43003: तवकममकावेकवचने¶
Padacheda: तवक-ममकौ | S | 1 | 2 |
एकवचने | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
In expressing one individual, तबक and ममक are the substitutes of युष्मद् and अस्मद् respectively when खञ् and अण् follow.
Vasu English Translation¶
In expressing one individual, तबक and ममक are the substitutes of युष्मद् and अस्मद् respectively when खञ् and अण् follow. As तावकीनः ‘belonging to thee’, मामकीनः “belonging to me.” तावकः and मामकः ॥ But when the affix is छ, the form wil त्वदीयः, मदीयः.
The word एकवचने should not be construed as meaning the affix of the singular number, as the affix सु ॥ Because the affix of the singular is always elided (लुक्) after these words, and by rule (1.1.63), there will not be the application of this rule. This difficulty is, however, got over by explaining the word एकवचने as equal to एकार्थे ॥
Bhashya¶
1573 तवकममकावेकवचने (5448 उपसंख्यानवार्तिकम्॥ 1 ॥) - एकार्थग्रहणं च - (भाष्यम्) एकार्थग्रहणं च कर्तव्यम्। एकार्थयोर्युष्मदस्मदोरिति वक्तव्यम्। किमर्थम्? न एकवचन इत्येव सिद्धम्? न सिध्यति। किं कारणम्? एकवचनाभावात्। एकवचन इत्युच्यते, न चात्रैकवचनं पश्यामः॥ (वार्तिकान्यथासिद्धिबोधकं भाष्यम्) यदि पुनरेकवचनपरत्वेनाण्खञ्ञौ विशेष्येयाताम्। नैवं शक्यम्, इह हि प्रसज्येयाताम् -युष्माकं छात्रो यौष्माकीणः। आस्माकीनः। इह च न स्याताम्। तव छात्रास्तावकीनाः। मामकीनाः। तस्मान्नैवं शक्यम्। न चेदेवमेकार्थग्रहणं कर्तव्यम्॥ न कर्तव्यम्। नेदं पारिभाषिकस्यैकवचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम्। उच्यते वचनम्, एकस्यार्थस्य वचनमेकवचनमिति॥ 4-3-1- आ. 4 (764 विधिसूत्रम्
Kashika¶
एकवचनपरयोर्युष्मदस्मदोस्तवक ममक इत्येतावादेशौ भवति यथासंख्यं तस्मिन् खञि अणि च परतः। निमित्तयोस्तु यथासंख्यं पूर्ववदेव न भवति। ननु च न लुमताङ्गस्य (१.१.६३) इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न संभवति ? वचनात् प्रत्ययलक्षणं भविष्यति। अथवा नैवेदं प्रत्ययग्रहणम्। किं तर्हि ? अन्वर्थग्रहणम्। एकवचने युष्मदस्मदी एकस्यार्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः। तावकीनः। मामकीनः। तावकः। मामकः। तस्मिन्नणि चेत्येव — त्वदीयः। मदीयः॥
Siddhanta Kaumudi¶
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥
Laghu Siddhanta Kaumudi¶
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु -
Balamanorama¶
तवकममकावेकवचने - तवकममकौ । ‘एकवचने’ इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम्ुक्तिः-एकवचनम् । एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते । तदाह — एकार्थवाचिनोरिति । छे त्विति ।एकार्थवृत्तयोर्विशेषो वक्ष्यते॑ इति शेषः ।
