यप्रसङ्ग॥
Prakriyasarvasvam¶
अनयोः शेषे खञ् छश्च वा स्यात् । विकल्पादण् च ॥
Sutra Prayogas¶
तावकं (कुमारसम्भवम्): युष्मदस्मदोरन्यतरस्यां खञ्च इत्यण्प्रत्ययः।
तावकीनैः (किरातार्जुनीयम्): युष्मदस्मदोरन्यतरस्यां खञ्च इति खञ्प्रत्ययः।
आस्माक (शिशुपालवधम्): युष्मदस्मदोरन्यतरस्यां खञ्च इति विकल्पादण्प्रत्ययः।
आस्माकी (शिशुपालवधम्): युष्मदस्मदोरन्यतरस्यां खञ्च इति चकारादण्प्रत्ययः।