Tattvabodhini¶
तवकममकावेकवचने - तवक । इह पूर्ववदेव निमित्तयोः खञणोरादेशौ प्रति यथासङ्ख्यं न भवति, किंतु स्थान्यादेशयोरेवेत्याशयेनोदाहरति — — तावकीनः । मामकीन इति । परावरापरावराधमोत्तमेभ्यः॑इत्येव वक्तव्ये पूर्वग्रहणं पूर्वविप्रतिषेधसूचनार्थम् । तेन दिक्शब्दयोः परावरयोकर्धशब्देन समासे उत्तरसूत्रेण प्राप्तावपि ठञ्यतौ बाधित्वा यदेव भवति ।
Nyaas¶
पूर्वेण युष्माकास्माकयोः प्राप्तयोः प्रत्ययोत्तरपदयोश्च (7.2.98) इति त्वमयोरेकवचनेतवकममकावादेशौ विधीयेते। एकवचनपरयोः इति। एकवचनं परं याभ्यां ते तथोक्ते। निमित्तयोस्तु इत्यादि। यथा पूर्व एव सूत्रे योगविभागान्निमित्तयोरादेशौ प्रति यथासंख्यत्वं न भवति, तथेहापि न भविष्यति। तस्य च यथासंख्याभावस्य पूर्वसूत्र एव योगविभागो हेतुः। तेन हि पूर्वत्र निमित्ते निवृत्ते यथासंख्ये कृते तस्मादिहाप्यनुवर्तते। ते निवृत्ते यथासंख्ये एवानुवर्तेते; अजहद्धर्मत्वादधिकाराणाम्। तस्मादिहापि पूर्वकयोगविभागाद्यवासंख्यभावः। इह सर्वविधिभ्यो लुग्विधिर्वलवानित्येकवचनस्य लुकि कृते युष्मदस्मदोरेकवचनपरता न सम्भवतीति प्रत्ययलोपलक्षणेन समर्थयितव्या। तदपि प्रत्ययलोपलक्षमं प्रतिषेधलक्षणं प्रतिषेधयितुमाह - ननु च इत्यादि। वचनात् इत्यादि परिहारः। यदि हि प्रत्ययलोपलक्षणं न स्यादिदं वचनमपार्थकं स्यादित्यभिप्रायः। ननु च यस्यैवक वचनपरता सम्भवति तस्य विशेषणार्थमेकवचनं स्यात्, कस्यैकवचनपरता सम्भवति? निमित्तस्य खञादेः। निमित्ते त्वेकवचनपरत्वेन विशेष्यमाणे सतीहैव स्याताम् - यौष्माकः पुत्रः, आस्माकः पुत्रः; अत्र ह्रेकवचनपरत्वम्, तद्धि तस्योपपद्यते; इह च न स्याताम् - तावकाः पुत्राः, मामकाः पुत्रा इति। न ह्यत्र निमित्तस्यैकवचनपरता सम्भवतीति? नैतदस्ति; युष्मदस्मदी पूर्वसूत्रे विशेषे अभूताम्। तथा हि - खञ्यणि च परतो युष्मदस्मदोरिति खञण्परता तयोः, अत एव युष्मदस्मदी विशेष्येते। तदिहापि तथाभूते एवानुवर्तेते; अजहद्धर्मत्वादधिकाराणामिति तयोरेवैकवचनपरत्वं विशेषणं युक्तम्। अथ वा तवकममकयोर्विधेयत्वेन प्राधान्यात् तयोरेवैतद्विशेषणं युक्तम्। तयोरेव तद्विशेषणं भवत् स्थानिद्वारकमेव भवति। यदि स्थानिनोरेकवचनपरता, एवमादेशौ स्थानिवत्त्वादेकवचनपरौ भवतः। तदनेनापि प्रकारेण युष्मदस्मदोरेकवचनविशेषणं युक्तम्। न तु कथञ्चिन्निमित्तस्य खञादेः।अथ वा इत्यादि। पुर्वं पारिभाषिकमेकवचनमाश्रित्य व्याख्यातम्, इदानीं त्वर्तमाश्रित्य व्याचष्टे - एकोऽर्थ उच्यते येन तदेकवचनम्। अत्र तु व्याख्याने एकवचने इति नेदं सप्तम्येकवचनम्। किं तर्हि? प्रथमाद्विवचनान्तम्॥
Prakriyasarvasvam¶
खञ्यणि च परे एकार्थयोर्युष्मदस्मदोरेतौ स्तः । तावकीनम् । मामकीनम् । तावकम् । मामकम् । छे तु—
Sutra Prayogas¶
तावकं (कुमारसम्भवम्): तवकममकावेकवचने इति तवकादेशः।
तावकीं (किरातार्जुनीयम्): तवकममकावेकवचने इति तावकादेशः।
तावकीनैः (किरातार्जुनीयम्): तवकममकावेकवचने इति तवकादेशः।